This page has not been fully proofread.

मोमांसान्यायप्रकाशः
 
[ विध्यर्थ-

 
तैव प्रवर्तनात्वेन रूपेण विध्यर्थः । एवं च विधिशब्दस्यान्यनिष्ठव्यापारवो.

धकत्वं लोकसिद्धं सिद्धं भवति ।
 

 
किञ्च शब्दे एको व्यापार: स्पन्दाद्यतिरिक्तः कल्पनीयः । तस्य च स्व.

प्रवृत्तौ पराधीनप्रवृत्तौ वा कारणत्वेनावलृप्तस्य प्रवर्तनात्वेन रूपेण ज्ञातस्य

प्रवृत्यनुकूलत्वम्, शब्दस्य च परनिष्ठव्यापारज्ञापकत्वेन क्लृप्तस्य स्वनिष्ठव्या-

पारबोधकत्वम्, विधेश्च प्रवर्तकत्व निर्वाहार्थं धात्वर्थस्य समीहित साधनस्वमिति
(

[^
)] कल्पनाद्वरमावश्यकस्यैव समीहितसाधनत्वस्थ स्वप्रवृत्तिहेतुत्वेन क्लु.

तस्य प्रवर्तनात्वेन रूपेण विध्यर्थत्वकल्पनं लाघवात्, अन्यनिष्ठत्वाच्च ।
 

 

 
[commentary]
 
लिशतश्रवणेऽपि प्रवृत्तैरदर्शनात् । विधिशब्दस्येति । लोके तावत् शब्दानामन्य.

निष्ठव्यापारबोधकत्वमेव व्यवहारसिद्धम् । 'देवदत्तः पचेत्' इत्यादी लिङादिना प्रवर्तक पुरु

षनिष्ठव्यापारस्यैव बोधनदर्शनात् लोकसिद्धमेव च परीक्षकैरनुसरणीयम् । अतथ यदि

समीहितसाघनतायाः लिङर्थत्वमङ्गीक्रियते तदानीं तस्याः यागादिनिष्ठत्वात् अन्यनिष्ठ-

व्यापारबोधकता लिङस्सिध्येत् । प्रेरणाख्यव्यापारवाचित्वाभ्युपगमे तु तस्याः स्वनिष्ठत्वेन

शब्दस्य स्वनिष्ठव्यागरवाचकत्वं लोकविरुद्धमभ्युपगतं स्यादिति भावः ।
 

 
नन्वेवमपि श्रप्रसिद्धव्यापारकल्पनातो वरं क्लृप्तस्यैवाभिधाख्यस्य व्यापारस्य प्रत्र-

र्तनात्वकसनमित्यत आह - किञ्चेति । स्पन्दाद्यतिरिक्त इति । मीमांस कम ते

शब्दस्य विभुत्वेन तत्र स्पन्दादेर्निवेशासम्भवादिति भावः । उक्तं हि पार्थसारथि

मिश्र :- स्पन्दसमवायस्तु न सम्भवति । नच सावस्मामिश्शब्दस्येष्यते"-

इति । "न हि शब्दस्य विभोरचेतनस्य स्पन्दः प्रयत्नो वास्ती" ति च । न्या-

यसुधायामप्युक्तम्-"न शब्दे स्पन्दयत्नौ हि विभुत्वाचेतनत्वतः - इति । तस्य

शब्दनिष्ठत्वेन कल्पितस्य स्वन्दाद्यतिरिक्तस्य व्यापारस्य । स्वप्रवृत्तौ श्रन्यानधीनस्व

तन्त्रप्रवृत्तौ । पुरुषान्तरेण प्रवर्तितस्सन् स्वयमेवेष्टसाधनतादि ज्ञात्वा यत्र प्रवर्तते, तत्रेति

यावत् । पराधीनप्रवृत्तौ परकीय प्रेरणानन्तरभाविप्रवृत्तौ । अनेन उभयत्रापि प्रवृत्ति-

कारणश्वेन क्लृसत्वं समीहितसाघनतायाससूचितम् । लाघवादिति । भवन्मते कल्पित

स्यापि धर्मस्य प्रवृत्त्यनुकूलत्वं, शब्दस्य स्वनिष्ठव्यापारबोधकत्वं, धात्वर्थस्य च समीहित

साधनस्वमिति त्रितयं कल्पनीयम् । अस्मन्मते तु समीहितसाघनतायाः प्रवृत्तिकारणत्वं

शब्दस्यान्यनिष्ठव्यापारबोधकत्वमित्युभयं सिद्धम् तस्या विध्यर्थत्वं परमेकं कल्पनीय-

मिति लाघवमित्यर्थः । क्लृप्तस्येत्यनेन भवन्मत एव क्लृप्तपरित्यागः अक्लृप्त कल्पनञ्च,

नास्मन्मत इति सूचितम् । श्रावश्यकस्येति । भवतापीदमजीक्रियत एव प्रवृत्तिसम्पा-

दनार्थमितीदमुभयोरप्यावश्यकमिति भावः ।
 
9
 

 
ननु यागादे: समीहितसाधनता न स्वरूपतस्सिद्धा । किन्तर्हि १ विधिविषयत्वान्य-

थानुपपत्त्या कल्पिता । विधिर्हि प्रवर्तनात्मकः स्वस्य प्रवर्तकत्व सिद्धयर्थं स्वविषयीभूतया

गादेरिष्टसाघनत्वमाक्षिपति । अत एव च भावनाया इष्टभाव्यकत्वनियमपष्ठे स्वर्गकामा-

विकरणोक्तस्सङ्घच्छते । अत एव च धात्वर्थस्समानपदोपात्तोऽपि इष्टरूपत्वाभाषात्

[^
.] कल्पनागौरवाह ।