2023-05-09 06:10:07 by dmraviteja
This page has been fully proofread once and needs a second look.
यस्मिन् व्यापारे कृते यागात् स्वर्गो भवतीति । स च व्यापारः क्वचिदुद्यमन-
निपातनादिः, क्वचिच्चाग्न्यन्वाधानादिब्राह्मणतर्पणान्तः कथंभावाकाङ्क्षायां
विशेषरूपेण पश्चादवगम्यते ।
अन्योत्पादानुकूलत्वेन सामान्यतस्त्वाख्यातादेव । रथो ग्रामं गच्छती-
त्यत्रापि आख्यातेन ग्रामप्राप्त्यनुकूलो व्यापार एव प्रतीयते । रथस्तथागमनेन
व्याप्रियते यस्मिन् व्यापारे कृते गमनाद्ग्रामप्राप्तिर्भवतीति प्रतीतेः । नत्वत्र
गमनमात्रमाख्यातार्थः तस्य धातुनोक्तत्वात् । तत्र कोऽसौ व्यापार इत्यपेक्षा-
यां पूर्वोत्तरावान्तरदेशविभजनसंयोजनरूप इति पश्चादवगम्यते । पूर्वेण
प्रदेशेन विभज्योत्तरेण संयुज्य रथो ग्रामं गच्छतीति प्रयोगात् । उद्यम्य
निपात्य कुठारेण च्छिनत्तीतिवत् । एवं देवदत्तः प्रयतत इत्यत्रापि देवदत्त-
स्तथा व्याप्रियते यथा प्रयत्नो भवतीति प्रयत्नानुकूलो व्यापार एवाख्याता-
[commentary]
न्यात्मना प्रतीयत इति पिण्डीभूतोऽर्थः । स इति । सामान्यरूपेण य आख्यातात्
प्रतीतः स इत्यर्थः । 'व्यापार' इति 'अवगम्यत' इत्यनेनान्वेति । क्वचित् लोके कुठा-
रेण च्छिनत्तीत्यादौ । क्वचित् वेदे 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते'त्यादौ ।
अग्न्यन्वाधानब्राह्मणतर्पणपदार्थौ पूर्वं प्रकरणनिरूपणावसरे व्याख्यातौ । पश्चादिति ।
'अग्नीनन्वादधाति "ब्राह्मणांस्तर्पयितवै" इत्यादिभिस्तत्तत्प्रातिस्विकैर्विधिभिरित्यर्थः [^१]
अन्योत्पादेति । यत्नाख्यातार्थवादिनोऽपि अन्योत्पादानुकूलत्वेनैव तत्,बवदन्ति ।
तथापि तन्मते यत्नस्याख्यातार्थत्वेन यागादेः तज्जन्यश्त्वात् फलजनकीभूतयागा दिजनकत्व •-
मन्योत्पादानुकूलत्वम् । अस्मिंश्रमच मते फलजनकीभूतयागाद्युपकारकत्वं तदिति विवेकः ।
अत्र चशब्द एवकारश्च भिन्नक्रमौ । आख्यातातत्तु सामान्यत एवेत्यर्थः । एवं व्यापारसा.-
मान्यस्याख्यातार्थत्वेऽभ्युपगते 'रथो गच्छतो ती'त्याद्यचेतन कर्तृक स्थलेऽप्यौपचारिकत्वं विनैव
निर्वाहो भवतीत्याह--रथ इति । अत्र ग्रामप्राप्तिः फलम् । तज्जनको व्यापारीरो गमनाख्यो
धात्वर्थः । तादृशप्ग्रामप्राप्तिरूपफलोत्पत्तौ व्यापृतस्य यः प्रकारविशेषः पूर्वदेश विभागादि-
रूपः स एव सामान्यरूपेणाख्यातार्थ इति विवेकः । कुठारेण छिनत्ति, यजेतेत्यादौ
चेतनकर्तृकस्थले यथा प्रतीतिः तथैव रथो गच्छतीत्य चेतन कर्तृकस्थलेऽपीस्त्याह--रथस्त.-
थेति । पश्चादिति । प्रमाणान्तरेणेत्यर्थः । कि तत् प्रमाणान्तरम् ? अतश्राआह--पूर्वे-
ऐणेति । एवञ्चास्मम्मते प्रयत्नवा चियतधातूत्तराख्यातस्यापि स एवार्थ इति लाघवम् ।
भवन्मते तु धास्त्वर्थानुकूलयस्त्नस्य तत्राप्रसिद्धे; तत्प्रयोगस्यौपचारिकत्व मेवाङ्गीकरणीय मिति
गौरवमित्याशयेनाह– --एवमिति । प्रयतोत्नो भवतीत्यनेनात्र धात्वर्थस्यैव प्रयतत्नरूपस्य
भाव्यत्वमिति सूचितम् ।
-
[^१.] अत्रेदं वक्तव्यम् – --यजेत, इत्यादौ दैवतोद्देश्यद्रव्यत्यागरूपो व्यापारो भास्वर्थधात्वर्थः, तदनुकूलः मअन्वा.-
धानादिब्राह्मणतपंर्पणान्तो व्यापारकलाप आाख्यातार्थः, स चाख्यातेनानुकूलण्यापारस्व्यापारत्वेन सामान्ये नोच्यते,
विशेषरूपेण तु तैस्तैः प्रातिस्विकविधिभिरुभ्च्यत इति पार्थसारथिमिश्रमतं इति सुविदितं मीमांस-
कानाम् । सति चैवं महामहोपाध्याय श्रीमदभ्यङ्करशास्त्रिमहोदयैः "अन्वाधानादिर्व्यांयापारो देवतोद्देश्य-
कहविःप्रक्षेपानुकूलरत्वेन विशेषरूपेण धातुवाच्यः" इति बहुक्तम्, न तत्र तेषामाशयमवगन्तुमीमहे ।
निपातनादिः, क्वचिच्चाग्न्यन्वाधानादिब्राह्मणतर्पणान्तः कथंभावाकाङ्क्षायां
विशेषरूपेण पश्चादवगम्यते ।
अन्योत्पादानुकूलत्वेन सामान्यतस्त्वाख्यातादेव । रथो ग्रामं गच्छती-
त्यत्रापि आख्यातेन ग्रामप्राप्त्यनुकूलो व्यापार एव प्रतीयते । रथस्तथागमनेन
व्याप्रियते यस्मिन् व्यापारे कृते गमनाद्ग्रामप्राप्तिर्भवतीति प्रतीतेः । नत्वत्र
गमनमात्रमाख्यातार्थः तस्य धातुनोक्तत्वात् । तत्र कोऽसौ व्यापार इत्यपेक्षा-
यां पूर्वोत्तरावान्तरदेशविभजनसंयोजनरूप इति पश्चादवगम्यते । पूर्वेण
प्रदेशेन विभज्योत्तरेण संयुज्य रथो ग्रामं गच्छतीति प्रयोगात् । उद्यम्य
निपात्य कुठारेण च्छिनत्तीतिवत् । एवं देवदत्तः प्रयतत इत्यत्रापि देवदत्त-
स्तथा व्याप्रियते यथा प्रयत्नो भवतीति प्रयत्नानुकूलो व्यापार एवाख्याता-
[commentary]
न्यात्मना प्रतीयत इति पिण्डीभूतोऽर्थः । स इति । सामान्यरूपेण य आख्यातात्
प्रतीतः स इत्यर्थः । 'व्यापार' इति 'अवगम्यत' इत्यनेनान्वेति । क्वचित् लोके कुठा-
रेण च्छिनत्तीत्यादौ । क्वचित् वेदे 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते'त्यादौ ।
अग्न्यन्वाधानब्राह्मणतर्पणपदार्थौ पूर्वं प्रकरणनिरूपणावसरे व्याख्यातौ । पश्चादिति ।
'अग्नीनन्वादधाति "ब्राह्मणांस्तर्पयितवै" इत्यादिभिस्तत्तत्प्रातिस्विकैर्विधिभिरित्यर्थः [^१]
अन्योत्पादेति । यत्नाख्यातार्थवादिनोऽपि अन्योत्पादानुकूलत्वेनैव तत्,
तथापि तन्मते यत्नस्याख्यातार्थत्वेन यागादेः तज्जन्य
मन्योत्पादानुकूलत्वम् । अस्मिंश्
अत्र चशब्द एवकारश्च भिन्नक्रमौ । आख्याता
मान्यस्याख्यातार्थत्वेऽभ्युपगते 'रथो गच्छ
निर्वाहो भवतीत्याह--रथ इति । अत्र ग्रामप्राप्तिः फलम् । तज्जनको व्यापा
धात्वर्थः । तादृश
रूपः स एव सामान्यरूपेणाख्यातार्थ इति विवेकः । कुठारेण छिनत्ति, यजेतेत्यादौ
चेतनकर्तृकस्थले यथा प्रतीतिः तथैव रथो गच्छतीत्य चेतन
थेति । पश्चादिति । प्रमाणान्तरेणेत्यर्थः । कि तत् प्रमाणान्तरम् ? अत
भवन्मते तु धा
गौरवमित्याशयेनाह
भाव्यत्वमिति सूचितम् ।
धानादिब्राह्मणत
विशेषरूपेण तु तैस्तैः प्रातिस्विकविधिभिरु
कानाम् । सति चैवं महामहोपाध्याय
कहविःप्रक्षेपानुकूल