This page has been fully proofread once and needs a second look.

प्रवृत्तिहेतुं धर्मं च प्रवदन्ति प्रवर्तनाम् ॥ इति ।
तत्सिद्धं यजेतेत्यत्र लिङ्त्वांशेन शाब्दी भावनोच्यत इति ॥
आख्या तत्वांशेनार्थी भावनोच्यते
 
( र्थी भावना भावनानिरूपयाम् )
 
ननु - -केयमार्थी भावना ? । कर्तृव्यापार इति चेत्-न; यागादेरपि तद्या.व्या-
पारत्वेन भावनात्वापत्तेः । नचेष्टापचिःत्तिः, तस्य प्रकृत्यर्थत्वेन प्रत्ययार्थत्वाभा-
वादिति चेत् --
 
अत्राहु:- [^१] सत्यं न यागो भावना, किन्तु स्वर्गेच्छाजनितो याग.-
 
[commentary]
 
ष्टसानता लिङ्प्रतिपाद्या, प्रवर्तनात्वं तु कथं तस्याः ? इत्यत ग्राह-प्रवृत्तिहेतुमिति
यः प्रवृत्तिहेतुर्धर्मः तमेव प्रवर्तनामाचक्षते प्रवर्तनाविदः इत्यर्थः । शाब्दी भावना निरू-
पणमुपसंहरति — त--तत्सिद्धमिति
 
 
एवं शब्दभावनां निरूप्य तत्प्रसङ्गात् तद्भाव्यभूतामार्थीभावनां निरूपयितुमारभते-
श्राख्यातत्वेति
 
( आर्थीभावना निरूपणम् )
 
ननु भावनाया यदि घाधात्वर्थात् मेभेदस्सिध्येत्, युज्येत तदा तस्याः प्रत्ययवाच्य-
त्वम्, तत्रैव न प्रमाणं पश्यामः; पचतीत्यादौ यावन्तो व्यापाराः प्रतीयन्ते स्थाल्यघिभधिश्र-
यणोदका सेचनतण्डुलावापफूत्कारावस्रावणादयः ते सर्वेऽपि धातुत एव प्रतीयन्त
इति तेषां घाधातुवाच्यतैव युक्ता, न प्रत्ययवाच्यता, तदतिरिक्तस्य कस्यचिदप्रतीयमानत्वात्
कस्याख्यातांशप्रतिपाद्यता अर्थभावनात्वं वोच्यते ? इति वैयाकरणश्शङ्कते- नन्विति
कर्तृव्यापार इति । सर्वत्र हि पचति, पार्कं करोति, यजति, यागं करोति, इति विवरणं
दृश्यते । तत्र घञन्तपाकादिपदैः प्रकृत्यर्थस्य कृञ्धातुना च प्रत्ययार्थस्य विवरणमित्यव-
गम्यते । तेन च करोतिसमानार्थकत्वमाख्यातस्यैयेत्यवगम्यते । करोतिश्च सकर्मक इत्या-
ख्यातेनापि तथैव भाव्यम् । तच्च कर्मोत्सापाद्यमेव भवति । एवञ्च उत्पद्यमानस्य वस्तुन उत्प
श्त्त्यनुकूल उत्पादककर्तृव्यापारः श्राख्यातार्थ इति फलितम् । भावनाशब्दोऽपि तमेवाभि-
धत्ते । भूवाधातोर्ण्यन्तात् करणार्थंकल्युट्प्रत्यये कृते भावनाशब्द निष्पत्तेः । पाकशब्दार्थश्च
विकिक्लित्तिः । यागपदार्थश्च द्रव्यदेवतयोस्सम्बन्धः । अतश्च तण्डुलरूप कर्मगत विक्लित्तिरूपव्यापारः
पचिधात्वर्थः, तत्प्रयोजको देवदत्तादिरूपकर्तृव्यापारः प्रत्ययवाच्यः इति स एव विक्लित्य-
नुकूल कर्तृव्यापारत्वात् भावना भवत्वित्याशयः । न विक्लित्यादिः केवलो धात्वर्थो भवितुम-
र्हति । तथात्वे कृष्णलेषु विक्लित्यसम्भवेन तत्र तत्सम्पादकश्रपण विधानानुपपत्तेः । किन्तु
पचेरधिश्रयणाद्यवस्त्रावणान्तो व्यापारोऽर्थः, यजेश् मानसस्त्यागः, सङ्कल्पो वा तस्यैव
यागादिपदार्थत्वात्; तस्य च कर्तृव्यापारस्त्वात् तस्यैव भावनात्वमापद्येते त्याह-यागा दे -
रिति । तस्य यागस्य । प्रकृत्यर्थत्वेनेति । एवञ्च प्रत्ययार्थस्य भावनात्वं वक्तुमुरकापक्रान्तो
भवान् इदानीं प्रकृत्यर्थं स्यै भावनात्वमभ्युपगच्छन् अस्त्पक्षे पतितः, स्वोक्तविरोधी च

सञ्जात इत्याशयः
 
एवमापादितां शङ्कां प्रथमतो न्यायसुधाकृन्मतमनुसृत्य समाधत्ते - -अत्राहुरिति
आहुरित्यनन्तरं न्यायसुधाकृत इति शेषः । न यागो भावनेति । नास्माभिर्मानस.-
 
[^१] इदं च न्यायसुधाकृतो भट्टसोमेश्वरस्य मतम् । अग्रे च 'अन्ये त्वाहु' रिश्या त्यादिना निरूप्यमाणं