This page has not been fully proofread.

१६२
 
मोमांसान्यायप्रकाशःश
 
ग्रन्थरूपों मदीयोऽयं वाग्व्यापारः सुशोभनः ।
अनेन प्रोयत्तां देवो गोविन्दो भक्तवत्सलः ॥
 
इति ( महामहोपाध्यायेन # ) श्रीमदनन्तदेवसनुमा आपदेवेन कृतं
मीमांसान्यायप्रकाशसंज्ञकं पूर्वमीमांसाप्रकरणं समाप्तम् ॥
 
प्रम्यं स्वेष्टदेवतायै श्रीभगवते वासुदेवाय समर्पयन् "तत्कुरुष्व मदर्पणम्" इति भग-
बदुक्तिं स्वयमेवानुतिष्ठति । ग्रन्थरूप इति ।
 
वसुधावसुनन्देन्द्र ( १९८१ ) मिते वैक्रमवत्सरे ।
ज्येष्ठे मासि सिताष्टम्यां निशीथे कुजवासरे ॥
भागीरथ्यास्तटे रम्यै क्षेत्रे कनखले शुभे ।
पूर्णतामाप विश्वेशकृपयेयं कृतिर्मम ॥
यत्कारुण्य विलासेन प्रपेदे पूर्णतामियम् ।
व्याख्यैनामर्पये तस्य विश्वभर्तुः पदाम्बुजे ॥
 
इति श्रीवेदवेदाङ्गपारगवैदिक सार्वभौमश्रीरघुनाथतनूजेन श्रीमदन्न-
पूर्णागर्भसम्भूतेन महामहोपाध्यायेन श्रीचिश्नस्वामिशास्त्र्यप.
रनाम्ना श्रीवेङ्कटसुब्रह्मण्यशर्मणा विरचिता मीमांसाम्याय
प्रकाशव्याख्या सारविवेचिन्याख्या समाप्तिमगमत् ।
। विश्वेशश्शरणं मम ।
 
॥ शुभमस्तु ॥
 
* ( ) एतश्चिह्नान्तर्गतमषिकमुपलभ्यते कस्मिंश्चित लिखित पुस्तके ।
 
जगारी