This page has been fully proofread once and needs a second look.

विषयो यः प्रयत्नः स भावना । स एव चाख्यातांशेनोच्यते । यजेतेत्या-
ख्यातश्रवणे [^१] यागे यतेतेति प्रतीतेर्जायमानत्वात्
 
,

 
यश्च प्रयत्नपूर्वकं गमनादि करोति तस्मिन् देवदत्तो गमनं करोतीति
करोतिप्रयोगदर्शनात, वातादिना [^२] स्पन्दने तु नायं करोति, किन्तु
वातादिनास्य रूस्पन्दो जायत इति प्रयोगात् करोत्यर्थस्तावत् प्रयत्नः
करोतिसामानाधिकरण्यं चाख्याते दृश्यते - -यजेत, यागेन कुर्यात्, पचति,
पाकं करोति, गच्छति, गमनं करोतीति । अतश्च करोतिसामानाधिकरण्यात्

प्रयत्नस्याख्यातवाच्यत्वम् । न च रथो गच्छतोतीति प्रयोगानुपपत्तिः, रथे
 
[commentary]
 
सङ्कल्परूपस्य यागस्ये भावनात्वमुच्यते । तस्य भवदुक्तरीत्यैव धातुवाच्यत्वात् । किन्तु
तस्यापि जनको यः प्रयत्नः पुरुषनिष्ठः स एवाख्यातवाच्यः, तस्यैव च भावनात्वमुच्यते
स एव च सर्वत्र कृञ्घाधातुना विव्रियते । उक्कंतं ह्याचार्यैः-"सर्वधात्वर्थसम्बद्धः करो-
त्यर्थो हि भावना" इति । तस्य च धात्वर्थात् पृथक् विविव्रियमाणत्वादेव न घाव.धात्व-
र्थता । किन्तु प्रख्यातांशवाव्च्य एव स इत्याशयः । यागविषय इति बहुव्रीहिः

स्तु नाम धात्वर्थातिरिक्तः कश्चित् व्यापारः स च यत्न एवेत्यन्नत्र किं प्रमाणम् ?
ता - त आह--यजेतेति । 'यतेते'ति यतषाधातुप्रयोगेण यत्न एवाख्यातार्थो भवितुमर्ह-
तीति सुसूचितम्
 
यत्र यत्नप्रतीतिरपेक्षिता तत्रैव कृभूञ्धातुप्रयोगदर्शनात कृषाञ्धातो रूपाश्चाख्यातसामानाधि.-
करण्यस्य बहुशो दर्शनादपि कृतिरूपयत्नवाचित्वमाख्यातस्येत्युपपादयति - -यश्चेति
करोत्यर्थस्तावत् प्रयत्न इति । एतेन-घटं करोतीत्यर्थे घटं भावयतीति प्रयोगद
-
र्श
नात् करोतिभावयत्योस्समानार्थकत्वं प्रतीयते । भावयतेश्चान्योत्पस्त्त्यनुकूलव्यापारोऽर्थः
इति करोतेरपि स एवार्थीथो भवितुमर्हति । करोतिसामान्याधिकरण्याच्चाख्यातस्यापि स
एवार्थं इति अग्रे निरूपयिष्यमाणं मिश्रमतं प्रत्युक्तम् । यद्यन्योत्पादानुकूलव्यापार विशेष
एवाख्यातार्थस्स्यात् वातरोगादिना स्पन्दमाने चैत्र शरीरे तादृशव्यापारस्य सत्वात् 'नायं
रूस्पन्दं करोतीति निषेघोऽधो नुपपन्नस्स्यात् । आख्यातस्य करोतिसामानाधिकरण्यम भिल-
पति-यजेतेति । यजेतेश्त्यस्य 'यागेन कुर्यात्' इति विवरणं तस्य विधिप्रत्यय घटित-
त्वात् तत्र धात्वर्थातिरिक्तफलस्य सत्वेन तस्यैव भाव्यत्वौचित्यं धात्वर्थस्य करणत्वे.-
नान्वयं च मनसि निघाधाय कृतम् । पचतीत्यत्र तु लडन्तत्वात् धात्वर्थस्यैव समिन्निहितस्य
भाव्यत्वौचित्यघिधिया पाकं करोतीति विवरणम् । यदि तु तत्राप्योदन मिति द्वितीयान्त-
पदसमभिव्याहार: तदा पाकेन श्रोदनं करोतीत्येव विवरणमिति ध्येयम् । श्रा। आख्यात.-
वाच्यत्वमिति । एतेन प्रख्यातस्य यत्नवाचकत्वे वाच्यतावच्छेदकं यत्नत्वं कल्पितं
भवेत् । व्यापारवाचकत्वे तु तत्तत्फल मेभेदेन तत्तद्व्यापाराणां मेभेदात् अनुगतैकशक्यता-
वच्छेदकसम्पादनं दुर्लभं स्यात् इति सूचितम्
 
प्र

 
ख्यातस्य यत्नार्थकत्वे तस्य चेतनमात्रवृत्तिस्वाभाव्येनाचेतने प्रख्यातप्रयोगा-
 

पार्थसारथिमिश्रमतम् । एतच्चातिरोहितमेव मीमांसापरिशीलनवताम् । सति चैवं यदत्र 'आहुरिति पार्थ-
सारथिमिश्रादय इति शेषः' इति व्याख्यातम् । न तन्। न तत्र किंचिदपि प्रमाणं पश्यामः
 
[^१] यागेन
 
[^२] रुस्पन्दमाने