This page has not been fully proofread.

मीमांसान्यायप्रकाशः
 
[ शाब्दीभावना-
'श्रभिधाभावनामाहुरन्यामेव
 
लिङादयः'
 

 
इति वार्तिकस्य । अभिधीयते अनेनेति व्युत्पत्या अभिधाशब्देन वि

विशब्द उच्यते । तद्यापारात्मिका भावना लिङा दिवाच्येति - (१) केचिदाहुः ।
 

 
अन्ये तु - सत्यं प्रवर्तनासामान्यं विध्यर्थः, तथैव शक्तिमहात् । प्रवृत्य-

नुकूलो व्यापारः प्रवर्तना। अपौरुषेये च वेदे मैषादेरसंभवात् कश्चित् पुरुषप्र

वृत्यनुकूलो व्यापारविशेषः कल्पनीयः । विधिशब्दाभिधेय प्रवर्तनासामान्यस्य

विशेष मन्तरेणापर्यवसानात् । तत्र कोऽसौ ब्यापार विशेषः ? इत्यपेक्षायां

घात्वर्थगतं समीहितसाधनत्वमेवेति कल्प्यते । तस्यापि प्रवृत्त्यनुकूलत्वात् ।
 
१६२
 

 
[commentary]
 
त्वेनेत्यर्थः । अत्र च न प्रवृत्यनुकूलत्वं शक्यतावच्छेदक कोटिप्रविष्टम्, गौरवात्, अन्य

लभ्यत्वाच्च, प्रवृत्तेहिं श्राख्यातेनैव लाभात् अनुकूलत्वस्य च प्रयोजकत्वापर पर्यायस्य

संसर्गबलेन लाभात् । तो लाघवात् लोकवेदसाधारणं व्यापारत्वमेव शक्यतावच्छेद-

कम् । विशेषलाभस्तु तत्र तत्र समभिव्याहारा दिनेत्यवगन्तव्यम् । नन्निदं 'अभिधा-

भावनामाहु' रित्यनेन वार्तिकेन विसंवदति, तेनाभिषासम्बन्धिन्या एव भावनायाः लिङ्-

वाच्यत्वप्रतिपादनात्, अतः कथं वार्तिकविरोधी पक्षोऽयमाद्रियतामित्यत-अमे

वेति। अविरोधितामेवोपपादयति-अभिधीयत इति । अनेनेति ब्रुवता कर्तृव्युत्पत्तिः

करणव्युत्पत्तिर्वा प्रदर्शिता । एवम्व अभिधायकत्वात् अभिषा विध्यादिशब्दः । तन्निष्ठा

तद्वयापारात्मिका भावना अभिवाभावना तां लिङादयः बोधयन्तीत्यर्थः फलितः। श्रस्मिन्

मते अभिधाया भावना इति षष्ठीतत्पुरुषो विवक्षित: । केचिदिति । न्यायसुधाकृत्प्रभृ

तय इत्यर्थः ।
 

 
तत्रैव पार्थसारथिमिश्रिमतमुपवर्णयितुमारभते - अन्ये विति । आहुरित्यस्य प्रव

दन्ति प्रवर्तनामित्यनन्तरं श्रुतेनेतिना सम्बन्धः । सत्यमिति । प्रवर्तनासामान्यस्य

विध्यर्थस्वमस्माकमपीष्टमेवेति भावः । तथैवेति । एवञ्चानेकार्थत्वं कल्पितं न भवति ।

[[अन्यथा प्रेषणमध्येषणमभ्यनुज्ञान मिष्टसाघनत्वं चेति बहवोऽर्थाः लिडादेः कल्पयितव्याः ।

तथात्वे तेषां परस्परं व्यभिचारस्यानेकशक्तिकल्पना प्रयुक्तगौरवस्य चास्माकमपि तुल्यत्वा-

दिति भावः । अपर्यवसानादिति । 'निर्विशेषं न सामान्य' मिति न्यायेन सामान्यस्य

विशेषे पर्यवसानमन्तरा अनिवृत्ताकाङ्क्षत्वात्, सामान्यस्य प्रवृत्तिविशेषाजनकत्वाच्चेति

भावः । एतावदुभयोरपि पक्षे तुल्यम्, तत्र विशेष जिज्ञासायां तस्याः प्रेरणारूपत्वे तस्या

अपि वैदिकवाक्यप्रतिपाद्यत्वासम्भवरूपदोषतादवस्थ्यात् तां परिहाय घात्वर्थगतं यदिष्ट-

सावनत्वं तस्यैव परं व्यापारविशेषत्वं कल्प्यते इत्याह - तत्रेत्यादिना । ननु कथं तस्य

प्रवर्तनात्वम् ? अत आह-तस्यापोति । प्रवर्तनात्वं च प्रवृत्यनुकूलत्वम्, तच्चात्रापि

समीहितसाघनत्वेऽस्तीति भावः । ननु आचार्यादिरनिच्छन्तमपि शिष्यादिकं बलात् प्र

वर्तयतीत्यनुभवसिद्धत्वात् तत्र समीहितसाधनताज्ञानमन्तरापि शिष्यादेः प्रवृत्तिदर्शनात्

कथं प्रवृत्तित्वावच्छिन्नं प्रति समीहितसाधनतायाः कारणत्वमित्याशङ्कायामाह-सर्वो-

[^
.] केचिदाचार्याः
 
[.