This page has not been fully proofread.

मीमांसान्यायप्रकाशः
 
[ भावनांशत्रय-
(१) सा च शाब्दीभावनांशत्रयमपेक्षते, साध्यं, साधनमितिकर्तव्यतां,
चेति । तत्र साध्याकाङ्क्षायां चक्ष्यमाणांशत्रयोपेताऽऽर्थाभावना साध्यत्वेन
सम्वध्यते, एकप्रत्ययगम्यत्वेन समानाभिधानश्रुतेः । यद्यपि संख्यादीनामध्ये-
कप्रत्ययगम्यत्वं समानं तथाऽप्ययोग्यत्वान्न तेषां भाव्यत्वेनाऽन्वयः ।
 
करणाकाङ्क्षायां लिङादिज्ञानं करणत्वेन सम्बध्यते । तस्य च करणत्वं न
भावनोत्पादकत्वेन सन्निकर्षस्येव रूपादिज्ञाने, सन्निकर्षात्प्राक् रूपज्ञानस्येव
लिङादिज्ञानात्प्राकू शब्दधमंभावनाया अभावप्रसङ्गात्, किं तु भावनाभाव्य-
निर्वतकत्वेनैव । लिङा दिशानं हि शब्दभावनाभाव्यार्थी भावनां निर्वर्तयति,
कुठार इव च्छेदनम् । अतो लिङादिज्ञानस्य करणत्वेनान्वयः ।
 
इतिकर्तव्यताकाङ्क्षायां प्राशस्त्यज्ञानमितिकर्तव्यतात्वेन सम्बध्यते । तच्च
प्राशस्त्यज्ञानं 'वायुर्वै क्षेपिष्ठा देवता' इत्याद्यर्थवादैर्जन्यते । ते ह्यर्थवादाः
 
नकल्पनाप्रसङ्गात् । नित्यज्ञानस्य च वेदप्रामाण्याधीनसिद्धिकत्वेनान्योन्याश्रयत्वात् ।
सति वेदस्यापौरुषेयत्वेन प्रामाण्ये तद्बोधितस्य नित्यज्ञानवतः परमेश्वरस्य वेदकर्तृत्वम् ।
तत्कर्तृकत्वेन च वेदप्रामाण्यमिति । 'तस्यैतस्य महतो भूतस्य निश्वसितमेतत्"
इत्यादिश्रुतिरपि निश्वासवदप्रयत्नसिद्धत्वमवबोधयन्ती ईश्वरस्य कर्तृत्वं निवारयति । सा
ध्यमिति । सर्वत्र व्यापारेऽभिहिते किंप्रयोजनकोऽयमिति प्रथमतः साध्याकांक्षायाः फला•
कांक्षापरपर्यायायास्समुदयात् प्रथमं तस्य निर्देशः । एकप्रत्ययेति । एकेन 'त' इति
प्रत्ययेन अंशद्वयविशिष्टेन उभयोर्भावनयोबध्यत्वात् इत्यर्थः । ननु 'यजेत' इति तप्र-
त्ययेन भावनाया इवैकत्वस्याऽपि बोधनात् तस्या भाव्यत्वं कुतो न स्यात् ? एवं काला-
देरपीत्यताह– यद्यपोति । अयोग्यत्वादिति । तेषां कृतिसाध्यत्वाभावेन
ध्यत्वापरपर्यायभाव्यत्वान्वयो न युज्यत इत्यर्थः ।
 
कृतिसा-
www
 
3
 
ननु न भावनां प्रति लिङादिज्ञानस्य करणत्वं संभवति, करणत्वं हि उत्पादकत्वरूपं
लोके दृष्टम्, नात्र भावनोत्पादकत्वं लिङ्ज्ञानस्य संभवति, तदनन्तरभावित्वात्तस्य त
ह-तस्य चेति । विषयेन्द्रिय सन्निकर्षस्य रूपादिज्ञाने यथा करणत्वमुत्पादकत्वरूपं,
तथाऽत्र न संभवतीत्यर्थः । भावादिति । एवं च तस्य नित्यत्वमौत्पत्तिकसूत्रोक्तं
व्याहन्येतेति भावः । कुठार इव छेदनमिति । यथा कुठारः पुरुषसाध्यछेदन व्यापार
निर्व॑र्तयत् पुरुषस्य करणमित्युच्यते, एवं लिङादिज्ञानमपि शब्दभावनाभाव्यार्थभाव-
नां निर्वर्त्तयन् शब्दभावनाकरणमित्युच्यत इत्यर्थः । एवं च न स्वोत्पादकत्वमत्र करणत्वं,
किन्तु स्वभाव्यनिर्वर्तकत्वमेव पारिभाषिकं स्वकरणत्वमङ्गीक्रियत इति फलितम् ।
 
प्राशस्त्यज्ञानमिति । कर्मेदं शीघ्रफलदत्वादतिप्रशस्तमिति कर्मगतप्राशस्त्यज्ञान-
मित्यर्थः । इतिकर्त्तव्यतात्वेनेति । यथा च फलसाघनीभूतयागादिरूपकरणापेक्षित-
मुपकारं जनयन्तः प्रयाजादयः फलभावनायामितिकर्तव्यतात्वेनाऽन्वयं लभन्ते, एवं
प्रवृत्तिसाधनीभूतलिङादिज्ञानरूपकरणापेक्षितं प्रेवृत्तिप्रतिबन्धकालस्यादिविघटनरूपमुपकारं
जनयत्प्राशस्त्यज्ञानमपि शब्दभावनायामितिकर्त्तव्यतात्वेनाऽन्वयं प्राप्नोतीति भावः ।
१ सा चांशत्रयम् ।