This page has not been fully proofread.

१८५
 
निरूपणम् ]
 
सारविवेचिनी व्याख्या संवलितः
 
नच विधेः प्रवर्तकस्वनिर्वाद्दार्थ समीहितसाधनत्वकल्पनात् प्रेरणान-

भिधाने च विधेः प्रवर्तकत्वाभावाद्धात्वर्थस्या समोहित साधनत्वकल्पकमेव

नास्तीति वाच्यम्; प्रवर्तनाभिधानेनै ([^) ]व तन्मतेऽपि विधेः प्रवर्तकत्वात्

विध्यभिहितस्य च प्रवर्तनासामान्यस्य विशेषमन्तरेणापर्यवसानात्समीहित-

साधनस्वाक्षेपकत्वात् ।
 

 
न चेष्टसाधनत्वस्य विध्यर्थत्वे सन्ध्योपसनं ते इष्टसाधनं तत् त्वं कुर्विति

सहप्रयोगानुपपत्तिरिति वाच्यम् इष्टसाधनत्वस्य विशेषरूपेण विधिनानभि-

धानात् । प्रवर्तनात्वेन रूपेणाभिधानात् । सामान्यशब्दस्य च विशेषशब्देन

दृष्टः सहप्रयोगः- पाञ्चालराजो द्रुपद इत्यादो । तस्मात् समीहितसाधनतव

प्रवर्तनात्वेन रूपेण विध्यर्थः । सैव च तेन रूपेण शब्देनैवाभिधीयत इति

शाब्दी भावना ।
 
-
 

 
उक्तवार्तिकस्याप्ययमेवाभिप्रायः । अभिधीयते या साऽभिधा समीहित-

साधनता सैव प्रवर्तनास्वेनाभिहिता पुरुषप्रवृत्ति भावयतीति भावना तां

लिङादय श्राद्दुरिति । यथाहुः -
 

 
पुसां नेष्टाभ्युपायत्वात्क्रियास्वन्यः प्रवर्तकः ।
 

 
[commentary]
 
भाग्यस्वांशं परित्यज्य करणत्वांशे निपततीति प्रतिपादितं भावार्थाधिकरणे । यदि प्रेरणा

विष्यर्थो न स्यात् तदा श्रन्यथानुपपद्यमानस्य कस्याप्यभावात् धात्वर्थगतेष्टसाघनता ते.

पप्रमाणस्यैवाभावेन सर्वमिदं दत्तजलाञ्जलि स्यादित्याशङ्कामनूथ परिहरति-न चेति ।

प्रेरणाविध्यर्थत्ववादिमतेऽपि न प्रेरणात्वेन विधिगम्यत्वमङ्गीकियते, किन्तु प्रवर्तनासा-

मान्येनैव । सामान्यस्य विशेषमन्तरा पर्यवसानाभावात् विशेष जिज्ञासायां परं प्रेरणारूपो

विशेषोऽवधार्यते । अतथ्य प्रथमतः प्रेरणानभिघानेऽपि यथा तन्मते इष्टसाघनत्वाक्षेप करवं

तथैवास्मन्मतेऽपीति न विरोध इत्यर्थः ।
 

 
पूर्वोक्कां सहप्रयोगानुपपत्तिं वारयति-न चेति । विशेषरूपेणेति । इष्टसाधनस्वस्य

विध्यर्थत्वेऽपि न समीहितसाधनत्वरूपेण तदवबोध्यते । किन्तु प्रवर्तनास्वेनैव, इष्टसाध-

नपदेन तु विशेषरूपेणेति सामान्य विशेषवाचकपदयो रुपपन्नस्सहप्रयोग इति भावः । तदेव

सदृष्टान्तमभिघत्ते- सामान्यशब्दस्येस्यादि । उक्तमर्थमुपसंहरति तस्मादिति । सैव

समीहितसाघन तैव । तेन रूपेण प्रवर्तनात्वेन रूपेण । अस्मिन्नेवायें वार्तिकमपि योज.

यति - उक्तेति । अभिधीयत इत्यनेन कर्मव्युत्पत्तिः प्रदर्शिता । अस्मिन् पते अभिधा

च सा भावना चेति कर्मधारय समासो बोध्यः । तत्र भावनात्वं निरूपयति-पुरुषेति ।

अत्र मण्डनमिश्रस्यापि सम्मतिमाह-यथाहुरिति । पुंसामिति । इष्टाभ्युपायत्वात्

इष्टसाघनत्वात् ल्यब्लोपे पञ्चमी । इष्टसाधनत्वं विहायेत्यर्थः । क्रियासु यागादिषु प्रव.

र्तको नैवास्ति । इष्टसाधनतैव प्रवर्तिकेति यावत् । प्रेक्षावतां हि यावत् स्वाभिलषित.

फलसाघनता न ज्ञायते तावत् दुःखात्मके कर्मणि प्रवृत्तिनदेतीति भावः । प्रस्तु नामे•
 

 
[^
.] नैतन्म० ।
२४ मी० न्या०