This page has been fully proofread once and needs a second look.

मीमांसान्यायप्रकाशः
 
[ मत्वर्थलक्षणा)
 
जुहुयात्स्वर्गकामः' इति विधिरप्राप्तं प्रयोजनवद्धोमं विधत्ते - --अग्निहोत्रहोमेन
स्व

स्वर्
गं भावयेदिति ।
 

 
यत्र तु कर्म प्रकारान्तरेण प्राप्तं, तत्र तदुद्देशेन गुणमात्र ([^)] विधानम् ।

यथा 'दध्ना जुहुयात्' इत्यत्र होमस्य 'अग्निहोत्रं जुहुयात' इत्यनेन प्राप्तत्वा-
दो

द्धो
मोद्देशेन दधिमात्रविधानम्- -दध्ना होमं भावयेदिति ।
 

 
( विशिष्टविधिनिरूपणम् )
 

 
यत्र तूभयमप्राप्तं तत्र विशिष्टं विधत्ते । तदुक्तम् – (--[^)] 'न चेदन्येन शिष्टाः
'
इति । शिष्टा उपदिष्टा इत्यर्थः । यथा 'सोमेन यजेत' इत्यत्र सोमयागयोरप्रा-

तत्वात्सोमविशिष्टयागविधानम् 'सोमवता यागेनेष्टं भावयेत्' इति । न चो-

भय विधाने वाक्य भेदः, विशिष्टस्यैकत्वात् ।
 

 
( मत्वर्थलक्षणानिरूपणम् )
 

 
विशिष्टविधौ च त्वर्थलक्षणा । सोमपदेन मत्वर्थो लक्ष्यते--सोमवतेति ।

 
[commentary]
 
अप्राप्तं प्रमाणान्तरेणाऽज्ञातम् । अग्निहोत्रं जुहुयात्स्वर्गकाम इति । यद्यपि नेदं

उत्पत्तिवाक्यमग्निहोत्रहोमस्य, "अग्निहोत्रं जुहेति" इति वाक्यान्तरस्यैव तत्त्वाङ्गीकारात्

तथाऽपि फलाविधेयत्वस्य चतुर्थे साधयिष्यमाणत्वात् अधिकारवाक्येऽपि फलोद्देशन

कर्मण एव विधानात् स्पष्टतया फलवत्त्वज्ञापनार्थमिदमुक्तम् ।
 
2073
 

 
नचेदन्येनेति । प्रथमाध्यायचतुर्थपादीय सूत्रैकदेशोऽयम् । "तद्गुणास्तु विधोये.
-
रन् अविभागाद्विधानार्थे न चेदन्येन शिष्टाः" इति समग्रसूत्रम् । इष्टं भावयेदिति ।

नन्वत्र सोम--याग - --भावनावाचिनामेव शब्दानां श्रवणात् इष्टवाचकपदाश्रवणादिष्टं भाव-

येदिति कथं बोधः इति चेत् - --विधिश्रवणादेवेति ब्रूमः । विधिर्हि प्रवर्त्तनात्मकः स्वस्य
प्रवर्त्तकत्व

प्रवर्त्तकत्व
सिद्धयर्थं स्वविषयस्य यागादेरिष्टसाधनत्वमाक्षिपति, तद्यदि उत्पत्तिवाक्य एव

फलविशेषः श्रूयेत तत्राऽऽक्षेपतः पूर्वमेव फलसम्बन्धोऽवगत इति न तत्राऽऽक्षेपकत्वम्, यत्र

तु स न श्रूयते तत्र सामान्यत इष्टसाधनत्वमाक्षिप्यते । तस्मिन् फलविशेष

अधिकारवाक्येन समर्प्यते । तो युक्त एवोत्पत्तिवाक्ये इष्टं भावयेदिति बोधः । ननु

यदि सोमस्य यागस्य चोभयोर्विधानं, तदा उभयत्र विधिव्यापारः कल्पनीयः, स

विध्यावृत्तिमन्तरा न संभवति, तो "यागेन भावयेत्, सोमेन भावयेत्" इति वाक्यद्वयं

कल्पनीयम्, ततश्च वाक्यभेदः स्फुट इत्याशङ्कयाऽऽह--न चेति । विशिष्टस्यैकत्वा

दिति । सोमविशिष्टो यागो विधीयत इत्युक्तौ विशेष्य एव विधिप्रवृत्ते: तस्य चैकत्वा-

न्नानेकविधानकृतो वाक्यभेद इत्यर्थः । न च विधेर्विशेष्यभूतयागमात्र पर्यवसायित्वे

"सोमेन'" इति व्यर्थमिति वाच्यम् । तस्याऽर्थिक विशेषण विधिकल्पकत्वात् । ननु

सोम--यागयोरुभयोरपि कारकत्वेन परस्परान्वयासंभवेन कथं वैशिष्ट्य मत आह
--विशिष्टविधाविति । सोमवतेति । सोमशब्देन सोमविशिष्टो लक्षणयोच्यते । तस्य

पार्ष्टिठिको यागेन सहाऽभेदसम्बन्धः । सच यागः फलभावनायां करणम् । तदेतदाह - --सोम-

वतेति । नन्वत्र लक्षणामन्तरा उपपत्तौ सत्यां किमर्थं गुरुभूता लक्षणाऽऽश्रीयते, अत

 
[^
] त्रं विधत्ते । [^] जै. सू. १. ४. ९.
 
1
 
-