This page has not been fully proofread.

मीमांसान्यायप्रकाशः
 
[ धर्म-
विधोयमानोऽर्थो धर्मः । यथा यागादिः । स हि 'यजेत स्वर्गकाम' इत्यादिवा-


क्येन स्वर्गमुद्दिश्य विधीयते । तथा हि-यजेतेत्यत्राऽस्त्यंशद्वयम्, यजिधातुः

प्रत्ययश्च । ([^)] तत्र प्रत्ययेऽप्यस्त्यंशद्वयम्, श्रख्यातत्वं लिङ्त्वं च । आख्या-

तत्वं च दशसु लकारेषु विद्यते । लिङ्त्वं पुनः केवलं लिङयेव । तत्राऽऽख्यात-

त्वलिङ्त्वाभ्यां भावनैवोच्यते । भावना नाम-- भवितुर्भवनानुकूलो भावक

व्यापार विशेषः । ([^)] सा च द्विविधा ([^)] शाब्दी भावना आर्थी भावना चेति ।

 
तत्र पुरुषप्रवृत्त्यनुकू ([^) ]लभावकव्यापार विशेषः शाब्दी भावना । सा च

 
[commentary]
 
धर्मंप्रामाण्येऽपि न क्षतिः । ननु 'चोदनालक्षणोऽर्थो धर्मः' इति पारमर्षेषं धर्मलक्षण-

सूत्रम्, चोदनाशब्दश्च "चोदनेति क्रियायाः प्रवर्त्तकं वचनमाहुः" इति भाष्यात्

"चोदना चोपदेशश् विधिश्वैचैकार्थवाचिनः" (श्लोक वा० पृ० २११) इति वार्त्ति-

काच्च विधिवाक्यमेव बोधयतीति विधिबोधितत्वमेव धर्मलक्षणे वक्तव्यं, तत्त्यक्त्वा कथं

वेदबोधितत्वमुच्यते इति चेत्, न चोदनामात्रगम्यत्वं धर्मस्य, किन्तु चोदनादिप्रमाणा-

ष्टकगम्यत्वमेव, अत एव भगवता भाष्यकारेण प्रथमाध्यायार्थप्रतिज्ञावसरे "को धर्मः,

कथंलक्षणकः, " इति सामान्यत एव प्रतिज्ञा कृता । अत एव च प्रमाणाध्याये प्रथमे

स्मृत्याचारादीनां विचार: संगच्छते । सूत्रं तु प्रथमपादार्थप्रतिज्ञापरमिति ॥ 'न हिंस्यात्'

इत्यादि निषेधविषयाणां हिंसादीनामपि निषेधवाक्यरूपचोदनाविषयत्वात् तेषां धर्मत्वव्यु -

दासार्थमर्थपदम् । अत्र च सूत्रस्थचोदनापदेन प्रवर्तकवाक्यवत् निवर्तकवाक्यस्यापि

ग्रहणम्, अत एव "प्रवृत्तौ वा निवृत्तौ वा या शब्दश्रवणेन धीः । सा चोदना" - इति

वार्त्तिकमपि सङ्गच्छते । एवं च चोदनेति क्रियायाः प्रवर्तकं वचनमित्यत्र प्रवर्तकशब्दो

निवर्तकस्याऽप्युपलक्षकः, एवं वार्तिकस्थविधिशब्दो निषेधस्याऽप्युपलक्षक इति ध्येयम् ॥

यथा यागादिरिति । एतेन गौतमीयानामिव नाऽस्माकमपि विहितकर्मजन्यापूर्वमेव र्मः;

किन्तु विहितो यागादिरेव मुख्यो धर्मः, अपूर्वे तु तज्जन्यत्वेन भाक्तः प्रयोगः इति सूचि-

तम् । आदिपदेन दानहोमादयो द्रव्यगुणादयश्च गृह्यन्ते । तत्र लक्षणं सङ्गमयति

हीति । ननु कथं यागादेः विधेयत्वम्, ? कश्च वा विधिः ? ग्राअत आह- -तथाहीति ।
 

अंशद्वयं शक्तशब्दद्वयं । तत्र धातुप्रत्यययोर्मध्ये । अंशद्वयं शक्ततावच्छेदकद्वयम् । दश-

स्विति । यजेतेत्यत्र यदाख्यातत्वं तद्दशलकारसाधारणमित्यर्थः । आख्यातेति । प्रत्यय-

वृत्तिभ्यामित्यर्थः । भावनैवेति । भावनाद्वयमपीत्यर्थः । भावनास्वरूपं प्रतिपादयति -
भावना नामेति । भवितुः उत्पद्यमानस्य, भावनानुकूल:लः उत्पत्यनुकूलः, भावक-

व्यापार विशेषः प्रयोजकनिष्ठव्यापार विशेषः । शाब्दीति । शब्द निष्ठत्वाच्छाब्दीति ग्रन्थ-

कृदेव वक्ष्यति । लौकिकानां प्रवर्तनाविशेषाणां पुरुषधर्मत्वेन शब्दनिष्ठत्वायोगात् न तेषां

शब्दभावनात्वम् । केचित्तु प्रवर्त्तनारूपपुरुषाशयविशेषस्यापि लौकिकस्य शब्दाभिधेय-

त्
वात् शाब्दीभावनात्व मिच्छन्ति । आर्थीति । अर्थ्यते प्रार्थ्यते पुरुषैरिति अर्थः फलम्,

तत्प्रयोजकत्वाद्भावना
तत्र तयोर्मध्ये । पुरुषेति ।
 
र्थी या फलं येनेत्यर्थः पुरुषः, तद्गतत्वादार्थी ।

तत्र तयोर्मध्ये । पुरुषेति ।
प्रयोज्यस्य पुरुषस्य या प्रवृत्तिः गवानयनाद्यनुकूला
 

[^
] तत्र इति नास्ति । [^] सा द्विविधा [^] शाब्दी आर्थी चेति । [^] लो भावकव्यापारविशेषः ।
 
-