This page has not been fully proofread.

[ आर्थीभावना-
मौमांसान्यायप्रकाशः
 
प्रवृत्तिहेतुं धर्मं च प्रवदन्ति प्रवर्तनाम् ॥ इति ।

तत्सिद्धं यजेतेत्यत्र लिङ्वांशेन शाब्दी भावनोच्यत इति ॥

आख्या तत्वांशेनार्थी भावनोच्यते ।
 

 
( अर्थी भावना निरूपयाम् )
 

 
ननु - केयमार्थी भावना ? । कर्तृव्यापार इति चेत्-न; यागादेरपि तद्या.

पारत्वेन भावनात्वापत्तेः । नचेष्टापचिः, तस्य प्रकृत्यर्थत्वेन प्रत्ययार्थत्वाभा

वादिति चेत् -
 

 
अत्राहु:- ([^)] सत्यं न यागो भावना, किन्तु स्वर्गेच्छाजनितो याग.

 
[commentary]
 
ष्टसाघनता लिप्रतिपाद्या, प्रवर्तनावं तु कथं तस्याः ? इत्यत ग्राह-प्रवृत्तिहेतुमिति ।

यः प्रवृत्तिहेतुर्धर्मः तमेव प्रवर्तनामाचक्षते प्रवर्तनाविदः इत्यर्थः । शाब्दी भावना निरू

पणमुपसंहरति — तसिद्धमिति ।
 
wap
 

 
 
एवं शब्दभावनां निरूप्य तत्प्रसङ्गात् तद्भाव्यभूतामार्थीभावनां निरूपयितुमारभते-

श्राख्यातत्वेति ।
 

 
( आर्थीभावना निरूपणम् )
 

 
ननु भावनाया यदि घात्वर्थात् मेदस्सिध्येत्, युज्येत तदा तस्याः प्रत्ययवाच्य-

त्वम्, तत्रैव न प्रमाणं पश्यामः; पचतीत्यादौ यावन्तो व्यापाराः प्रतीयन्ते स्थाल्यघिभ

यणोदका सेचनतण्डुलावापफूत्कारावस्रावणादयः ते सर्वेऽपि धातुत एव प्रतीयन्त

इति तेषां घातुवाच्यतैव युक्ता, न प्रत्ययवाच्यता, तदतिरिक्तस्य कस्यचिदप्रतीयमानत्वात्

कस्याख्यातांशप्रतिपाद्यता अर्थभावनात्वं वोच्यते ? इति वैयाकरणश्शङ्कते- नन्विति ।

कर्तृव्यापार इति । सर्वत्र हि पचति, पार्कं करोति, यजति, यागं करोति, इति विवरणं

दृश्यते । तत्र घञन्तपाकादिपदैः प्रकृत्यर्थस्य कृञ्धातुना च प्रत्ययार्थस्य विवरणमित्यव

गम्यते । तेन च करोतिसमानार्थकत्वमाख्यातस्यैत्यवगम्यते । करोतिश्च सकर्मक इत्या-

ख्यातेनापि तथैव भाव्यम् । तच्च कर्मोत्सायमेव भवति । एवञ्च उत्पद्यमानस्य वस्तुन उत्प

श्यनुकूल उत्पादककर्तृव्यापारः श्राख्यातार्थ इति फलितम् । भावनाशब्दोऽपि तमेवाभि

धत्ते । भूवातोर्ण्यन्तात् करणार्थंकल्युट प्रत्यये कृते भावनाशब्द निष्पत्तेः । पाकशब्दार्थभ

विकित्तिः । यागपदार्थच द्रव्यदेवतयोहसम्बन्धः । अतश्च तण्डुलरूप कर्मगत विक्लित्तिरूपव्यापारः

पचिधात्वर्थः, तत्प्रयोजको देवदत्तादिरूपकर्तृव्यापारः प्रत्ययवाच्यः इति स एव विलित्य-

नुकूल कर्तृव्यापारत्वात् भावना भवत्वित्याशयः । न विक्लित्यादिः केवलो धात्वर्थो भवितुम

र्हति । तथात्वे कृष्णलेषु विक्लित्यसम्भवेन तत्र तत्सम्पादकश्रपण विधानानुपपत्तेः । किन्तु

पचेरधिश्रयणाद्यवस्त्रावणान्तो व्यापारोऽर्थः, यजेश्व मानसस्टयागः, सङ्कल्पो वा तस्यैव

यागादिपदार्थत्वात्; तस्य च कर्तृव्यापारस्वात् तस्यैव भावनात्वमापद्येते त्याह-यागा दे -

रिति । तस्य यागस्य । प्रकृत्यर्थत्वेनेति । एवञ्च प्रत्ययार्थस्य भावनात्वं वक्तुमुरकान्तो

भवान् इदानीं प्रकृत्यर्थं स्यैष भावनात्वमभ्युपगच्छन् म पतितः, स्वोकविरोधी च
 

 
सञ्जात इत्याशयः ।
 

 
एवमापादितां शङ्कां प्रथमतो न्यायसुधाकृन्मतमनुसृत्य समाधत्ते - अत्राहुरिति ।

आहुरित्यनन्तरं न्यायसुधाकृत इति शेषः । न यागो भावनेति । नास्माभिर्मानस.
 

 
[^
.] इदं च न्यायसुधाकृतो भट्टसोमेश्वरस्य मतम् । अग्रे च 'अन्ये त्वाहु' रिश्या दिना निरूप्यमाणं