This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनीव्याख्यासंवलितः
 
१८३
 
सर्वोऽपि हि समीहितसाधनतां ज्ञात्वा प्रवर्तते । अन्यप्रेरितोऽपि यदीष्टसाध-

नतां न जानाति तदा नैव प्रवर्तते ।
 

 
स्वतन्त्र प्रेरणावादेऽपि तदाक्षिप्तसमीहितसाधनताज्ञानं स्वीक्रियत एव ।

अन्यथा विधेः प्रवर्तकत्वानुपपत्तेः । अतश्चावश्यकत्वात् समीहितसाधन-

 
[commentary]
 
अपि हीति । स्वतन्त्रप्रवृत्तिस्थले समीहितसाघनताज्ञानादेव प्रवर्तते इति निर्विवादम् ।

अन्यदीय प्रेरणानन्तरप्रवृत्तिस्थलेऽपि समीहितसाधनतां ज्ञात्वैव प्रवर्तते । यद्यपि तत्र

श्वारसिकेच्छा न स्यात् तथापि आचार्यादिः स्वप्रवर्तनाबलात् तस्य समीहितसाघनता -

ज्ञानमुत्पाद्यैव प्रवर्तयतीत्यनुभवसिद्धम् । एवञ्च तत्रापोष्टसाघनताज्ञानादेव प्रवर्तत इति

प्रवृत्तित्वावच्छिन्नं प्रति समीहितसाघनताज्ञानस्य कारणत्वमुचितमेवेति भावः । उक्तं

च मण्डनमिक्षैः- "प्रवृत्तिसमर्थो हि कश्चित् भावातिशयो व्यापाराभिधानः

प्रवर्तना । साच क्रियाणां अपेक्षितोपायतैव । न हि तथात्वमप्रतिपद्य तत्र

प्रवर्तते कश्चित् । याप्याज्ञादिभ्यः प्रवृत्तिः सापि कथञ्चित् श्रपेक्षित निबन्धन-

स्वमुपाश्रित्यैव" इति । "कर्तुरिष्टाभ्युपाये हि कर्तव्यमिति लोकधीः" इति च ।

प्रवृत्ति समर्थः प्रवत्तिजननसमर्थः । अपेक्षितोपायता इष्टसाधनता ।
 

 
ननु सर्वत्र लिबादिशब्दश्रवणानन्तरमेव प्रवृचिदर्शनात् तस्याश्च कर्तव्यताप्रतिपत्ति-

पूर्वकत्वावगमात् प्रेरणाख्यस्यैव कस्यचित् व्यापारस्य समीहितसाधनतातिरिक्तस्य कर्त-

व्यताबुद्ध्युत्पादनद्वारा प्रवृत्तिहेतुत्वाभ्युपगमात् न तस्यास्स मीहितसाघनतारूपत्वाभ्युपगमे

प्रमाणमस्ति इत्यत आह - स्वन्त्रप्रेरणावादेऽपीति । पूर्वमुको यः पक्षः प्रेरणायाः

लिङर्थस्वाभ्युपगमरूपः तत्रापीत्यर्थः । तदादिप्तेति । प्रेरणाख्यव्यापारस्य लिबर्थत्वम-

भ्युपगम्य तस्यैव प्रवृत्तिजनकत्वमभ्युपगच्छता भवतापि तत्र समीहितसाघनताज्ञानं स्वी.

क्रियत एव, परन्तु सा स्वस्याः प्रवर्तकस्वसिद्ध पर्थ स्वविषययागादेस्समीहितसाधनत्वमा.

क्षिपतीत्युच्यते भवता । सर्वथा तु इष्टसाधनताज्ञानमावश्यकमेव भवतोऽपीत्याशयः ।

मन्मते इष्टसाघनतानाक्षेपे को दोषः ? इत्याक्षिपन्तं पूर्वपक्षिणं प्रत्याह- अन्यथेति ।

उक्तं च "हेतुमति च" इति सूत्रे महाभाष्ये "सर्व इमे स्वभूत्यर्थं प्रवर्तन्ते" इति ।

"कः प्रयोज्यस्य प्रेरणयार्थो यदभिप्रायेषु सज्जते" इति तत्सूत्रस्थमाध्येण णिज

र्थ प्रेरणाया अपि स्वातन्त्र्येण प्रवर्तकत्वबोधानाच । एवञ्च मतद्वयेऽपि तस्या आवश्यक-

• त्वात् तस्या एव विध्यर्थत्वकल्पनं युक्तमित्याह-अतश्चेति ।
 

 
नन्वेवं समीहितसाघनत्वस्यैव लिडर्थत्वमभ्युपगम्य तज्ज्ञानस्यैव सर्वत्र प्रवृत्तिहेतु-

त्वाभ्युपगमे 'अचार्य प्रेरितोऽहं गामानयामि, न स्वतः' इति व्यवहारोच्छेदापत्तिः, न च

तत्र प्रवृत्तिकारणीभूतेष्टसाधन ताज्ञान जन कलिङच्चारयितृत्वेनैवाचार्यादेः प्रवर्तकत्वध्यवहार

इति वाच्यम् । तथात्वे राजप्रेरितपदा तेः तादृशलिङच्चारयितृत्वेन प्रवर्तकत्वापत्तेः । न

चेष्टापत्तिः । तथात्वे 'राजप्रेरितोऽहं गामानयामि, न पदतिप्रेरितः' इति पदातेः प्रवर्तक-

स्वाभावव्यवहारानुपपत्तेः । अतः पूर्वोक्तव्यवहारसाधुत्वार्थं तत्र प्रेरणादेव विध्यर्थत्वम-

वश्यमभ्युपगन्तव्यमिति चेत् -न; तत्रापि तत्सम्पादनपरितोषितः श्राचार्यादिः मत्समी-

हितं साधयेत् श्रहितं वा न विदध्यात् इति बुद्ध्यैव शिष्यादेः प्रवृत्तिदर्शनातू, अन्यथा
 
2
 
a
 
O