This page has been fully proofread once and needs a second look.

'श्रभिधाभावनामाहुरन्यामेव लिङादयः'
 
इति वार्तिकस्य । अभिधीयते अनेनेति व्युत्पत्या अभिधाशब्देन वि
वि
-
धि
शब्द उच्यते । तद्व्यापारात्मिका भावना लिङा दिवाच्येति - (--[^) ]केचिदाहुः
 
अन्ये तु - --सत्यं प्रवर्तनासामान्यं विध्यर्थः, तथैव शक्तिग्रहात् । प्रवृत्य-
नुकूलो व्यापारः प्रवर्तना। अपौरुषेये च वेदे मैप्रैषादेरसंभवात् कश्चित् पुरुषप्र-
वृत्यनुकूलो व्यापारविशेषः कल्पनीयः । विधिशब्दाभिधेय प्रवर्तनासामान्यस्य
विशेष मन्तरेणापर्यवसानात् । तत्र कोऽसौ ब्व्यापार विशेषः ? इत्यपेक्षायां
घाधात्वर्थगतं समीहितसाधनत्वमेवेति कल्प्यते । तस्यापि प्रवृत्त्यनुकूलत्वात्
 
[commentary]
 
त्वेनेत्यर्थः । अत्र च न प्रवृत्यनुकूलत्वं शक्यतावच्छेदक कोटिप्रविष्टम्, गौरवात्, अन्य-
लभ्यत्वाच्च, प्रवृत्तेहिं श्रार्हि आख्यातेनैव लाभात् अनुकूलत्वस्य च प्रयोजकत्वापर पर्यायस्य
संसर्गबलेन लाभात्। अतो लाघवात् लोकवेदसाधारणं व्यापारत्वमेव शक्यतावच्छेद-
कम् । विशेषलाभस्तु तत्र तत्र समभिव्याहारा दिनेत्यवगन्तव्यम् । नन्नि। नन्विदं 'अभिधा-
भावनामाहु' रित्यनेन वार्तिकेन विसंवदति, तेनाभिषासम्बन्धिन्या एव भावनायाः लिङ्-
वाच्यत्वप्रतिपादनात्, अतः कथं वार्तिकविरोधी पक्षोऽयमाद्रियतामित्यत-अ आह-अयमे
वेति। अविरोधितामेवोपपादयति-अभिधीयत इति । अनेनेति ब्रुवता कर्तृव्युत्पत्तिः
करणव्युत्पत्तिर्वा प्रदर्शिता । एवम्वञ्च अभिधायकत्वात् अभिषाधा विध्यादिशब्दः । तन्निष्ठा
तद्वयापारात्मिका भावना अभिवाधाभावना तां लिङादयः बोधयन्तीत्यर्थः फलितः। श्रस्मिन्
मते अभिधाया भावना इति षष्ठीतत्पुरुषो विवक्षित: तः। केचिदिति । न्यायसुधाकृत्प्रभृ-
तय इत्यर्थः
 
तत्रैव पार्थसारथिमिश्रिमतमुपवर्णयितुमारभते - -अन्ये विति त्विति। आहुरित्यस्य प्र-
दन्ति प्रवर्तनामित्यनन्तरं श्रुतेनेतिना सम्बन्धः । सत्यमिति । प्रवर्तनासामान्यस्य
विध्यर्थस्त्वमस्माकमपीष्टमेवेति भावः । तथैवेति । एवञ्चानेकार्थत्वं कल्पितं न भवति
[[

अन्यथा प्रेषणमध्येषणमभ्यनुज्ञान मिष्टसानत्वं चेति बहवोऽर्थाः लिडादेः कल्पयितव्याः
तथात्वे तेषां परस्परं व्यभिचारस्यानेकशक्तिकल्पना प्रयुक्तगौरवस्य चास्माकमपि तुल्यत्वा-
दिति भावः । अपर्यवसानादिति । 'निर्विशेषं न सामान्य' मिति न्यायेन सामान्यस्य
विशेषे पर्यवसानमन्तरा अनिवृत्ताकाङ्क्षत्वात्, सामान्यस्य प्रवृत्तिविशेषाजनकत्वाच्चेति
भावः । एतावदुभयोरपि पक्षे तुल्यम्, तत्र विशेष जिज्ञासायां तस्याः प्रेरणारूपत्वे तस्या
अपि वैदिकवाक्यप्रतिपाद्यत्वासम्भवरूपदोषतादवस्थ्यात् तां परिहाय घाधात्वर्थगतं यदिष्ट-
सानत्वं तस्यैव परं व्यापारविशेषत्वं कल्प्यते इत्याह - -तत्रेत्यादिना । ननु कथं तस्य
प्रवर्तनात्वम् ? अत आह-तस्यापोति पीति। प्रवर्तनात्वं च प्रवृत्यनुकूलत्वम्, तच्चात्रापि
समीहितसानत्वेऽस्तीति भावः । ननु आचार्यादिरनिच्छन्तमपि शिष्यादिकं बलात् प्र-
वर्तयतीत्यनुभवसिद्धत्वात् तत्र समीहितसाधनताज्ञानमन्तरापि शिष्यादेः प्रवृत्तिदर्शनात्
कथं प्रवृत्तित्वावच्छिन्नं प्रति समीहितसाधनतायाः कारणत्वमित्याशङ्कायामाह-सर्वो-
 

[^१] केचिदाचार्याः