This page has been fully proofread once and needs a second look.

निरूपणम् स्वार्थप्रतिपादने प्रयोजनम [१]
 
सारविवेचिनोव्याख्यासंवलितः
 
स्वार्थप्रतिपादने प्रयोजनम (१)
लभमाना लक्षणया क्रतोः प्राशस्त्यं प्रतिपाद-

यन्ति । स्वार्थमात्रपरत्वे आनर्थक्यप्रसङ्गात् । न चेष्टापत्तिः, अध्ययनविध्यु-

पात्तत्वेनाऽऽनर्थ क्यानुपपत्तेः । तथा हि - --"स्वाध्यायोऽध्येतव्यः" इत्यध्ययन-

विधिः सकलस्य वेदस्याध्ययनकर्तव्यतां बोधयन् सर्वो वेदः प्रयोजनवदर्थ-

पर्यवसायोति सूचयति, निरर्थकस्याऽध्ययनानुपपत्तेः ।
 
-
 

 

 
च वेदो विधिमन्त्रनामधेय निषेधार्थवादात्मकः । तत्र विधिः प्रयो
-
जनवदर्थविधानेनाऽर्थवान् । स चाऽप्राप्तमर्थं विधत्ते । यथा 'अग्निहोत्रं

 
[commentary]
 
स्वार्थप्रतिपादन इति । स्वघटकपदशक्त्या यादृशोऽर्थोऽवगम्यते तत्प्रतिपादन इत्यर्थः ।

प्रयोजनमलभमाना इति । तदा तेषां भूतार्थमात्रकथनेन प्रवृत्तिविशेषाजन कत्वेन

प्रयोजनानवाप्तेरित्यर्थः । क्रतोः प्राशस्त्यमिति । स्वसन्निहित विधिविहितकर्मगतं प्राश-
स्त्व

स्त्य
मित्यर्थः । इदमुपलक्षणम् । 'बर्हिषि रजतं न देय'मित्यादौ निषेधस्थले 'सोऽरोदीत् '

इत्याद्यर्थवादतो रजतदाननिन्दाया अपि प्रतीयमानत्वात् । ननु नाध्ययनविध्युपादानमा-

त्रेणाऽर्थवादानां प्राशस्त्यलक्षकत्वं संभवति, अध्ययनविधिना हि नाऽर्थज्ञानोद्देशेनाध्ययनं

विधीयते, तस्य लोकसिद्धत्वात् ; नाऽप्यवघातादिवत् नियमार्थत्वेन, अनारभ्याधीतत्वा-

दस्य ऋतूपस्थित्यभावात्, अव्यभिचरितक्रतुसम्बन्धाभावाच्च न जुह्लादिवत्क्रतूपस्थितिः;

विश्वजिन्न्यायेन स्वर्गफलार्थ तैवाऽस्य वक्तव्या । एवं च अक्षरराशिग्रहणेनैव विध्यु-

पपत्तावर्थज्ञानार्थत्वमेवास्य दूरापास्तमिति कुतः प्राशस्त्यलक्षणा, इत्यता त आह--तथा

हीति । अयं भावः "स्वाध्यायोऽध्येतव्य" इत्यत्र कर्मणि तव्यप्रत्ययो विहितः स्वा-

ध्यायस्याऽध्ययनकर्मत्वं ब्रूते । तच्चतुर्विधम् - उत्पत्त्याप्तिविकृतिसंस्कृतिभेदात् ।
प्रकृते
चाऽन्यस्याऽसम्भवात्संस्का<error>र</error><fix>रा</fix>ख्यं तदिति पर्यवस्यति । एवञ्च स्वाध्यायस्याऽध्ययनसंस्कारोऽत्र

विधीयते । संस्कृतस्य स्वाध्यायस्योपयोगापेक्षायां न तावत् स्वर्गार्थत्वं कल्पयितुं

युक्तम्; दृष्टे सम्भवत्यदृष्टकल्पनाया अन्याय्यत्वात्, नाऽपि केवलार्थशाज्ञानार्थत्वम्; तस्य

भारतादाविव लोकत एव सिद्धत्वात् गृहीतपदपदार्थसंगतिकस्याऽऽपाततोऽर्थप्रतीते-

र्जा
यमानत्वाच्च; अतः प्रमाणान्तराप्रमितप्रयोजनवदर्थज्ञानोद्देशेन स्वाध्यायो विनियुज्यत

इत्यङ्गीकर्त्तव्यम्; एवं चाऽर्थवादस्याऽपि स्व<error>स्व</error><fix>स्वा</fix>ध्यायत्वाविशेषात्तदध्ययनस्याऽपि फलवद-
थं

र्थ
ज्ञानार्थत्वमावश्यकमिति स्वशक्यार्थप्रतिपादने प्रयोजनाभावात् फलवत्प्राशस्त्यप्रति
-
पादकत्वं बलादायातमिति । निरर्थकस्येति । "प्रयोजनमनुद्दिश्य न मन्दोऽपि

प्रवर्त्तते" इति न्यायेन सर्वस्याऽपि प्रेक्षावतः फलवत्येव प्रवृत्त्युदयादिति भावः ।
 
,
 

 
एवं वेदस्य सामान्यतः प्रयोजनवत्त्वमुपपाद्य तद्गतस्य एकैकस्यापि भागस्य विशेषतः

प्रयोजनवत्त्वमुपपादयिष्यन् प्रथमतो वेदं पञ्चधा विभजते- इति । यः स्वाध्यायविध्य-

न्यथानुपपत्तिकल्पितेन विधिना फलवदर्थशाज्ञानोद्देशेन विनियुक्तः, स इत्यर्थः । एवं पञ्चधा

वेदं विभज्य तत्र एकैकस्याऽपि भागस्य प्रयोजनवत्त्वं निरूप्य तावता ग्रन्थं परिसमापयि-

ष्यन् प्रथमं प्रथमोद्दिष्टस्य विधिभागस्य प्रयोजनवत्त्वं निरूपयति तत्र विधिरिति ।

प्रयोजनवदर्थेति । प्रयोजनं स्वर्गादिरूपं फलं, तद्वान् यागादिः, तद्विधानेनेत्यर्थः ।
 

 
[^
] अनुपलभमाना ।
 
-