This page has been fully proofread once and needs a second look.

१६३
 
मीमांसान्यायप्रकाशः
 
[ श्रार्थी भावना-
यत्नाभावादिति वाच्यम् । वोढ्रश्वगतं प्रयत्नं रथे आरोग्य प्रयोगोपपत्तेः ।
 

 
यन्मतेऽप्यन्योत्पादनानुकूलं व्यापारलासामान्यं भावना तन्मतेऽपि रथे

गमनातिरिक्तव्यापारानुपलब्धेः रथो गच्छतीति प्रयोगस्यौपचारिकत्वमेवेति ।

अतश्च प्रयत्न एवार्थीभावना । यथाहु:-
2
 
हुः--
 
प्रयत्नव्यतिरिक्तार्थी ([^)] भावना तु न शक्यते ।

वक्तुमाख्यातवाच्येह प्रस्तुतेत्युपरम्यते ॥ इति ॥

 
अन्ये त्वाहुः - --भवितुर्भवनानुकूलो भावकव्यापारस्तावद्भावना । यस्मिन्

व्यापारे कृते करणं फलोत्पादनाय समर्थं भवति तादृशो व्यापार इति यावत् ।

स एव चाख्यातार्थः । कुठारेण छिनत्तोतीत्याख्यात श्रवणे हि भवत्येताद्वदृशी

मतिः - --कुठारेण तथा व्याप्रियेत यस्मिन् व्यापारे कृते कुठारेण छेदनं

भवतीति । एवं 'यजेत स्वर्गकाम' इत्यस्यायमर्थः-यागेन न तथा
 

 
व्याप्रियेत
 

 
[commentary]
 
नुपपत्तिमाशङ्कय परिहरति--न चेति । वोढ्रश्वेति । स्थवाहकाः रथे नियुक्त्ता येऽश्वाः

तद्गतमित्यर्थः । रोप्येति । शक्यतावच्छेदकलाघवानुसारेण तादृशा रोपाङ्गीकरणमपि
 

नातीव दोषायेति भावः । उक्तं हि न्यायसुधायाम्-
-
 
"स्त्रीत्वाभावेऽपि खट्वादो टावाबादिप्रत्ययो यथा ।

प्रयुज्यते तथाख्यातं यत्नाभावेऽप्यचेतने ।

वोढ्रश्वादिगतं यत्नं रथादावुपचर्य वा ।

उपपाद्यः प्रयोगोऽत्र मुख्यार्थानुपपत्तितः" इति ।
 

 
परमतेऽप्ययं दोषस्तुल्य एवेत्याह- -यन्मत इति । तन्मते हि धात्वर्थानुकूलो

व्यापारः प्रख्यातार्थः कश्चित् वक्तव्यः । न च 'रयोथो गच्छति' इत्यत्रोत्तरदेश संयोगानुकू-

लव्यापारातिरिकःक्तः कश्चित् व्यापारः प्रसिद्धोऽस्ति रथे, यत्राख्यातं प्रयुज्येत । अत
श्च
तन्मतेऽप्यौपचारिकत्वं तुल्यमेवेति भावः । अस्मिन्नर्थे न्यायसुधोक्तामेव कारिकां प्रमाण-

यति प्रयत्नेति । स्पष्टोऽर्थः ।
 
-
 

 
एवं न्यायसुधाकृन्मतमुपवर्ण्य पार्थसारथिमिश्रमतमुपवर्णयति--अन्ये त्विति ।

भवितुः भवनकर्तुः उत्पत्तुः श्रोदनादेः स्वर्गादेर्वा भवनानुकूलः उत्पश्त्त्यनुकूलः, भाव-

कस्य प्रयोजकस्य देवदत्तादेः यो व्यापारः स एव भावनापदवाच्य इत्यर्थः । स्पष्ठप्रति-
टप्रति-
पत्यर्थमाह - --यस्मिन्निति । स एवेति । धात्वर्थादिरूपकरणस्य फलोत्पादने यस्सह-

कारी भवति स एवाख्यातार्थ इति फलितम् । कथमिदं प्रतीयते तादृश एव व्यापार:
रः
आख्यतार्थ इति ? अतः तदुपपादयितुं प्रथमं तावत् लोके तस्त्प्रतीतिमुपपादयति--कुठा-

रेणेति । व्याप्रिये तेति । एवञ्च तादृशस्य व्यापारस्य सामान्यरूपेणैवाख्यातात् प्रतीतिः ।

न तु विशेषरूपेण । तत्तु प्रमाणान्तरसंवेद्यमेवेस्त्याशयः । यथा लोके तथैव वेदेऽपीस्त्याह-
-
एवमिति । यागादेः करणत्वं श्रुतम् । न केवलेन तेनान्यामुनुपकृतेन फलं सम्पादयितुं

शक्यमिति बायागादिरेव स्वस्य फलजनने सहकारिणमंपेक्षते । स एव चाख्यातात् सामा
 
-
 
[^
.] 'धंयार्थभा' ।