This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनोव्याख्या लंवलितः
 
विन्दार्पणबुध्या क्रियमाणस्तु निःश्रेयसहेतुः । न च तदर्पणबुद्धवा तद्नुष्ठाने
 
लिए उ
 
प्रमाणाभावः ।
 
यत्करोषि यदश्वासि यज्जुहोषि ददासि यत् ।
यत्तपस्यसि क्रौन्तेय तत्कुरुष्व मदर्पणम् ॥
 
इति स्मृतेः । अस्याश्चातिष्टकादिस्मृतिवत् प्रामाण्यादित्यन्यन्त्र विस्तरः ॥
काहं मन्दमतिः केयं प्रक्रिया भाट्टसम्मता ।
तस्माद्भक्ते विलासोऽयं गोविन्दगुरुपादयोः
 
(
 
तरकारणमित्यर्थः । ननु सर्वत्र फलवाक्येषु "ज्योतिष्टोमेन स्वर्गकामो यजेत"
"अग्निहोत्रं जुहुयात् स्वर्गकामः" "वाजपेयेन स्वाराज्यकामो यजेत' इत्या•
दिषु स्वर्गादिरूपफलोद्देशेनैव कर्मणां विनियोगदर्शनात् ईश्वरार्पणबुण्यानुष्ठाने प्रमा
णाभावः इत्याशङ्कथ परिहरति-न चेति । यत्करोषीति । यथा च तत्तद्वाक्येषु तत्तत्फ-
लार्थं विहितानामपि कर्मणां "तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन
दानेन तपसानाशकेन" इति श्रुत्या संयोगपृथक्त्वन्यायेन विविदिषोद्देशेन सर्वज्ञानां
विधानं तद्वदनयापि स्मृत्या श्रीभगवदुक्तया तेनैव न्यायेन ईश्वरार्पण बुभ्यानुष्ठान विधा-
नमिति भावः । यद्यपीयं स्मृतिरीश्वरार्पणबुध्याऽनुष्ठान एव प्रमाणम्, न तु तथानुष्ठितस्य
निश्श्रेयस फलकत्वेऽपि । यावच्च तत्र प्रमाणं न प्रदर्श्यते तावत् अनुष्ठाने प्रवृत्तिरेव नोदे-
तीति तदेव प्रथमतः प्रदर्शनीयम् तथापि तत्रैव गीतायामेतच्छूलोकानन्तरपठितेन
"शुभाशुभफलैरेवं मोदयसे कर्मबन्धनैः ।
 
>
 
सन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥"
 
इति श्लोकेन पूर्वोक्त कर्मण: भगवद्रूपतावासिफलकत्वमुपवणितं सिद्धं कृत्वैवमुक्तं
प्रन्यकृतेत्यवगन्तव्यम् । भगवद्गीतावचनस्यास्येतिहास रूपभारतान्तर्गतस्य कुतः तादृशं
स्वार्थे प्रामाण्य मित्यत
इति । गोताया या भारतान्तर्गतत्वेऽपि तदन्त-
गंताख्यानानासेवार्थवादत्वस्य तद्गतविधिभागानां तु धर्मे प्रामाण्यस्य वार्तिककारैरेवार्थ-
वादपादे स्थापितत्वात् विशेषतो भगवतो वासुदेवस्य मुखादेवास्या निर्गतत्वात् विधि-
रूपत्वाच्चास्याः प्रामाण्ये न कोऽपि संशय इत्याशयेनाह - इत्यन्यत्र विस्तर इति ।
इति शब्दः प्रकरणवाची । कर्मणां तत्तत्फलार्थ विहितानामपि ईश्वरार्पणबुध्याप्यनुष्ठान-
मित्यादिकं प्रकृते सङ्घप्रहेण यदुक्तं तत्सर्वं मया वेदान्तसारव्याख्याने नित्यादीनां कर्मणां
प्रयोजनकथनावसरे विस्तरेण प्रतिपादितं तत एवावगन्तव्यम् । विस्तरभयात्तु नेह प्रप-
ञ्चितमित्यर्थः ।
 
एवं प्रन्थं परिसमाप्य तदन्ते नम्रतां प्रदर्शयति-पवाहमिति । भाट्टसम्मतेति ।
कौमारिलं मतमाश्रित्य प्रवृत्ता ये पार्थसारथिमिश्रप्रभृतयः तेषामभिमतेत्यर्थः । विशेषण-
मेतदुपाददता स्वप्रन्थोऽपि तदेव मतमवलम्ब्य प्रवृत्तो न प्राभाकरं मतमवलम्ब्येति
सूचितम् । तर्हि किमर्थमेतादृश्यामत्यन्त दुरवगाहायां प्रक्रियायां प्रवृत्तिः ? अत श्राह-
भक्तेरिति । गोविन्दो भगवान् वासुदेवः स च गुरुश्च तो तयोः पादयोरित्यर्थः । स्वीय
 
1