This page has been fully proofread once and needs a second look.

मीमांसान्यायप्रकाशः
 
।[ आर्थीभावना-
m
 
थौ
र्थो न तु प्रयत्नः । तस्य धातुनोक्तत्वात् व्यापार विशेषापेक्षायां चेच्छादिः

पश्चादवगम्यते, उद्यमननिपातनवत् ।
 

 
तथा च सर्वत्रानुगतत्वादन्योत्पादानुकूलव्यापार सामान्य मेवाख्यातार्थः,

न तु प्रयत्नमात्रम् । रथो गच्छति, देवदत्तः प्रयतत इत्यादिषु तद्भावात् ।

न चात्रौपचारिकत्वं वक्तुं युक्तम्, मुख्ये संभवति तस्यान्याय्यत्वात् ।

करोत्यर्थोऽप्यन्योत्पादेदानुकूलो व्यापार एव न प्रयत्नमात्रम्, 'करोतेश्चेतना-

चेतनकर्तृकाख्यात सामानाधिकरण्यादिति । तरिषत्सिद्धमन्योत्पादानुकलो व्यापा-

रविशेष आर्थी भावनेति ।
 

 
सैव चाख्यातांशेनोच्यते--भावयेदिति । तस्याश्च भाव्याकाङ्क्षायां स्व.
-
र्गादि भाव्यत्वेन सम्बध्यते । करणाकाङ्क्षायां यागादिः करणत्वेन सम्बध्यते ।

इतिकर्तव्यताकाङ्क्षायां प्रयाजादय इतिकर्तव्यतात्वेनं संध्यन्ते । एवञ्च

यजेतेत्यादिना स्वर्गाद्युद्देशेन यागादेर्विधानात् सिद्धं यागादेर्धर्मत्वं प्रयोजन-

मुद्दिश्य वेदेन विहितत्वात् ।
 

 
( उपसंहारः )
 

 
सोऽयं धर्मो यदुद्देशेन विहितः तदुद्देशेन क्रियमाणस्तद्धेतुः । श्रीगो-
bipi

 
[commenta
risun
 
-
 
y]
 
ननु--कोऽत्र विशेषः पूर्वस्मात् पक्षात् ? अत आह--तथा चेति । सर्वत्रेति ।
[

अचेतन कर्तृकस्थले चेतनकर्तृ कस्थले चेत्यर्थः । अनुगतत्वादिति । अन्योत्पादानुकूलत्व
-
स्येति शेषः । तद्भावात् प्रयत्नाभावात् । नन्वेवमप्यन्योत्पादानुकूलव्यापारस्याख्या-

तार्थस्त्वे पचति, पाकं करोतीति यत्नार्थककृञवाञ्धातुना विवरणानुपपत्तिरित्यत आह--करो.
-
त्यर्थोऽपीति । कुत एतत् ? अत आ--करोतेरिति । चेतन कर्तृका ख्यातस्थले

देवदत्तः पचतीत्यादौ देवदत्तः पाकं करोतीति विवरणवत् स्थाली पचतीत्यादावचेतन.
-
कर्तृका ख्यातस्थलेऽपि स्थाली पाकं करोतीति विवरणस्य दृष्टत्वादित्यर्थः । अतश्चोभयानु-

गतव्यापारस्यैवार्थी भावनात्वं भवितुमर्हति, न तु चेतनमात्रनिष्ठस्य प्रयत्नस्येत्युपसंहरति-
-
तत्सिद्धमिति । णिजन्तभुभूधातुना विवरणादपि तस्या अन्योपादानुकूलत्वमेव युक्त-

मित्यभिप्रायः ।
 
1
 

 
एवं मतद्वयेनापि भावनां निरूप्य तत्सम्बन्धित्वात् पूर्वं प्रकरणनिरूपणावसरे निरूपि-

तमपि पुनरत्रांशत्रयं तस्यास्संक्षेपतः कथयति -- --तस्याश्चेति । प्रयाजादय इत्यादिपदेन

यस्य प्रधानस्य प्रकरणे यान्यज्ञाङ्गानि पठितानि तानि प्ग्राह्याणि । प्ग्रन्थारम्भे प्रतिज्ञातं या-

गादेर्धर्मस्व रूपमेतावता प्रबन्धेत निरूप्य दर्शित मित्याशयेन पुनस्तत् स्मारयन् ग्रन्थमुप-

संहरति - --एवश्चेति ।
 
-
 

 
( उपसंहारः )
 

 
ननु यागादे: स्वर्गादिरूपतत्तत्फलोद्देशेन विहितत्वे तत्तस्त्फलेषु वीतरागाणां मु.
-
मुक्षूणां प्रवृत्तिनंर्न स्यात् । इष्टापत्तोतौ केवलं कामिजनमात्रमुद्दिश्य प्रवृत्तं शास्त्रमतिसङ्कुचितं

स्यादिति तस्य महाविषयत्वहानिरित्यत ग्राह- -सोऽयमिति । तद्धेतुः तत्फलहेतुः ।

निःश्रेयसहेतुरिति । निःश्रेयसं मोक्षः तद्धेतुः चित्तशुद्धिसम्पादनद्वारा परम्परा
 
रया