This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनोप्याख्यासंवलितः
 
यस्मिन् व्यापारे कृते यागात् स्वर्गो भवतीति । स च व्यापारः क्वचिदुद्यमन
-
निपातनादिः, कविक्वचिच्चाभ्ग्न्यन्वाथाधानादिब्राह्मणतर्पणान्तः कथंभावाकाङ्क्षा
यां
विशेषरूपेण पश्चादवगम्यते ।
 

 
अन्योत्पादानुकूलत्वेन सामान्यतस्त्वाख्यातादेव । रथो ग्रामं गच्छती-

त्यत्रापि जाख्यातेन ग्रामप्राप्त्यनुकूलो व्यापार एव प्रतीयते । रथस्तथागमनेन

व्याप्रियते यस्मिन् व्यापारे कृते गमनान्ड्द्ग्रामप्राप्तिर्भवतीति प्रतीतेः । नत्वत्र

गमनमात्रमाख्यातार्थः तस्य धातुनोक्तत्वात् । तत्र कोऽसौ व्यापार इत्यपेक्षा-

यां पूर्वोत्तरावान्तरदेश विभजनसंयोजनरूप इति पश्चादवगम्यते । पूर्वेण

प्रदेशेन विभज्योत्तरेण संयुज्य रथो ग्रामं गच्छतीति प्रयोगात् । उद्यभ्य
म्य
निपात्य कुठारेण च्छिनत्तीतिवत् । एवं देवदत्तः प्रयतत इत्यत्रापि देवदत्त-

स्तथा व्याप्रियते यथा प्रयत्नो भवतीति प्रयत्नानुकूलो व्यापार एवाख्याता-

 
[commentary]
 
न्यात्मना प्रतीयत इति पिण्डीभूतोऽर्थः । स इति । सामान्यरूपेण य श्राख्याता
त्
प्रतीतः स इत्यर्थः । 'व्यापार' इति 'अवगस्म्यत' इत्यनेनान्वेति । क्वचित् लोके कुठा-

रेण च्छिनत्तीत्यादौ । क्वचित् वेदे 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते'त्यादौ ।

अग्न्यन्वाघाधानब्राह्मण तर्पणपदार्थोंथौ पूर्वं प्रकरणनिरूपणावसरे व्याख्यातौ । पश्चादिति ।

'अग्नीनन्वादधाति "ब्राह्मणांस्तर्पयितवै'" इत्यादि भिस्तत्तत्प्रातिस्वि कैर्विधिभिरित्यर्थः ([^)
 
OPREZ!
 
]
 
अन्योत्पादेति । यत्नाख्यातार्थवादिनोऽपि अन्योत्पादानुकूलत्वेनैव तत्, बदन्ति ।

तथापि तन्मते यत्नस्याख्यातार्थत्वेन यागादेः तजन्यश्वात् फलजनकीभूतयागा दिजनकत्व •

मन्योत्पादानुकूलत्वम् । श्रम मते फलजनकीभूतयागायुपकारकत्वं तदिति विवेकः ।

अत्र चशब्द एवकार भिन्नक्रमौ । आख्यातात सामान्यत एवेत्यर्थः । एवं व्यापारसा.

मान्यस्याख्यातार्थत्वेऽभ्युपगते 'रथो गच्छतो त्याद्यचेतन कर्तृक स्थलेऽप्यौपचारिकत्वं विनैव

निर्वाहो भवतीत्याह-रथ इति । अत्र ग्रामप्राप्तिः फलम् । तज्जनको व्यापारी गमनाख्यो

धात्वर्थः । तादृशप्रामप्राप्तिरूपफलोत्पत्तौ व्यापृतस्य यः प्रकारविशेषः पूर्वदेश विभागादि-

रूपः स एव सामान्यरूपेणाख्यातार्थ इति विवेकः । कुठारेण छिनत्ति, यजेतेत्यादौ

चेतनकर्तृकस्थले यथा प्रतीतिः तथैव रथो गच्छतीत्य चेतन कर्तृकस्थलेऽपीस्याह-रथस्त.

थेति । पश्चादिति । प्रमाणान्तरेणेत्यर्थः । कि तत् प्रमाणान्तरम् ? अत श्राह-पूर्वे-

ऐति । एवञ्चास्मम्मते प्रयत्नवा चियतधातूत्तराख्यातस्यापि स एवार्थ इति लाघवम् ।

भवन्मते तु धास्वर्थानुकूलयस्नस्य तत्राप्रसिद्धे; तत्प्रयोगस्यौपचारिकत्व मेवाङ्गीकरणीय मिति

गौरवमित्याशयेनाह– एवमिति । प्रयतो भवतीत्यनेनात्र धात्वर्थस्यैव प्रयतरूपस्य

भाव्यत्वमिति सूचितम् ।
 

 
-
 

 
१. अत्रेदं वक्तव्यम् – यजेत, इत्यादौ दैवतोद्देश्यद्रव्यत्यागरूपो व्यापारो भास्वर्थ, तदनुकूलः मन्वा.

धानादिब्राह्मणतपंणान्तो व्यापारकलाप आाख्यातार्थः, स चाख्यातेनानुकूलण्यापारस्वेन सामान्ये नोच्यते,

विशेषरूपेण तु तैस्तैः प्रातिस्विकविधिभिरुभ्यत इति पार्थसारथिमिश्रमतं इति सुविदितं मीमांस-

कानाम् । सति चैवं महामहोपाध्याय श्रीमदभ्यकरशास्त्रिमहोदयैः "अन्वाधानादिर्व्यांपारो देवतोद्देश्य

कहविःप्रक्षेपानुकूलरवेन विशेषरूपेण धातुवाच्यः" इति बहुक्तम्, न तत्र तेषामाशयमवगन्तुमीमहे ।