This page has been fully proofread once and needs a second look.

च विधेः प्रवर्तकस्त्वनिर्वाद्दार्थहार्थं समीहितसाधनत्वकल्पनात् प्रेरणान-
भिधाने च विधेः प्रवर्तकत्वाभावाद्धात्वर्थस्या समोय च समीहित साधनत्वकल्पकमेव
नास्तीति वाच्यम्; प्रवर्तनाभिधानेनै[^१]व तन्मतेऽपि विधेः प्रवर्तकत्वात्
विध्यभिहितस्य च प्रवर्तनासामान्यस्य विशेषमन्तरेणापर्यवसानात्समीहित-
साधनस्त्वाक्षेपकत्वात्
 
न चेष्टसाधनत्वस्य विध्यर्थत्वे सन्ध्योपसनं ते इष्टसाधनं तत् त्वं कुर्विति
सहप्रयोगानुपपत्तिरिति वाच्यम् इष्टसाधनत्वस्य विशेषरूपेण विधिनानभि-
धानात् । प्रवर्तनात्वेन रूपेणाभिधानात् । सामान्यशब्दस्य च विशेषशब्देन
दृष्टः सहप्रयोगः- -पाञ्चालराजो द्रुपद इत्यादो दौ। तस्मात् समीहितसाधनतै
प्रवर्तनात्वेन रूपेण विध्यर्थः । सैव च तेन रूपेण शब्देनैवाभिधीयत इति
शाब्दी भावना
 
उक्तवार्तिकस्याप्ययमेवाभिप्रायः । अभिधीयते या साऽभिधा समीहित-
साधनता सैव प्रवर्तनास्त्वेनाभिहिता पुरुषप्रवृत्तितिं भावयतीति भावना तां
लिङादय श्राद्दुआहुरिति । यथाहुः --
 
पुसां नेष्टाभ्युपायत्वात्क्रियास्वन्यः प्रवर्तकः
 
[commentary]
 
भाग्यस्व्यत्वांशं परित्यज्य करणत्वांशे निपततीति प्रतिपादितं भावार्थाधिकरणे । यदि प्रेरणा
विष्ध्यर्थो न स्यात् तदा श्रन्यथानुपपद्यमानस्य कस्याप्यभावात् धात्वर्थगतेष्टसानता ते.क्षे-
पप्रमाणस्यैवाभावेन सर्वमिदं दत्तजलाञ्जलि स्यादित्याशङ्कामनूद्य परिहरति-न चेति
प्रेरणाविध्यर्थत्ववादिमतेऽपि न प्रेरणात्वेन विधिगम्यत्वमङ्गीकियते, किन्तु प्रवर्तनासा-
मान्येनैव । सामान्यस्य विशेषमन्तरा पर्यवसानाभावात् विशेष जिज्ञासायां परं प्रेरणारूपो
विशेषोऽवधार्यते । अतथ्यश्च प्रथमतः प्रेरणानभिघाधानेऽपि यथा तन्मते इष्टसानत्वाक्षेप करकत्वं
तथैवास्मन्मतेऽपीति न विरोध इत्यर्थः
 
पूर्वोक्कांतां सहप्रयोगानुपपत्तिं वारयति-न चेति । विशेषरूपेणेति । इष्टसाधनस्त्वस्य
विध्यर्थत्वेऽपि न समीहितसाधनत्वरूपेण तदवबोध्यते । किन्तु प्रवर्तनास्त्वेनैव, इष्टसाध-
नपदेन तु विशेषरूपेणेति सामान्य विशेषवाचकपदयो रुपपन्नस्सहप्रयोग इति भावः । तदेव
सदृष्टान्तमभित्ते- सामान्यशब्दस्येस्त्यादि । उक्तमर्थमुपसंहरति तस्मादिति । सैव
समीहितसाघन धनतैव । तेन रूपेण प्रवर्तनात्वेन रूपेण । अस्मिन्नेवायेंर्थे वार्तिकमपि योज.
यति -
-
यति-
उक्तेति । अभिधीयत इत्यनेन कर्मव्युत्पत्तिः प्रदर्शिता । अस्मिन् पतेक्षे अभिधा
च सा भावना चेति कर्मधारय समासो बोध्यः । तत्र भावनात्वं निरूपयति-पुरुषेति
अत्र मण्डनमिश्रस्यापि सम्मतिमाह-यथाहुरिति । पुंसामिति । इष्टाभ्युपायत्वात्
इष्टसानत्वात् ल्यब्लोपे पञ्चमी । इष्टसाधनत्वं विहायेत्यर्थः । क्रियासु यागादिषु प्रव.-
र्तको नैवास्ति । इष्टसाधनतैव प्रवर्तिकेति यावत् । प्रेक्षावतां हि यावत् स्वाभिलषित.-
फलसानता न ज्ञायते तावत् दुःखात्मके कर्मणि प्रवृत्तिर्नोदेतीति भावः । प्र। अस्तु नामे-
 
[^१] नैतन्म०