This page has not been fully proofread.

लक्षणम् ] ] खारविवेचिनीव्याख्या संवलितः
 
लिङ्त्वांशेनोच्यते। (१) लिङ् श्रवणे 'श्रयं मां प्रवर्तयति' 'मत्प्रवृत्त्यनुकूल व्यापा-
रवानयम्, इति (२) नियमेन प्रतीयमानत्वात् । यच्च यस्मात्प्रतीयते तत्तस्य
वाच्यम्, यथा गोशब्दस्य गोत्वम् । स ( ३) च प्रवृत्त्यनुकूल व्यापारविशेषो
लोके पुरुषनिष्ठोऽभिप्रायविशेषः, वेदे तु (४) पुरुषाभावाल्लिङा दिशब्द निष्ठ
एव । नहि वेदः पुरुषंनिमितः ।
 
(५) "वेदस्याsध्ययनं सर्व गुर्वध्ययनपूर्वकम् ।
वेदाध्ययनसामान्यादधुनाध्ययनं यथा ॥"
इत्यादिना वेदापौरुषेयत्वस्य (६) साधितत्वात् । 'यः कल्पः स कल्पपूर्वः'
इति न्यायेन संसारस्याऽनादित्वादीश्वरस्य च सर्वज्ञत्वादीश्वरो गतकल्पीयं
वेदमस्मिन् कल्पे स्मृत्वा उपदिशतीत्येतावतैवोपपत्तौ प्रमाणान्तरेणार्थमुप
लभ्य रचितत्वकल्पनानुपपत्तेश्च । ततश्च पुरुषाभावाच्छन्दनिष्ठैव सा । अत
एव शाब्दीभावनेति व्यपदिशन्ति ।
 
12
 
यागाद्यनुकूला वा, तदनुकूलो यो व्यापारविशेषः प्राचार्यादिनिष्ठ : शब्दनिष्ठो वा सा
शाब्दीभावनेत्यर्थः । लिङत्वांशेनेति । लिङ्वरूपशक्ततावच्छेदका वच्छिन्नत्वेन रूपेणे-
त्यर्थः । कुत एतत् ? -
लिव इति । नियमेन अव्यभिचारेण ।
गोत्वमिति । एतेन प्राकृतिशक्तिवादिनो मीमांसका इति सूचितम् । प्रवृत्यनुकूलः
गवानयनादिविषयक प्रवृत्त्यनुकूल: । पुरुषनिष्टः प्राचार्यादिप्रेरकपुरुषनिष्ठः । पुरुषा-
भावात् निर्मातृपुरुषशून्यत्वात् । लिङादीत्यादिपदेन लेट्लोट्तव्यप्रत्ययानां ग्रहणम् ।
स इत्यनुषज्यते । निर्मातृपुरुषाभावमनुमानेन साधयति – वेदस्येति । सर्व-
शब्देन निखिलशाखासम्बन्धिवेदाध्ययनं गृह्यते, न तु निखिलकालवृत्ति, अतश्च
अतीतकालवृत्तिनिखिलशाखाध्ययनस्य पक्षत्वं बोध्यम् । एवं गुर्वध्ययनपूर्वकत्वं साध्यम्,
वेदाध्ययनत्वं हेतुः आधुनिकाध्ययनस्य दृष्टान्ततेति विवेकः । इत्यादिनेत्यादिपदेन
'भारतेऽपि भवेदेवं कर्तृस्मृत्या तु बाध्यते । वेदेऽपि तत्स्मृतिर्या तु सार्थवाद-
निबन्धना' इत्यादयो गृह्यन्ते । साधितत्वादिति । वार्तिके वाक्याधिकरण इति शेषः ।
ननु वेदस्येश्वरकर्तृकत्वमेवाऽस्तु तस्य सर्वशत्त्वेनाऽतीन्द्रियधर्मादिविषयकज्ञानसम्भवेन
वेदकर्तृत्वसम्भवात् । अत सिद्धं पौरुषेयत्वमित्यत ग्राह-यः कल्प इति । अयं भावः-
ईश्वरः किं यस्मिन् कस्मिंश्चित् कल्पे रचयति वेदम् ? उत प्रतिकल्पम् ? नाद्यः, तदभाव-
वति कल्पे वेदकगम्यधर्माधर्मशानाभावेन धर्माधर्मानुष्ठानाभावात् कल्पान्तरोत्पन्न प्राणिनां
सुखदुःखोत्पत्तिस्तदनुभवो वा न स्यात् । नादौ संसारे क्व कल्पे रचनम् ? क्व कल्पे त-
स्यैवोपदेशः इति नियन्तुमशक्यत्वाच्च । न द्वितीयः, एकस्मिन् कल्पे स्थितं वेदं
सर्वेष्वपि कल्पान्तरेषु सर्वज्ञत्वादुपदिशतीत्येवं कल्सनालाघवे सति प्रतिकल्पं रचना-
कल्पनागौरवाङ्गीकरणस्यान्याय्यत्वात् । "धाता यथापूर्वमकल्पयत्" इत्यादि श्रुतिर
प्यत्राऽनुकूला । पक्षद्वयेऽपि वाक्यरचनाया जन्यज्ञानपूर्वकत्वदर्शनेन ईश्वरस्याऽपि जन्यज्ञा-
३ सच व्यापर विशेषः । ४ लिङ दिनिष्ठ एव ।
 
१ लिश्रवणे । २ इति हि नियमेन प्रतीयते ।
 
५ को. वा. वाक्याधिकरणे १. १० ६० पृ० ९४५. ६ समर्थितत्वात् ।