This page has not been fully proofread.

निरूपणम् यत्त इष्टसाधनत्वं [^१]]
 
सारविवेचिनी व्याख्यासंवलितः
 
९७६
 
-
 
-
 
यत्त इष्टसाधनत्वं (१)
विध्यर्थं इति, तन्न । तथा सति इष्टसाधन मितिशब्दस्य

विधिशब्दः पर्यायः स्यात् । न च पर्यायत्वं युज्यते । सन्ध्योपासनं ते इष्टसा-

धनम्, तस्मात्तत् त्वं कुर्विति सह प्रयोगात्, पर्यायाणां च सह प्रयोगाभा-

वात् । अतश्च व्यापारविशेष एव विध्यर्थः । स च लोके पुरुषनिष्ठोऽभिप्राय-

विशेषः । वेदे तु पुरुषाभावाच्छन्दनिष्ठ एव प्रेरणापरपर्याय इत्युक्तम् ।

 
[commentary]
 
बोधकलिब्ाद्यर्थः । अयं लिङच्चारयिता । इष्टसाघनत्वस्य लिङर्थत्वं प्रसङ्गात् पूर्व निर-

स्तमपि प्रकरणशुद्धथर्थं पुनस्तदन्द्य निरस्यति — यत्त्विति । विधिशब्दः विधिबोधको

लिङादिः । इष्टापत्तौ दोषमाह - सन्ध्योपासनमिति । सहप्रयोगादिति । सहप्रयो-

गदर्शनादित्यर्थः । इष्टसाधन मिति पदेन सह 'कुरु" इति लोट: प्रयोगो दृश्यते । पर्या-

यत्वे च स न घटत इति भावः । अत नेष्टसाधनत्वस्य लिङर्थत्वं युज्यते । प्रवर्तनाप्रेर-

ग्णाविध्यादिपर्यायस्यैव व्यापारविशेषस्य तदित्यभ्युपगन्तव्यमित्याह - प्रतश्चेति । स च

व्यापारविशेषश्च । सर्वत्र लोके प्रवर्तयितुराचार्यादे' 'हमेनं प्रवर्तयामि' इत्यनुभवात्

'आचार्य प्रेरितोऽहंगामानयामि' इति व्यवहारबलाच्च प्रवर्तनायाः प्रवर्तयितृपुरुषनिष्ठरवम्,

गवानयनादौ कृते 'मदाज्ञामयं कृतवान्' इत्याज्ञप्तुर्व्यवहाराच्च तस्याभिप्राय विशेषत्वं चाव•

गम्यत इति भावः । शब्दनिष्ठ एवेति । लिगदिरूपो यो विधायकश्शब्दः तद्वृत्ति-

रित्यर्थः । इत्युक्तमिति । ग्रन्थारम्भ इति शेषः ।
 

 
( ३ ) इष्टसाधनत्वमेव लिङथं इति ततोऽर्वाचीना वैयाकरणाः ।
 

 
( ४ ) नैयायिकेषु — इष्टसाधनत्वं बलवद निष्टा जनकत्वं कृतिसाध्यत्वं चेति त्रितयमपि लि
 

 
इति नैयायिकाः । तत्र विशेषण विशेष्यभावापन्नेषु त्रिष्वप्येकैव शक्तिरिति प्राचीनाः ।

तत्र पृथक्-पृथगेव शक्तित्रयमिति नवीनाः ।
 

 
( ५ ) कृतिसाध्यश्वमेव लिडर्थ इति रतकोशकृतः ।
 

 
(६) लिङ्घटितवाक्योच्चारयितुरहमेनं प्रवर्तयामीत्यभिप्रायविशेषो लोके वेदे च लिडर्थ । इत्यु •

दयनोचार्याः ।
 

 
( ७ ) वेदान्तिषु – वेदे भगवदाज्ञैव लिधं इति श्रीभाष्यकाराः, तदनुयायिनस्सेश्वरमीमांसा
 

 
-
 

 
कदादयश्च ।
 

 
( ८ ) इष्टसाधनत्वमेव लिबर्थ इति सुरेश्वराचार्याः, तदनुसारिणश्चित्सुखाचार्यादयश्च ।
 

 
( ९ ) इष्टसाधनत्वं कृतिसाध्यत्वमित्युभयं लिङर्थ इति भामत्यां वाचस्पतिमिश्राः ।
 

 
( १० ) मीमांसकेषु – इष्टसाधनत्वमेव तत्त्वेन रूपेण लिडर्थ इति मण्डनमिश्राः ।
 

 
( ११ ) भाट्टेषु-तत्तद्धात्वर्थगतं कार्यस्खं लिडर्थ इति भाट्टेष्वप्येकं मतम् ।
 

 
( १२ ) लिब्ादिशब्दगतस्यार्थप्रकाशनसामर्थ्यस्याऽभिषाख्यव्यापारस्य लिङर्थव मिस्यध्ये कदेशि
 

 
( १३) इष्टसाधनश्वमेव प्रवर्तनात्वेन रूपेण लिङथं इति पार्थसारथिमिश्रप्रभृतयः।
 

 
( १४ ) इष्टसाघनत्वाद्यतिरिक्तः प्रवर्तनाख्योऽलौकिकः कश्चिद्धर्मविशेषो लिङादिवाच्य इति भट्ट-

सोमेश्वरः खण्डदेवप्रभृतयश्च ।
 

 
प्राभाकरेषु – अपूर्वापर पर्याय: कार्यात्मा नियोगो लिडर्थ इति प्राभाकराः । तत्र लोके

कार्यवेन क्रियायाः, वेदे च नियोगस्य लिङथंत्वमिति विवेकः ॥
 

 
एतेषां स्फुटतया विवरणं पूज्यपादैः श्रीगुरुवर्यैरेव स्वकृते विधितत्वसङ्ग्रहाख्ये लघु

कृतम् । तत् तव एवावगन्तव्यम् ॥
 

 
[^
.] लिङर्थः ।