This page has not been fully proofread.

रूपणम् ]
 
सारविवेचिनी व्याख्यासंवलितः
 
१६७
 
विषयो यः प्रयत्नः स भावना । स एव चाख्यातांशेनोच्यते । यजेतेत्या

ख्यातश्रवणे ([^)] यागे यतेतेति प्रतीतेर्जायमानत्वात् ।
 

 
,
 

 
यश्च प्रयत्नपूर्वकं गमनादि करोति तस्मिन् देवदत्तो गमनं करोतीति

करोतिप्रयोगदर्शनात, वातादिना ([^)] स्पन्दने तु नायं करोति, किन्तु

वातादिनास्य रूपन्दो जायत इति प्रयोगात् करोत्यर्थस्तावत् प्रयत्नः ।

करोतिसामानाधिकरण्यं चाख्याते दृश्यते - यजेत, यागेन कुर्यात्, पचति,

पाकं करोति, गच्छति, गमनं करोतीति । अतश्च करोतिसामानाधिकरण्यात्
 

 
प्रयत्नस्याख्यातवाच्यत्वम् । न च रथो गच्छतोति प्रयोगानुपपत्तिः, रथे
 

 
[commentary]
 
सङ्कल्परूपस्य यागस्ये भावनात्वमुच्यते । तस्य भवदुक्तरीत्यैव धातुवाच्यत्वात् । किन्तु

तस्यापि जनको यः प्रयत्नः पुरुषनिष्ठः स एवाख्यातवाच्यः, तस्यैव च भावनात्वमुच्यते ।

स एव च सर्वत्र कृञ्घातुना विव्रियते । उक्कं ह्याचार्यैः-"सर्वधात्वर्थसम्बद्धः करो-

त्यर्थो हि भावना" इति । तस्य च धात्वर्थात् पृथक् विवियमाणत्वादेव न घाव.

र्थता । किन्तु प्रख्यातांशवाव्य एव स इत्याशयः । यागविषय इति बहुव्रीहिः ।

स्तु नाम धात्वर्थातिरिक्तः कश्चित् व्यापारः स च यत्न एवेत्यन्न किं प्रमाणम् ?

अता - यजेतेति । 'यतेते'ति यतषातुप्रयोगेण यत्न एवाख्यातार्थो भवितुमई-

तीति सुचितम् ।
 
2
 
-
 

 
-
 

 
यत्र यत्नप्रतीतिरपेक्षिता तत्रैव कृभूधातुप्रयोगदर्शनात कृषातो रूपातसामानाधि.

करण्यस्य बहुशो दर्शनादपि कृतिरूपयत्नवाचित्वमाख्यातस्येत्युपपादयति - यश्चेति ।

करोत्यर्थस्तावत् प्रयत्न इति । एतेन-घटं करोतीत्यर्थे घटं भावयतीति प्रयोगद

नात् करोतिभावयत्योहसमानार्थकत्वं प्रतीयते । भावयतेश्चान्योत्पस्यनुकूलव्यापारोऽर्थः

इति करोतेरपिस एवार्थी भवितुमर्हति । करोतिसामान्याधिकरण्याच्चाख्यातस्यापि स

एवार्थं इति अग्रे निरूपयिष्यमाणं मिश्रमतं प्रत्युक्तम् । यद्यन्योत्पादानुकूलव्यापार विशेष

एवाख्यातार्थस्स्यात् वातरोगादिना स्पन्दमाने चैत्र शरीरे तादृशव्यापारस्य सत्वात् 'नायं

रूपन्दं करोतीति निषेघोऽनुपपन्नस्स्यात् । आख्यातस्य करोतिसामानाधिकरण्यम भिल-

पति-यजेतेति । यजेतेश्यस्य 'यागेन कुर्यात्' इति विवरणं तस्य विधिप्रत्यय घटित-

त्वात् तत्र धात्वर्थातिरिक्तफलस्य सत्वेन तस्यैव भाव्यत्वौचित्यं धात्वर्थस्य करणत्वे.

नान्वयं च मनसि निघाय कृतम् । पचतीत्यत्र तु लडन्तत्वात् धात्वर्थस्यैव समिहितस्य

भाव्यत्वौचित्यघिया पाकं करोतीति विवरणम् । यदि तु तत्राप्योदन मिति द्वितीयान्त

पदसमभिव्याहार: तदा पाकेन श्रोदनं करोतीत्येव विवरणमिति ध्येयम् । श्राख्यात.

वाच्यत्वमिति । एतेन प्रख्यातस्य यत्नवाचकत्वे वाच्यतावच्छेदकं यत्नत्वं कल्पितं

भवेत् । व्यापारवाचकत्वे तु तत्तत्फल मेदेन तत्तद्वयापाराणां मेदात् अनुगतैकशक्यता-

वच्छेदकसम्पादनं दुर्लभं स्यात् इति सूचितम् ।
 

 
प्रख्यातस्य यत्नार्थकत्वे तस्य चेतनमात्रवृत्तिस्वाभाव्येनाचेतने प्रख्यातप्रयोगा-

पार्थसारथिमिश्रमतम् । एतच्चातिरोहितमेव मीमांसापरिशीलनवताम् । सति चैवं यदत्र 'आहुरिति पार्थ-

सारथिमिश्रादय इति शेषः' इति व्याख्यातम् । न तन्त्र किंचिदपि प्रमाणं पश्यामः ।
 

 
[^
.] यागेन ।
 

 
[^
.] रुपन्दमाने ।