This page has been fully proofread once and needs a second look.

तैव प्रवर्तनात्वेन रूपेण विध्यर्थः । एवं च विधिशब्दस्यान्यनिष्ठव्यापारवो.बो-
धकत्वं लोकसिद्धं सिद्धं भवति
 
किञ्च शब्दे एको व्यापार: स्पन्दाद्यतिरिक्तः कल्पनीयः । तस्य च स्व.-
प्रवृत्तौ पराधीनप्रवृत्तौ वा कारणत्वेनावलृकॢप्तस्य प्रवर्तनात्वेन रूपेण ज्ञातस्य
प्रवृत्यनुकूलत्वम्, शब्दस्य च परनिष्ठव्यापारज्ञापकत्वेन क्लृकॢप्तस्य स्वनिष्ठव्या-
पारबोधकत्वम्, विधेश्च प्रवर्तकत्व निर्वाहार्थं धात्वर्थस्य समीहित साधनस्त्वमिति
[^१] कल्पनाद्वरमावश्यकस्यैव समीहितसाधनत्वस् स्वप्रवृत्तिहेतुत्वेन क्लु.
कॢ-
प्
तस्य प्रवर्तनात्वेन रूपेण विध्यर्थत्वकल्पनं लाघवात्, अन्यनिष्ठत्वाच्च
 
[commentary]
 
लिङ्शतश्रवणेऽपि प्रवृत्तैतेरदर्शनात् । विधिशब्दस्येति । लोके तावत् शब्दानामन्य.-
निष्ठव्यापारबोधकत्वमेव व्यवहारसिद्धम् । 'देवदत्तः पचेत्' इत्यादीदौ लिङादिना प्रवर्तक पुरु-
षनिष्ठव्यापारस्यैव बोधनदर्शनात् लोकसिद्धमेव च परीक्षकैरनुसरणीयम् । अतश्च यदि
समीहितसानतायाः लिङर्थत्वमङ्गीक्रियते तदानीं तस्याः यागादिनिष्ठत्वात् अन्यनिष्ठ-
व्यापारबोधकता लिङस्सिध्येत् । प्रेरणाख्यव्यापारवाचित्वाभ्युपगमे तु तस्याः स्वनिष्ठत्वेन
शब्दस्य स्वनिष्ठव्यापारवाचकत्वं लोकविरुद्धमभ्युपगतं स्यादिति भावः
 
नन्वेवमपि श्रप्रसिद्धव्यापारकल्पनातो वरं क्लृकॢप्तस्यैवाभिधाख्यस्य व्यापारस्य प्रत्र-
र्तनात्वकसनमित्यत आह - --किञ्चेति । स्पन्दाद्यतिरिक्त इति । मीमांस कम ते
शब्दस्य विभुत्वेन तत्र स्पन्दादेर्निवेशासम्भवादिति भावः । उक्तं हि पार्थसारथि-
मिश्र :- रैः-स्पन्दसमवायस्तु न सम्भवति । नच । नचासावस्मामिभिश्शब्दस्येष्यते"-
इति । "न हि शब्दस्य विभोरचेतनस्य स्पन्दः प्रयत्नो वास्ती" ति च । न्या-
यसुधायामप्युक्तम्-"न शब्दे स्पन्दयत्नौ हि विभुत्वाचेतनत्वतः - -इति । तस्य
शब्दनिष्ठत्वेन कल्पितस्य स्न्दाद्यतिरिक्तस्य व्यापारस्य । स्वप्रवृत्तौ श्रन्यानधीनस्व-
तन्त्रप्रवृत्तौ । पुरुषान्तरेण प्रवर्तितस्सन् स्वयमेवेष्टसाधनतादि ज्ञात्वा यत्र प्रवर्तते, तत्रेति
यावत् । पराधीनप्रवृत्तौ परकीय प्रेरणानन्तरभाविप्रवृत्तौ । अनेन उभयत्रापि प्रवृत्ति-
कारणश्त्वेन क्लृसकॢप्तत्वं समीहितसानतायास्सूचितम् । लाघवादिति । भवन्मते कल्पित-
स्यापि धर्मस्य प्रवृत्त्यनुकूलत्वं, शब्दस्य स्वनिष्ठव्यापारबोधकत्वं, धात्वर्थस्य च समीहित-
साधनस्त्वमिति त्रितयं कल्पनीयम् । अस्मन्मते तु समीहितसानतायाः प्रवृत्तिकारणत्वं
शब्दस्यान्यनिष्ठव्यापारबोधकत्वमित्युभयं सिद्धम्, तस्या विध्यर्थत्वं परमेकं कल्पनीय-
मिति लाघवमित्यर्थः । क्लृ। कॢप्तस्येत्यनेन भवन्मत एव क्लृकॢप्तपरित्यागः अक्लृप्त कॢप्तकल्पनञ्च,
नास्मन्मत इति सूचितम्। आवश्रावश्यकस्येति । भवतापीदमजीङ्गीक्रियत एव प्रवृत्तिसम्पा-
दनार्थमितीदमुभयोरप्यावश्यकमिति भावः
 
ननु यागादे:देः समीहितसाधनता न स्वरूपतस्सिद्धा । किन्तर्हि ? विधिविषयत्वान्य-
थानुपपत्त्या कल्पिता । विधिर्हि प्रवर्तनात्मकः स्वस्य प्रवर्तकत्व सिद्ध्यर्थं स्वविषयीभूतया-
गादेरिष्टसानत्वमाक्षिपति । अत एव च भावनाया इष्टभाव्यकत्वनियमष्षष्ठे स्वर्गकामा-
विधिकरणोक्तस्सङ्घच्छते । अत एव च धात्वर्थस्समानपदोपात्तोऽपि इष्टरूपत्वाभाषात्वात्

[^१] कल्पनागौरवाह ।
 
द्।