2023-02-20 11:47:45 by ambuda-bot
This page has not been fully proofread.
१६३
मीमांसान्यायप्रकाशः
[ श्रार्थी भावना-
यत्नाभावादिति वाच्यम् । वोढश्वगतं प्रयत्नं रथे आरोग्य प्रयोगोपतेः ।
यन्मतेऽप्यन्योत्पादनानुकूलं व्यापारलामान्यं भावना तन्मतेऽपि रथे
गमनातिरिक्तव्यापारानुपलब्धेः रथो गच्छतीति प्रयोगस्यौपचारिकत्वमेवेति ।
अतश्च प्रयत्न एवार्थीभावना । यथाहु:-
2
प्रयत्नव्यतिरिक्तार्थी (१) भावना तु न शक्यते ।
वक्तुमाख्यातवाच्येह प्रस्तुतेत्युपरम्यते ॥ इति ॥
अन्ये वाहुः - भवितुर्भवनानुकूलो भावकव्यापारस्तावद्भावना । यस्मिन्
व्यापारे कृते करणं फलोत्पादनाय समर्थं भवति तादृशो व्यापार इति यावत् ।
स एव चाख्यातार्थः । कुठारेण छिनत्तोत्याख्यात श्रवणे हि भवत्येताद्वशी
मतिः - कुठारेण तथा व्याप्रियेत यस्मिन् व्यापारे कृते कुठारेण छेदनं
भवतीति । एवं 'यजेत स्वर्गकाम' इत्यस्यायमर्थः-यागेन न तथा
–
व्याप्रियेत
नुपपत्तिमाशङ्कय परिहरति-न चेति । वोढश्वेति । स्थवाहकाः रथे नियुक्त्ता येऽश्वाः
तद्गतमित्यर्थः । रोप्येति । शक्यतावच्छेदकलाघवानुसारेण तादृशा रोपाङ्गीकरणमपि
नातीव दोषायेति भावः । उक्तं हि न्यायसुधायाम्-
"स्त्रीत्वाभावेऽपि खट्वादो टावादिप्रत्ययो यथा ।
प्रयुज्यते तथाख्यातं यत्नाभावेऽप्यचेतने ।
वोदश्वादिगतं यत्नं रथादावुपचर्य वा ।
उपपाद्यः प्रयोगोऽत्र मुख्यार्थानुपपत्तितः" इति ।
परमतेऽप्ययं दोषस्तुल्य एवेत्याह- यन्मत इति । तन्मते हि धात्वर्थानुकूलो
व्यापारः प्रख्यातार्थः कश्चित् वक्तव्यः । न च 'रयो गच्छति' इत्यत्रोत्तरदेश संयोगानुकू-
लव्यापारातिरिकः कश्चित् व्यापारः प्रसिद्धोऽस्ति रथे, यत्राख्यातं प्रयुज्येत । अतभ
तन्मतेऽप्यौपचारिकत्वं तुल्यमेवेति भावः । अस्मिन्नर्थे न्यायसुधोक्तामेव कारिकां प्रमाण-
यति प्रयत्नेति । स्पष्टोऽर्थः ।
-
एवं न्यायसुधाकृन्मतमुपवर्ण्य पार्थसारथिमिश्रमतमुपवर्णयति-अन्ये विति ।
भवितुः भवनकर्तुः उत्पत्तुः श्रोदनादेः स्वर्गादेर्वा भवनानुकूलः उत्पश्यनुकूलः, भाव-
कस्य प्रयोजकस्य देवदत्तादेः यो व्यापारः स एव भावनापदवाच्य इत्यर्थः । सष्ठप्रति-
पत्यर्थमाह - यस्मिन्निति । स एवेति । धात्वर्थादिरूपकरणस्य फलोत्पादने यस्सह-
कारी भवति स एवाख्यातार्थ इति फलितम् । कथमिदं प्रतीयते तादृश एव व्यापार:
आख्यतार्थ इति ? अतः तदुपपादयितुं प्रथमं तावत् लोके तस्प्रतीतिमुपपादयति-कुठा-
रेणेति । व्याप्रिये तेति । एवञ्च तादृशस्य व्यापारस्य सामान्यरूपेणैवाख्यातात् प्रतीतिः ।
न तु विशेषरूपेण । तत्तु प्रमाणान्तरसंवेद्यमेवेस्याशयः । यथा लोके तथैव वेदेऽपीस्याह-
एवमिति । यागादेः करणत्वं श्रुतम् । न केवलेन तेनान्यामुपकृतेन फलं सम्पादयितुं
शक्यमिति बागादिरेव स्वस्य फलजनने सहकारिणमंपेक्षते । स एव चाख्यातात् सामा•
१. 'धंया' ।