This page has been fully proofread once and needs a second look.

लिङ्त्वांशेनोच्यते। [१] लिङः श्रवणे 'अयं मां प्रवर्तयति' 'मत्प्रवृत्त्यनुकूलव्यापा-
रवानयम्, इति[२] नियमेन प्रतीयमानत्वात् । यच्च यस्मात्प्रतीयते तत्तस्य
वाच्यम्, यथा गोशब्दस्य गोत्वम् । स [३] च प्रवृत्त्यनुकूलव्यापारविशेषो
लोके पुरुषनिष्ठोऽभिप्रायविशेषः, वेदे तु [४] पुरुषाभावाल्लिङादिशब्दनिष्ठ
एव । नहि वेदः पुरुषंनिमितः ।
 
[५] "वेदस्याऽध्ययनं सर्वं गुर्वध्ययनपूर्वकम् ।
वेदाध्ययनसामान्यादधुनाध्ययनं यथा ॥"
 
इत्यादिना वेदापौरुषेयत्वस्य [६] साधितत्वात् । 'यः कल्पः स कल्पपूर्वः'
इति न्यायेन संसारस्याऽनादित्वादीश्वरस्य च सर्वज्ञत्वादीश्वरो गतकल्पीयं
वेदमस्मिन् कल्पे स्मृत्वा उपदिशतीत्येतावतैवोपपत्तौ प्रमाणान्तरेणार्थमुप-
लभ्य रचितत्वकल्पनानुपपत्तेश्च । ततश्च पुरुषाभावाच्छन्दनिष्ठैव सा । अत
एव शाब्दीभावनेति व्यपदिशन्ति ।
 
[commentary]
 
यागाद्यनुकूला वा, तदनुकूलो यो व्यापारविशेषः आचार्यादिनिष्ठः शब्दनिष्ठो वा सा
शाब्दीभावनेत्यर्थः । लिङ्त्वांशेनेति । लिङ्वरूपशक्ततावच्छेदकावच्छिन्नत्वेन रूपेणे-
त्यर्थः । कुत एतत् ? अत आह--लिङश्श्रवणे इति। नियमेन अव्यभिचारेण ।
गोत्वमिति । एतेन आकृतिशक्तिवादिनो मीमांसका इति सूचितम् । प्रवृत्यनुकूलः
गवानयनादिविषयकप्रवृत्त्यनुकूल: । पुरुषनिष्ठः आचार्यादिप्रेरकपुरुषनिष्ठः । पुरुषा-
भावात् निर्मातृपुरुषशून्यत्वात् । लिङादीत्यादिपदेन लेट्लोट्तव्यप्रत्ययानां ग्रहणम् ।
स इत्यनुषज्यते । निर्मातृपुरुषाभावमनुमानेन साधयति--वेदस्येति । सर्व-
शब्देन निखिलशाखासम्बन्धिवेदाध्ययनं गृह्यते, न तु निखिलकालवृत्ति, अतश्च
अतीतकालवृत्तिनिखिलशाखाध्ययनस्य पक्षत्वं बोध्यम् । एवं गुर्वध्ययनपूर्वकत्वं साध्यम्,
वेदाध्ययनत्वं हेतुः, आधुनिकाध्ययनस्य दृष्टान्ततेति विवेकः । इत्यादिनेत्यादिपदेन
'भारतेऽपि भवेदेवं कर्तृस्मृत्या तु बाध्यते । वेदेऽपि तत्स्मृतिर्या तु सार्थवाद-
निबन्धना' इत्यादयो गृह्यन्ते । साधितत्वादिति । वार्तिके वाक्याधिकरण इति शेषः ।
ननु वेदस्येश्वरकर्तृकत्वमेवाऽस्तु तस्य सर्वज्ञत्त्वेनाऽतीन्द्रियधर्मादिविषयकज्ञानसम्भवेन
वेदकर्तृत्वसम्भवात् । अतश्च सिद्धं पौरुषेयत्वमित्यत आह--यः कल्प इति । अयं भावः--ईश्वरः किं यस्मिन् कस्मिंश्चित् कल्पे रचयति वेदम् ? उत प्रतिकल्पम् ? नाद्यः, तदभाव-
वति कल्पे वेदैकगम्यधर्माधर्मज्ञानाभावेन धर्माधर्मानुष्ठानाभावात् कल्पान्तरोत्पन्न प्राणिनां
सुखदुःखोत्पत्तिस्तदनुभवो वा न स्यात् । अनादौ संसारे क्व कल्पे रचनम् ? क्व कल्पे त-
स्यैवोपदेशः इति नियन्तुमशक्यत्वाच्च । न द्वितीयः, एकस्मिन् कल्पे स्थितं वेदं
सर्वेष्वपि कल्पान्तरेषु सर्वज्ञत्वादुपदिशतीत्येवं कल्पनालाघवे सति प्रतिकल्पं रचना-
कल्पनागौरवाङ्गीकरणस्यान्याय्यत्वात् । "धाता यथापूर्वमकल्पयत्" इत्यादिश्रुतिर-
प्यत्राऽनुकूला । पक्षद्वयेऽपि वाक्यरचनाया जन्यज्ञानपूर्वकत्वदर्शनेन ईश्वरस्याऽपि जन्यज्ञा-
 
[^१] लिङ्श्रवणे । [^२] इति1 हि नियमेन प्रतीयते । [^३] स च व्यापरविशेषः । [^४] लिङादिनिष्ठ एव ।
[^५] श्लो. वा. वाक्याधिकरणे १.१.६. पृ.९४५. [^६] समर्थितत्वात् ।