This page has been fully proofread once and needs a second look.

यत्त इष्टसाधनत्वं [^१] विध्यर्थं इति, तन्न । तथा सति इष्टसाधन मितिशब्दस्य
विधिशब्दः पर्यायः स्यात् । न च पर्यायत्वं युज्यते । सन्ध्योपासनं ते इष्टसा-
धनम्, तस्मात्तत् त्वं कुर्विति सह प्रयोगात्, पर्यायाणां च सह प्रयोगाभा-
वात् । अतश्च व्यापारविशेष एव विध्यर्थः । स च लोके पुरुषनिष्ठोऽभिप्राय-
विशेषः । वेदे तु पुरुषाभावाच्छन्ब्दनिष्ठ एव प्रेरणापरपर्याय इत्युक्तम्
 
[commentary]
 
बोधकलिब्ाङाद्यर्थः । अयं लिङुच्चारयिता । इष्टसानत्वस्य लिङर्थत्वं प्रसङ्गात् पूर्वं निर-
स्तमपि प्रकरणशुद्धथध्यर्थं पुनस्तदन्नूद्य निरस्यति — यत्त्विति --यत्त्विति। विधिशब्दः विधिबोधको
लिङादिः । इष्टापत्तौ दोषमाह - --सन्ध्योपासनमिति । सहप्रयोगादिति । सहप्रयो-
गदर्शनादित्यर्थः । इष्टसाधन मिति पदेन सह '"कुरु" इति लोट: प्रयोगो दृश्यते । पर्या-
यत्वे च स न घटत इति भावः । अत नेष्टसाधनत्वस्य लिङर्थत्वं युज्यते । प्रवर्तनाप्रेर-
ग्णाविध्यादिपर्यायस्यैव व्यापारविशेषस्य तदित्यभ्युपगन्तव्यमित्याह - प्र-अतश्चेति । स च
व्यापारविशेषश्च । सर्वत्र लोके प्रवर्तयितुराचार्यादेदेः ' 'हमेनं प्रवर्तयामि' इत्यनुभवात्
'आचार्य प्रेरितोऽहं गामानयामि' इति व्यवहारबलाच्च प्रवर्तनायाः प्रवर्तयितृपुरुषनिष्ठत्वम्,
गवानयनादौ कृते 'मदाज्ञामयं कृतवान्' इत्याज्ञप्तुर्व्यवहाराच्च तस्याभिप्राय विशेषत्वं चाव-
गम्यत इति भावः । शब्दनिष्ठ एवेति । लिग। लिङादिरूपो यो विधायकश्शब्दः तद्वृत्ति-
रित्यर्थः । इत्युक्तमिति । ग्रन्थारम्भ इति शेषः

 
( ३ ) इष्टसाधनत्वमेव लिङथंर्थ इति ततोऽर्वाचीना वैयाकरणाः
 
( ४ ) नैयायिकेषु--इष्टसाधनत्वं बलवद निष्टा जनकत्वं कृतिसाध्यत्वं चेति त्रितयमपि लि
 
ङर्थ इति नैयायिकाः । तत्र विशेषण विशेष्यभावापन्नेषु त्रिष्वप्येकैव शक्तिरिति प्राचीनाः
तत्र पृथक्-पृथगेव शक्तित्रयमिति नवीनाः
 
( ५ ) कृतिसाध्यश्त्वमेव लिडर्थ इति रतङर्थ इति रत्नकोशकृतः
 
(६) लिङ्घटितवाक्योच्चारयितुरहमेनं प्रवर्तयामीत्यभिप्रायविशेषो लोके वेदे च लिडर्थ ङर्थ। इत्यु-
दयनोनाचार्याः
 
( ७ ) वेदान्तिषु--वेदे भगवदाज्ञैव लिधंङर्थ इति श्रीभाष्यकाराः, तदनुयायिनस्सेश्वरमीमांसा
 
-
 
कृदादयश्च
 
( ८ ) इष्टसाधनत्वमेव लिर्थ इति सुरेश्वराचार्याः, तदनुसारिणश्चित्सुखाचार्यादयश्च
 
( ९ ) इष्टसाधनत्वं कृतिसाध्यत्वमित्युभयं लिङर्थ इति भामत्यां वाचस्पतिमिश्राः
 
( १० ) मीमांसकेषु--इष्टसाधनत्वमेव तत्त्वेन रूपेण लिर्थ इति मण्डनमिश्राः
 
( ११ ) भाट्टेषु-तत्तद्धात्वर्थगतं कार्यस्खं लिडत्वं लिङर्थ इति भाट्टेष्वप्येकं मतम्
 
( १२ ) लिब्ाङादिशब्दगतस्यार्थप्रकाशनसामर्थ्यस्याऽभिषाधाख्यव्यापारस्य लिङर्थत्वमिस्यध्त्यप्ये कदेशि-
मतम्।

 
( १३) इष्टसाधनश्त्वमेव प्रवर्तनात्वेन रूपेण लिङथंर्थ इति पार्थसारथिमिश्रप्रभृतयः।
 
( १४ ) इष्टसानत्वाद्यतिरिक्तः प्रवर्तनाख्योऽलौकिकः कश्चिद्धर्मविशेषो लिङादिवाच्य इति भट्ट-
सोमेश्वरः खण्डदेवप्रभृतयश्च
 
प्राभाकरेषु--अपूर्वापर पर्याय: कार्यात्मा नियोगो लिर्थ इति प्राभाकराः । तत्र लोके
कार्यत्वेन क्रियायाः, वेदे च नियोगस्य लिङथंर्थत्वमिति विवेकः

एतेषां स्फुटतया विवरणं पूज्यपादैः श्रीगुरुवर्यैरेव स्वकृते विधितत्वसङ्ग्रहाख्ये लघु
कृतम् । तत् तव। तत् तत एवावगन्तव्यम्
 
[^१] लिङर्थः