This page has not been fully proofread.

मीमांसान्यायप्रकाशः
 
।[ आर्थीभावना-
m
 
थौ न तु प्रयत्नः । तस्य धातुनोकत्वात् व्यापार विशेषापेक्षायां चेच्छादिः
पश्चादवगम्यते, उद्यमननिपातनवत् ।
 
तथा च सर्वत्रानुगतत्वादन्योत्पादानुकूलव्यापार सामान्य मेवाख्यातार्थः,
न तु प्रयत्नमात्रम् । रथो गच्छति, देवदत्तः प्रयतत इत्यादिषु तद्भावात् ।
न चात्रौपचारिकत्वं वक्तुं युक्तम्, मुख्ये संभवति तस्यान्याय्यत्वात् ।
करोत्यर्थोऽप्यन्योत्पादेनुकूलो व्यापार एव न प्रयत्नमात्रम्, 'करोतेश्चेतना-
चेतनकर्तृकाख्यात सामानाधिकरण्यादिति । तरिषद्धमन्योत्पादानुकलो व्यापा-
रविशेष आर्थी भावनेति ।
 
सैव चाख्यातांशेनोच्यते-भावयेदिति । तस्याश्च भाव्याकाङ्क्षायां स्व.
र्गादि भाव्यत्वेन सम्बध्यते । करणाकाङ्क्षायां यागादिः करणत्वेन सम्बध्यते ।
इतिकर्तव्यताकाङ्क्षायां प्रयाजादय इतिकर्तव्यतात्वेनं संवध्यन्ते । एवञ्च
यजेतेत्यादिना स्वर्गाद्युद्देशेन यागादेविधानात् सिद्धं यागादेर्धर्मत्वं प्रयोजन-
मुद्दिश्य वेदेन विहितत्वात् ।
 
( उपसंहारः )
 
सोऽयं धर्मो यदुद्देशेन विहितः तदुद्देशेन क्रियमाणस्तद्धेतुः । श्रीगो-
bipirisun
 
-
 
ननु – कोऽत्र विशेषः पूर्वस्मात् पक्षात् ? अत आह-तथा चेति । सर्वत्रेति ।
[अचेतन कर्तृकस्थले चेतनकर्तृ कस्थले चेत्यर्थः । अनुगतत्वादिति । अन्योत्पादानुकूलत्व
स्येति शेषः । तद्भावात् प्रयत्नाभावात् । नन्वेवमप्यन्योत्पादानुकूलव्यापारस्याख्या-
तार्थस्वे पचति, पाकं करोतीति यत्नार्थककृञवातुना विवरणानुपपत्तिरित्यत आह-करो.
त्यर्थोऽपीति । कुत एतत् ? तह-करोतेरिति । चेतन कर्तृका ख्यातस्थले
देवदत्तः पचतीत्यादौ देवदत्तः पाकं करोतीति विवरणवत् स्थाली पचतीत्यादावचेतन.
कर्तृका ख्यातस्थलेऽपि स्थाली पाकं करोतीति विवरणस्य दृष्टत्वादित्यर्थः । अतश्चोभयानु-
गतव्यापारस्यैवार्थी भावनात्वं भवितुमर्हति, न तु चेतनमात्रनिष्ठस्य प्रयत्नस्येत्युपसंहरति-
तत्सिद्धमिति । णिजन्तभुधातुना विवरणादपि तस्या अन्योपादानुकूलत्वमेव युक्त-
मित्यभिप्रायः ।
 
1
 
एवं मतद्वयेनापि भावनां निरूप्य तत्सम्बन्धित्वाद पूर्व प्रकरणनिरूपणावसरे निरूपि-
तमपि पुनरत्रांशत्रयं तस्यास्संक्षेपतः कथयति -- तस्याश्चेति । प्रयाजादय इत्यादिपदेन
यस्य प्रधानस्य प्रकरणे यान्यज्ञानि पठितानि तानि प्राह्याणि । प्रन्थारम्भे प्रतिज्ञातं या-
गादेर्मस्व मेतावता प्रबन्धेत निरूप्य दर्शित मित्याशयेन पुनस्तत् स्मारयन् ग्रन्थमुप-
संहरति - एवश्चेति ।
 
-
 
( उपसंहारः )
 
ननु यागादे: स्वर्गादिरूपतत्तत्फलोद्देशेन विहितत्वे तत्तस्फलेषु वीतरागाणां मु.
मुक्षूणां प्रवृत्तिनं स्यात् । इष्टापत्तो केवलं कामिजनमात्रमुद्दिश्य प्रवृत्तं शास्त्रमतिसङ्कुचितं
स्यादिति तस्य महाविषयत्वहानिरित्यत ग्राह- सोऽयमिति । तद्धेतुः तत्फलहेतुः ।
निःश्रेयसहेतुरिति । निःश्रेयसं मोक्षः तद्धेतुः चित्तशुद्धिसम्पादनद्वारा परम्परा