This page has been fully proofread once and needs a second look.

निरूपणम् ]
 
सारविवेचिनोव्याख्या लंवलितः
 
विन्दार्पणबुध्या क्रियमाणस्तु निःश्रेयसहेतुः । न च तदर्पणबुद्धवा तद्ध्या तदनुष्ठाने
 
लिए उ
 

प्रमाणाभावः ।
 

 
यत्करोषि यदश्वानासि यज्जुहोषि ददासि यत् ।

यत्तपस्यसि क्रौकौन्तेय तत्कुरुष्व मदर्पणम् ॥
 

 
इति स्मृतेः । अस्याश्चातिष्टकादिस्मृतिवत् प्रामाण्यादित्यन्यन्त्र विस्तरः ॥
का

 
क्वा
हं मन्दमतिः केक्वेयं प्रक्रिया भाट्टसम्मता ।

तस्माद्भक्ते र्विलासोऽयं गोविन्दगुरुपादयोः
 
(
 
तर

 
तत्
कारणमित्यर्थः । ननु सर्वत्र फलवाक्येषु "ज्योतिष्टोमेन स्वर्गकामो यजेत"

"अग्निहोत्रं जुहुयात् स्वर्गकामः" "वाजपेयेन स्वाराज्यकामो यजेत' इत्या
-
दिषु स्वर्गादिरूपफलोद्देशेनैव कर्मणां विनियोगदर्शनात् ईश्वरार्पणबुण्ध्यानुष्ठाने प्रमा
-
णाभावः इत्याशङ्कथ परिहरति--न चेति । यत्करोषीति । यथा च तत्तद्वाक्येषु तत्तत्फ-

लार्थं विहितानामपि कर्मणां "तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन

दानेन तपसानाशकेन" इति श्रुत्या संयोगपृथक्त्वन्यायेन विविदिषोद्देशेन सर्वज्ञानां

विधानं तद्वदनयापि स्मृत्या श्रीभगवदुक्तया तेनैव न्यायेन ईश्वरार्पण बुभ्ध्यानुष्ठान विधा-

नमिति भावः । यद्यपीयं स्मृतिरीश्वरार्पणबुध्याऽनुष्ठान एव प्रमाणम्, न तु तथानुष्ठितस्य

निश्श्रेयस फलकत्वेऽपि । यावच्च तत्र प्रमाणं न प्रदर्श्यते तावत् अनुष्ठाने प्रवृत्तिरेव नोदे-

तीति तदेव प्रथमतः प्रदर्शनीयम् तथापि तत्रैव गीतायामेतच्छूछ्लोकानन्तरपठितेन

 
"शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ।
 
>
 

सन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥"
 

 
इति श्लोकेन पूर्वोक्त कर्मण: भगवद्रूपतावासिफलकत्वमुपवणितं सिद्धं कृत्वैवमुक्तं
प्रन्य

ग्रन्थ
कृतेत्यवगन्तव्यम् । भगवद्गीतावचनस्यास्येतिहास रूपभारतान्तर्गतस्य कुतः तादृशं

स्वार्थे प्रामाण्य मित्यत
आह--अस्या इति । गोगीताया अस्या भारतान्तर्गतत्वेऽपि तदन्त-
गं

र्ग
ताख्यानानासेमेवार्थवादत्वस्य तद्गतविधिभागानां तु धर्मे प्रामाण्यस्य वार्तिककारैरेवार्थ-

वादपादे स्थापितत्वात् विशेषतो भगवतो वासुदेवस्य मुखादेवास्या निर्गतत्वात् विधि-

रूपत्वाच्चास्याः प्रामाण्ये न कोऽपि संशय इत्याशयेनाह - --इत्यन्यत्र विस्तर इति ।

इति शब्दः प्रकरणवाची । कर्मणां तत्तत्फलार्थं विहितानामपि ईश्वरार्पणबुध्याप्यनुष्ठान-

मित्यादिकं प्रकृते सङ्घप्ग्रहेण यदुक्तं तत्सर्वं मया वेदान्तसारव्याख्याने नित्यादीनां कर्मणां

प्रयोजनकथनावसरे विस्तरेण प्रतिपादितं तत एवावगन्तव्यम् । विस्तरभयात्तु नेह प्रप-

ञ्चितमित्यर्थः ।
 

 
एवं प्ग्रन्थं परिसमाप्य तदन्ते नम्रतां प्रदर्शयति--क्वाहमिति । भाट्टसम्मतेति ।

कौमारिलं मतमाश्रित्य प्रवृत्ता ये पार्थसारथिमिश्रप्रभृतयः तेषामभिमतेत्यर्थः । विशेषण-

मेतदुपाददता स्वप्ग्रन्थोऽपि तदेव मतमवलम्ब्य प्रवृत्तो न प्राभाकरं मतमवलम्ब्येति

सूचितम् । तर्हि किमर्थमेतादृश्यामत्यन्त दुरवगाहायां प्रक्रियायां प्रवृत्तिः ? अत श्राह-
-
भक्तेरिति । गोविन्दो भगवान् वासुदेवः स च गुरुश्च तोतौ तयोः पादयोरित्यर्थः । स्वीय
 
1
 
-