This page does not need to be proofread.

प्राग्वंशवेदिकारिकाः ॥
 

 
D
 

 
आपस्तम्ब मतादर्थलक्षणं त्वियमिष्यते । तत्राग्न्यायतनान्याहुः शम्या-

मात्राणि याज्ञिकाः ॥ मध्येऽष्टप्रक्रमा ह्यन्तरालदेशं विहाय तु । पूर्वाप-

राग्भ्योस्तत्स्थानं तत्र पूर्वानलस्य तु ॥ षत्रिंशदङ्गुलायामविस्तारच-

तुरस्रकम् । श्रृङ्गुल्यो विंशतिरपि तिलाः स्युस्सार्धषोडश ॥ तन्मात्ररज्वा

भ्रमयेदा पराग्निकमण्डलम् । क्षेत्रतस्तद्विगुणितं दक्षिणाग्नेस्तु मण्डलम् ॥

तद्विष्कम्भार्ध मे कोन त्रिंशदङ्गुलिक मतम् । सार्धेकतिलहीनं तल्लभ्यते शुल्ब-

सूत्रतः ॥ तन्मात्ररज्ज्वा भ्रमणं मण्डले तु कृते सति । उत्तरार्धे परित्यक्ते

शिष्टमर्धेन्दुवद्भवेत् ॥ एवं प्राग्वंशवेदिः स्यादर्थलक्षणसंमता ॥
 

 
12-

अन्यः प्रकारः ॥
 

 
सार्धविशव्यङ्गलेन विलिखेद्गार्हपत्यकम् । सप्तविंशत्यङ्गलेन दक्षिणाग्नि-

स्तथा भवेत् ॥ गताष्टप्रक्रमे प्राच्याः शम्यामात्र प्रमाणतः । लिखेदाहवनयन्तु

चैषा प्राग्वंशवेदिका ॥ गार्हपत्यस्य पुरतः प्रक्रमद्वितयं त्यजेत् । श्रोग्यं सौ

दर्शवेदीवत्ततो गृहपतेः पुरः ॥ श्रोणीभ्यां विलिखेत् पश्चात् प्रवर्ग्याणां

तु सादनम् ॥
 

 
प्राग्वंशस्थ प्रवर्ग्यादिस्थानानां पदार्थानां च प्रमापकानि
 

 
POTRICE DARK
 

 
सूत्राणि ।
 

 
(१) ऋत्विजामुपवेशनप्रकारः प्रवर्ग्यसमये—
 

 
S
 

 
पश्चाद्धोतोपविशति । पुरस्तादध्वर्यु: । दक्षिणतो ब्रह्मा यजमानः

प्रस्तोता व । उत्तरतः प्रतिप्रस्थाताग्नीधश्च । १५-५-३ ॥
 

 
(c)
 

 
(२) मेथ्याः -
 

 
॥ दक्षिणेन दक्षिणं द्वारं मेथीं निहन्ति । १५-६-१३ ॥

(३) वत्सशङ्को:-
-
 

-
 
तस्यैव द्वारा पूर्वस्यै द्वार्यायै दक्षिणतो वत्साय शङ्कुम् । १५-६-१४॥

(४) अजाशङ्को:-

एतस्यैवापरस्यै द्वार्यायै दक्षिणतोऽजाया अभ्यन्तरम् । १५-६-१५ ॥

(५) बर्करशङ्को:-

उत्तरतो बर्कराय । १५-६-१६ ॥
 

 
(६) ततः खरानुपत्रपति । उत्तरेण गार्हपत्यमेकम् । उत्तरेणाहवनीय-

भेकम् । १५-६-२०, २१ ॥
 

 
(७) उत्तरपूर्वद्वारं प्रत्युच्छिष्टखरं करोति ॥ १५-६-२२ ॥
 

 
२५ मी० न्या
 

 
-od