This page has been fully proofread once and needs a second look.

निरूपणम् ]
 
सारविवेचिनोव्याख्या संवलितः
 
न हि मत्वर्थलक्षणां विना सोमस्याऽन्वयः सम्भवति । यदि तावत्सोमयाग-

योरैकरूप्येण भावनायां करणत्वेनैवाऽन्वयः- -'सोमेन यागेनेष्टं भावयेत्' इति,

तत उभयविधाने वाक्यभेदः, सोमस्य याग वत्फलभाव नाकरणत्वेन प्राधान्या-

पातश्च, यागार्थत्वानुपपत्तिश्च, ([^)] यागे द्रव्यानुपपत्तिश्च प्रत्ययवाच्यफलभाच-
व-
नायाः समानपदोपात्तेन यागेन करणाकाहाङ्क्षानिवृत्तत्वेन भिन्नपदोपान्तस्य
त्तस्य
सोमस्य करणत्वेनाऽन्वयानुपपत्तिश्च स्यात् ।
 

 
यदि च वैयधिकरण्येनान्वयः; तत्र न तावत् 'यागेन सोमम्' इत्यन्वयः,

समानपदोपात्तत्वात्प्र (२)
[^2]त्ययवाच्यफलभावनायां करणत्वेनाऽन्वितस्य यागस्य
*

सोमकर्मकभावनान्वयानुपपत्तेः, यागस्य सोमार्थत्वा ([^) ]पाताञ्च । न चेष्टाप-

 
66
 
ग्र

 
[commentary]
 
ह-न हीति । सोमयागयोरुभयोरपि सामानाधिकरण्येनाऽन्वयोङ्गीक्रियते ?, वैयधि-

करण्येन वा ?, नाऽऽद्य इत्याह - --यदि तावदिति । ऐकरूप्येण इत्यस्य विवरणं करण-

त्वेनेति । उभयविधाने सोमस्य यागस्य चोभयोः पृथक्पृथक्तिविधाने । ननु प्राप्तत्वा-

द्भावनाया अनेकविशिष्टभावनाविधानं सम्भवत्येव । उक्तं हि वार्तिककृता- "अप्राप्ते तु

विधोधीयन्ते बहवोऽप्येकयत्त" इति, ग्राह- -सोमस्येति । फलभावनाकर
-
णत्वेन फलभाव्यकभावनायां करणत्वेन । प्राधान्यापात इति । यथा यागस्य साक्षात्फलं

प्रति करणत्वं, तद्वत् सोमस्याऽप्यापत्त्या उभयोः प्राधान्यापात इत्यर्थः । ततश्च सोमस्य

साक्षात्लजनकत्वेनादृष्टार्थत्वाऽपत्त्या प्रतिनिधिर्न स्यादिति भावः । यागार्थत्वानुप

पत्तिरिति । यागाङ्गत्वानुपपत्तिरित्यर्थः । ननु यागाङ्गत्वाभावेऽपि सोमयागयोः एक-

वाक्योपादानात् आारुण्यवत् परस्परसम्बन्धोऽस्तु, यागे द्रव्येति । "गोदो-

हनेन पशुकामस्य प्रणये "दित्यादौ फलार्थे विहितस्य गोदोहनस्य प्रसङ्गात्प्रणयनोप-

कारकत्वेऽपि यथा नित्यप्रयोगे न गोदोहनस्य प्राप्तिः, तद्वदत्र फलार्थे विहितस्य सोमस्य

प्रसंगाद्यागोपकारकत्वेऽपि न तस्य नित्यप्रयोगे प्राप्तिः स्यादिति यागे द्रव्याभावः स्यादेवे-

ति भावः । ननु नैतत्सम्भवति, यागविधिबलादेव द्रव्यप्राप्तेः, देवतोद्देश्यकद्रव्य-

त्यागो हि यागः । स च द्रव्यमन्तरा न सम्भवतीति यत्किंचित् द्रव्यमाक्षेपप्राप्तमेव;

अत एव "सर्वे द्रव्यविधयो नियमविधय"इत्यभियुक्तोक्तिस्संगच्छते । श्रुतो न यागे

द्रव्याभाव इत्यस्वरसादाह--प्रत्ययेति । यागस्य समानपदोपात्तत्वनिर्वाहाय भावनायाः

प्रत्ययवाच्यत्वख्यापनम् ।
 

 
एतावता सामानाधिकरण्येनाऽन्वयाभावमुपपाद्य वैयधिकरण्येनाऽपि अन्वयाभावमु
-
पपादयति- -यदि चेति। वैयधिकरण्येनाऽन्वये प्रकारद्वयमस्ति । यागस्य करणत्वं सोमस्यो-

द्देश्यत्वमित्येकः । सोमस्य करणत्वं यागस्योद्देश्यत्वमित्यपरः । तत्राऽऽद्यं दूषयति--तत्रेति ।

समानपदोपात्तत्वात् एकपदोपात्तत्वात् 'यजेत' इत्येकेन पदेन प्रकृत्यंशेन यागस्य प्रत्य-

यांशेन च भावनाया बोधनादिति भावः । ननु 'भूतं भव्यायोपदिश्यते' इति न्यायेन सि-

द्धस्य सोमादेः फलभावनाकरणत्वेनाऽन्वये सति 'इतरत्तदर्थ' मितिन्यायेन यागस्य सोमार्थ-
9
 

 
[^
] यागीयद्रव्यत्वानुपपत्तिश्च । [^] प्रत्ययवाच्यभावनाकरणत्वेन । [^] पत्तेश्च ।