This page has not been fully proofread.

निरूपणम् ]
 
●सार विवेचिनी
व्याख्यासंवलितः
 
यद्यपि भोजनादौ स्वप्रतः समीहितसाधन ताज्ञानपूर्वकत्वावधारणात्

प्रयोज्यवृद्धप्रवृत्तेरपि तत्पूर्वकत्वाध्यवसानं युक्तम्, तथाप्यन्यप्रेरितप्रवृत्तौ

प्रवर्तनाचा नजन्यत्वस्योक्तमातृप्रवृत्तौ दर्शनेन प्रयोज्यवृद्वप्रवृशेरप्यम्यप्रेरित

प्रवृत्तित्वात्तत्कारणत्वेन प्रवर्तनाज्ञानास्यैवाध्यवसानम् । तथ्य प्रवर्तनाज्ञानम-

न्वयव्यतिरेकाभ्यां प्रयोजकवाक्यजन्यमित्यवधारयति । तत्र चावापद्वापाभ्यां

प्रवर्तनायां विधिशक्तिमवधारयति । प्रवृत्त्यनुकूलो व्यापारः प्रवर्तना । ल च

प्रबादिरूपो विविध इति प्रत्येक व्यभिचारित्वाद्विधिशब्द वाच्यत्वानुपपत्तेः

प्रवर्तन। (१) सामान्यमेव विधिशब्दवाच्यमिति कंल्पयति । एवं च विधि-

श्रवणे प्रैषादिरूपस्य वक्त्रभिप्रायस्य प्रवर्तनात्वेन एकरूपेण प्रतीतिर्न विशेष.

रूपेण, तथैव शक्तिमहात् । विशेषरूपेण तु प्रतीतिर्लक्षणयैव ।
 

 
,
 

 
एवं च वैदिकलिङादिश्रवणेऽपि प्रवर्तनासामान्यमेव प्रतीयते । तत्र

कोऽसौ व्यापारः ? इत्यपेक्षायां प्रैषादिरूपस्य वक्त्रभिप्रायस्यापौरुषेये वेदे-

अनुपपत्तेः शब्दनिष्ठ एव प्रेरणापरपर्यायः कश्चिद्यापार इति कल्प्यते । भतश्च

शब्दनिष्ठ एव प्रेरणापरपर्यायो व्यापारः शाब्दी भावना । सैव च प्रवर्तना.

त्वेन रूपेण विध्यर्थ इति । अयमेव चार्थः-
१६१
 
3
 

 

 
[commentary]
 
साधनताज्ञानाभावे प्रवृत्त्यदर्शनात् । अतश्च स्वतस्सिद्धप्रवृत्तिस्थले प्रेरणाजन्यत्वव्य.

भिचारात् समीहितसाधनताज्ञानजन्यत्वस्य चोमयत्राव्यभिचारात् प्रवृत्ति वावच्छिन्नस्य

समीहितसाधनताज्ञानजन्यत्वमेव समुचितमङ्गीकर्तुम् न तु कस्याश्चित् प्रवृत्तेः समीहित•

साधनताशानजन्यत्वं, कस्याश्चिच प्रर्वतनाज्ञान जन्यत्वमिति बैरूप्याज्ञीकारी युक्त इत्या.

शङ्कां निराकरिष्यन् प्रथमतस्तामनुवदति- यद्यपीत्यादिना युक्तमित्यन्तेन । सत्यं द्विवि

धास्ति लोके प्रवृत्तिः, सत्यं च समीहितसाधनतादि बुद्ध्वा पुरुषः प्रवर्तते तथापि यन्त्रा.

न्यप्रेरणया प्रवृत्तिः तन आचार्यप्रेरितोऽहं गामानयामि, न स्वेच्छयेति व्यवहारदर्शनात्

प्रेरणोत्तरप्रवृत्तित्वावच्छिन्नस्य प्रेरणाशानजन्यत्वमेव वक्तुमुचितम् उक्तमातृप्रवृत्तौ

तथैव दर्शनात् इति समाधत्ते तथापीति । एवं प्रवृत्तिकारणत्वेन प्रवर्तनाज्ञानेऽध्य-

वसिते तत्कारण जिज्ञासायां तत्कारणाध्यवसानप्रकारमुपपादयति-तच्चेत्यादिना अवधा.

रयतोत्यन्तेन । तत्रापि प्रवर्तना विशेषेषु प्रैषसम्प्रश्नादिषु न शक्तिः, प्रैषस्थले सम्प्रश्ना-

द्यभावात् सम्प्रश्नस्थले प्रैषाद्यभावान्च तेषां परस्परं व्यभिचारेण सर्वानुगतप्रवर्तनास्वमेव

शक्यतावच्छेद कमित्यवधारयतीत्याह-स चेति । लक्षण वेति । सामान्यवाचकस्य

शब्दस्य विशेषबोधकत्व रूपाजहत्स्वार्थलक्षणयेत्यर्थः ।
 

 
एवंप्रकारेण लोके
 

 
लिबादेश्शक्ताववधारितायां तेनैव न्यायेन वेदेऽपि शक्तिग्रहस्स्व-

ध्यवसान इत्याह - एवश्चेति । प्रवर्तनासामान्यमेवेति । यथा लोके लिङादिश्रवणे

प्रवर्तनासामान्यस्य प्रतीतिः तथैव वेदेऽपीति नैतावत्पर्यन्तं लोकवेदयोर्भेद इति भावः ।

अनन्तरञ्च यथैव विशेषजिज्ञासायां तत्तत्प्रकरणाद्यनुगृहीतस्य लिङादेविशेषलक्षकत्वमध्य.

वसीयते लोके, एवमेव वेदेऽपि विशेषजिज्ञासायां प्रैषादीनां तत्राभावात् शब्दनिष्ठधर्म •

विशेष लक्ष कत्वमध्यवसीयते इत्याह-तत्रेति । प्रवर्तनात्वेनेति । प्रवृत्यनुकूलव्यागर-

[^
.] प्रवर्तनायास्सा ।