This page has been fully proofread once and needs a second look.

लक्षणम् ] ] खारविवेचिनीव्याख्या संवलितः
 
लिङ्त्वांशेनोच्यते। ([)] लिङ्ङः श्रवणे 'श्रयं मां प्रवर्तयति' 'मत्प्रवृत्त्यनुकूल व्यापा-

रवानयम्, इति ([)] नियमेन प्रतीयमानत्वात् । यच्च यस्मात्प्रतीयते तत्तस्य

वाच्यम्, यथा गोशब्दस्य गोत्वम् । स ( [)] च प्रवृत्त्यनुकूल व्यापारविशेषो

लोके पुरुषनिष्ठोऽभिप्रायविशेषः, वेदे तु ([)] पुरुषाभावाल्लिङा दिशब्द निष्ठ

एव । नहि वेदः पुरुषंनिमितः ।
 
(

 
[
)] "वेदस्याsध्ययनं सर्वं गुर्वध्ययनपूर्वकम् ।

वेदाध्ययनसामान्यादधुनाध्ययनं यथा ॥"

 
इत्यादिना वेदापौरुषेयत्वस्य ([)] साधितत्वात् । 'यः कल्पः स कल्पपूर्वः'

इति न्यायेन संसारस्याऽनादित्वादीश्वरस्य च सर्वज्ञत्वादीश्वरो गतकल्पीयं

वेदमस्मिन् कल्पे स्मृत्वा उपदिशतीत्येतावतैवोपपत्तौ प्रमाणान्तरेणार्थमुप
-
लभ्य रचितत्वकल्पनानुपपत्तेश्च । ततश्च पुरुषाभावाच्छन्दनिष्ठैव सा । अत

एव शाब्दीभावनेति व्यपदिशन्ति ।
 
12
 

 
[commentary]
 
यागाद्यनुकूला वा, तदनुकूलो यो व्यापारविशेषः प्राचार्यादिनिष्ठ :ठः शब्दनिष्ठो वा सा

शाब्दीभावनेत्यर्थः । लिङ्त्वांशेनेति । लिङ्वरूपशक्ततावच्छेदका वच्छिन्नत्वेन रूपेणे-

त्यर्थः । कुत एतत् ? -
अत आह--लिङश्श्रवणे इति । नियमेन अव्यभिचारेण ।

गोत्वमिति । एतेन प्राकृतिशक्तिवादिनो मीमांसका इति सूचितम् । प्रवृत्यनुकूलः

गवानयनादिविषयक प्रवृत्त्यनुकूल: । पुरुषनिष्टः प्राठः आचार्यादिप्रेरकपुरुषनिष्ठः । पुरुषा-

भावात् निर्मातृपुरुषशून्यत्वात् । लिङादीत्यादिपदेन लेट्लोट्तव्यप्रत्ययानां ग्रहणम् ।

स इत्यनुषज्यते । निर्मातृपुरुषाभावमनुमानेन साधयति--वेदस्येति । सर्व-

शब्देन निखिलशाखासम्बन्धिवेदाध्ययनं गृह्यते, न तु निखिलकालवृत्ति, अतश्च

अतीतकालवृत्तिनिखिलशाखाध्ययनस्य पक्षत्वं बोध्यम् । एवं गुर्वध्ययनपूर्वकत्वं साध्यम्,

वेदाध्ययनत्वं हेतुः, आधुनिकाध्ययनस्य दृष्टान्ततेति विवेकः । इत्यादिनेत्यादिपदेन

'भारतेऽपि भवेदेवं कर्तृस्मृत्या तु बाध्यते । वेदेऽपि तत्स्मृतिर्या तु सार्थवाद-

निबन्धना' इत्यादयो गृह्यन्ते । साधितत्वादिति । वार्तिके वाक्याधिकरण इति शेषः ।

ननु वेदस्येश्वरकर्तृकत्वमेवाऽस्तु तस्य सर्वज्ञत्त्वेनाऽतीन्द्रियधर्मादिविषयकज्ञानसम्भवेन

वेदकर्तृत्वसम्भवात् । अतश्च सिद्धं पौरुषेयत्वमित्यत ग्रा--यः कल्प इति । अयं भावः-
-ईश्वरः किं यस्मिन् कस्मिंश्चित् कल्पे रचयति वेदम् ? उत प्रतिकल्पम् ? नाद्यः, तदभाव-

वति कल्पे वेदैकगम्यधर्माधर्मशाज्ञानाभावेन धर्माधर्मानुष्ठानाभावात् कल्पान्तरोत्पन्न प्राणिनां

सुखदुःखोत्पत्तिस्तदनुभवो वा न स्यात् । नादौ संसारे क्व कल्पे रचनम् ? क्व कल्पे त-

स्यैवोपदेशः इति नियन्तुमशक्यत्वाच्च । न द्वितीयः, एकस्मिन् कल्पे स्थितं वेदं

सर्वेष्वपि कल्पान्तरेषु सर्वज्ञत्वादुपदिशतीत्येवं कल्नालाघवे सति प्रतिकल्पं रचना-

कल्पनागौरवाङ्गीकरणस्यान्याय्यत्वात् । "धाता यथापूर्वमकल्पयत्" इत्यादि श्रुतिर
-
प्यत्राऽनुकूला । पक्षद्वयेऽपि वाक्यरचनाया जन्यज्ञानपूर्वकत्वदर्शनेन ईश्वरस्याऽपि जन्यज्ञा-

 
[^१] लिङ्श्रवणे । [^२] इति1 हि नियमेन प्रतीयते । [^
] च व्यापर विशेषः । [^] लिङादिनिष्ठ एव ।
 
१ लि

[^५]
श्रवणे । २ इति हि नियमेन प्रतीयते ।
 
५ को
लो. वा. वाक्याधिकरणे १. .. पृ.९४५. [^] समर्थितत्वात् ।