2023-05-29 15:03:33 by Veera Raagavan
This page has been fully proofread once and needs a second look.
सर्वोऽपि हि समीहितसाधनतां ज्ञात्वा प्रवर्तते । अन्यप्रेरितोऽपि यदीष्टसाध-
नतां न जानाति तदा नैव प्रवर्तते ।
स्वतन्त्र प्रेरणावादेऽपि तदाक्षिप्तसमीहितसाधनताज्ञानं स्वीक्रियत एव ।
अन्यथा विधेः प्रवर्तकत्वानुपपत्तेः । अतश्चावश्यकत्वात् समीहितसाधन-
[commentary]
अपि हीति । स्वतन्त्रप्रवृत्तिस्थले समीहितसाघधनताज्ञानादेव प्रवर्तते इति निर्विवादम् ।
अन्यदीय प्रेरणानन्तरप्रवृत्तिस्थलेऽपि समीहितसाधनतां ज्ञात्वैव प्रवर्तते । यद्यपि तत्र
श्स्वारसिकेच्छा न स्यात् तथापि आचार्यादिः स्वप्रवर्तनाबलात् तस्य समीहितसाघधनता -
ज्ञानमुत्पाद्यैव प्रवर्तयतीत्यनुभवसिद्धम् । एवञ्च तत्रापोष्टसाघधनताज्ञानादेव प्रवर्तत इति
प्रवृत्तित्वावच्छिन्नं प्रति समीहितसाघधनताज्ञानस्य कारणत्वमुचितमेवेति भावः । उक्तं
च मण्डनमिक्षैः- श्रैः--"प्रवृत्तिसमर्थो हि कश्चित् भावातिशयो व्यापाराभिधानः
प्रवर्तना । सा। सा च क्रियाणां अपेक्षितोपायतैव । न हि तथात्वमप्रतिपद्य तत्र
प्रवर्तते कश्चित् । याप्याज्ञादिभ्यः प्रवृत्तिः सापि कथञ्चित् श्रअपेक्षित निबन्धन-
स्त्वमुपाश्रित्यैव" इति । "कर्तुरिष्टाभ्युपाये हि कर्तव्यमिति लोकधीः" इति च ।
प्रवृत्ति समर्थः प्रवत्तिजननसमर्थः । अपेक्षितोपायता इष्टसाधनता ।
ननु सर्वत्र लिबाङादिशब्दश्रवणानन्तरमेव प्रवृचित्तिदर्शनात् तस्याश्च कर्तव्यताप्रतिपत्ति-
पूर्वकत्वावगमात् प्रेरणाख्यस्यैव कस्यचित् व्यापारस्य समीहितसाधनतातिरिक्तस्य कर्त-
व्यताबुद्ध्युत्पादनद्वारा प्रवृत्तिहेतुत्वाभ्युपगमात् न तस्यास्स मीहितसाघधनतारूपत्वाभ्युपगमे
प्रमाणमस्ति इत्यत आह - --स्वन्त्रप्रेरणावादेऽपीति । पूर्वमुकोक्तो यः पक्षः प्रेरणायाः
लिङर्थस्त्वाभ्युपगमरूपः तत्रापीत्यर्थः । तदादिक्षिप्तेति । प्रेरणाख्यव्यापारस्य लिबङर्थत्वम-
भ्युपगम्य तस्यैव प्रवृत्तिजनकत्वमभ्युपगच्छता भवतापि तत्र समीहितसाघधनताज्ञानं स्वी.-
क्रियत एव, परन्तु सा स्वस्याः प्रवर्तकस्त्वसिद्ध पर्थध्यर्थं स्वविषययागादेस्समीहितसाधनत्वमा.-
क्षिपतीत्युच्यते भवता । सर्वथा तु इष्टसाधनताज्ञानमावश्यकमेव भवतोऽपीत्याशयः ।
मन्मते इष्टसाघधनतानाक्षेपे को दोषः ? इत्याक्षिपन्तं पूर्वपक्षिणं प्रत्याह- अन्यथेति ।
उक्तं च "हेतुमति च" इति सूत्रे महाभाष्ये "सर्व इमे स्वभूत्यर्थं प्रवर्तन्ते" इति ।
"कः प्रयोज्यस्य प्रेरणयार्थो यदभिप्रायेषु सज्जते" इति तत्सूत्रस्थमाध्भाष्येण णिज-
र्थ प्रेरणाया अपि स्वातन्त्र्येण प्रवर्तकत्वबोधाधनाच्च । एवञ्च मतद्वयेऽपि तस्या आवश्यक-
• त्वात् तस्या एव विध्यर्थत्वकल्पनं युक्तमित्याह-अतश्चेति ।
नन्वेवं समीहितसाघधनत्वस्यैव लिडङर्थत्वमभ्युपगम्य तज्ज्ञानस्यैव सर्वत्र प्रवृत्तिहेतु-
त्वाभ्युपगमे 'अचार्य प्रेरितोऽहं गामानयामि, न स्वतः' इति व्यवहारोच्छेदापत्तिः, न च
तत्र प्रवृत्तिकारणीभूतेष्टसाधन ताज्ञान जन कलिङङुच्चारयितृत्वेनैवाचार्यादेः प्रवर्तकत्वध्व्यवहार
इति वाच्यम् । तथात्वे राजप्रेरितपदा तेः तादृशलिङङुच्चारयितृत्वेन प्रवर्तकत्वापत्तेः । न
चेष्टापत्तिः । तथात्वे 'राजप्रेरितोऽहं गामानयामि, न पदतिप्रेरितः' इति पदातेः प्रवर्तक-
स्त्वाभावव्यवहारानुपपत्तेः । अतः पूर्वोक्तव्यवहारसाधुत्वार्थं तत्र प्रेरणादेरेव विध्यर्थत्वम-
वश्यमभ्युपगन्तव्यमिति चेत् -न; तत्रापि तत्सम्पादनपरितोषितः श्राआचार्यादिः मत्समी-
हितं साधयेत् श्र, अहितं वा न विदध्यात् इति बुद्ध्यैव शिष्यादेः प्रवृत्तिदर्शनातूत्, अन्यथा
नतां न जानाति तदा नैव प्रवर्तते
स्वतन्त्र
अन्यथा विधेः प्रवर्तकत्वानुपपत्तेः
[commentary]
अपि हीति
अन्यदीय
ज्ञानमुत्पाद्यैव प्रवर्तयतीत्यनुभवसिद्धम्
प्रवृत्तित्वावच्छिन्नं प्रति समीहितसा
च मण्डनमि
प्रवर्तना
प्रवर्तते कश्चित्
प्रवृत्ति
ननु सर्वत्र लि
पूर्वकत्वावगमात् प्रेरणाख्यस्यैव कस्यचित् व्यापारस्य समीहितसाधनतातिरिक्तस्य कर्त-
व्यताबुद्ध्युत्पादनद्वारा प्रवृत्तिहेतुत्वाभ्युपगमात् न तस्यास्स
प्रमाणमस्ति इत्यत आह
लिङर्थ
भ्युपगम्य तस्यैव प्रवृत्तिजनकत्वमभ्युपगच्छता भवतापि तत्र समीहितसा
क्रियत एव, परन्तु सा स्वस्याः प्रवर्तक
क्षिपतीत्युच्यते भवता
मन्मते इष्टसा
उक्तं च "हेतुमति च" इति सूत्रे महाभाष्ये "सर्व इमे स्वभूत्यर्थं प्रवर्तन्ते" इति
"कः प्रयोज्यस्य प्रेरणयार्थो यदभिप्रायेषु सज्जते" इति तत्सूत्रस्थ
र्थ
नन्वेवं समीहितसा
त्वाभ्युपगमे 'अचार्य
तत्र प्रवृत्तिकारणीभूतेष्टसाधन
इति वाच्यम्
चेष्टापत्तिः
वश्यमभ्युपगन्तव्यमिति चेत्
हितं साधयेत्