This page has been fully proofread once and needs a second look.

'सोऽरोदी दित्यादीनामर्थवादानां तु निषेध्यनिन्दकतयेति । [^१] अतश्च
लक्षणया प्राशस्त्यमर्थवादबदैर्बोध्यते, तःच्च प्राशस्त्यज्ञानं शब्दभावनायामिति-
कर्तव्यतात्वेन संबध्यते
 
[^२] परमप्रकृतम्
-
--तत्सिवंद्धं वक्ष्यमाणार्थभावनाभाव्यिका लिङादिज्ञान-
करणिका प्राशस्त्यज्ञ (ञानेतिकर्तव्यताका शाब्दी भावना लिङ्त्वांशेनोच्यत इति

( शाब्दीभावनानिरूपणम् )
 
ननु - -केयं शाब्दी भावना ? उच्यते - --पुरुषप्रवृत्यनुकूलो व्यापारविशेषः
स एव[^३] विध्यर्थ: थः। लिङादिश्रवणे श्रयं मां प्रवर्तयतीति नियमेन प्रतीतेः
 
[commentary]
 
देयमित्यर्थः । अत्र र्हिषी'ति निषेधवाक्यम्, 'सोऽरोदी' दिव्त्यर्थवादवाक्यमिति विवे-
क्तव्यम् । सः श्रग्निः अरोदीत् रुदितवानित्यर्थः । सन्दर्भशुद्ध्यथ कथेयमत्र लिख्यते
तैत्तिरीय संहितोक्ता- पुरा कदाचित् देवासुराणां युद्धं प्रावर्तत । तत्र युद्धार्थं गच्छन्तो
देवाः स्वीयमनघं रमणीयं च वस्तुजातमग्निसमीपेऽस्थापयन् यदि कदाचिदस्मानसुराः
पराजयेयुः तदिदमक्ष्स्माकं लोकयात्रार्थं भविष्यतीति । दृष्ट्वा च तदतिसुन्दरममूल्यं च
वस्तुजातं लोभाकृष्टचित्तोऽग्निः तत् गृहीत्वा पलायत । ते च देवा असुरान् जित्वा प्रति-
निवृत्ताः यदा पलायितमग्निमवागच्छन् तदा तमन्विष्य तत् सर्वमपि धनं बलादाच्छि
न्दन्
-
न्दन्
। तादृशधन वियोगजं दुःखमसहमानोऽग्निररुदत् । रुदतस्तस्य नेत्राभ्यामपतन्नश्रुबि-
न्दवः। त एव घनीभुता रजतत्वमा पन्नाः । निषेध्यनिन्दकत येत्यनन्तरम् अर्थवत्वमित्य-
नुषञ्जनीयम् । एतादृशे स्वार्थे कस्यापि प्रयोजनस्याभावात् निषेभ्ध्यस्य रजतदानस्य निन्दा-
यामेव तात्पर्यमस्यार्थवादस्य वक्तव्यम् - -यत् रजतदानं तदत्यन्तं निन्दितमिति । तेन च
प्रयोजनवत'त्वं सिध्यतीत्यर्थः । अतश्चेति चकारेण अप्राशस्त्यं, तश्च्चेति चकारेण प्रप्रा-
शस्त्यज्ञानं च परिगृहोह्यते । एवं च प्रशंसार्थवाद: प्राशस्त्यम्, निन्दार्थवादैरप्राशस्त्यं
चावबोध्येते इति फलितम् । सम्बध्यत इति । श्रन। अत्र प्राशस्त्याप्राशस्त्ययोः शब्दप्रतिपा-
द्यत्वेऽपि तद्ज्ञानस्य तथ्त्त्वाभावेनाशाब्दत्वात् न शाब्दबोघेधेऽन्वयः । किन्तु वस्तुत एवेति-
कर्तव्यतास्त्वमिति नव्याः
 
प्

 
ग्
रन्थारम्भे कृतं परमप्रकृतं शाब्दीभावनाया अंशत्रय निरूपणमुपसंहर्तुं तत् ज्ञापयति-
परमेति । तदेवोपसंहरति - तरिस-तत्सिद्धमिति
 
( शाब्दीभावनानिरूपणम् )
 
एवं प्रतिज्ञातं परिसमाप्य तावतैव प्ग्रन्थमिमं समापयितुकामोऽपि भावनास्वरूप्रनिरू-
पणमवशिष्टं मन्वानः तदनिरूपणे च ग्रन्थस्य न्यूनतामाशङ्कमानः तन्निरूपणमारभमाणः
पूर्वोपस्थितां प्रधानभूतां च शाब्दीभावनां प्रथमतो निरूपयितुं शब्दभावनास्वरूपं पृच्छति-
नन्विति । एवं पृष्टे न्यायसुधाकृन्मतेन समाधत्ते - --उच्यत इति । विध्यर्थः विधि-
-
 
[^१] "अतश्च लक्षणया प्राशस्त्य मप्राशस्त्यं च स्वसन्निधिपठित विधिनिषेधापेक्षितत्वात् स्वार्थप्रतिपा.-
दने प्रयोजनमलभमानैरर्थवादैर्बोध्यते" इति क्वचित्पाठः । परं स न ग्रन्थकृदभिमत इति भाति
[^२] एतच्च क्वचित् मुद्रितपुस्तके नास्ति । [^३] विविधं लिङर्थभूतं विधिस्वरूपं शास्त्रकारैरेवं निरूपितम्–
(१) वैयाकरणेषु-विधिनिमन्त्रणामन्त्रणाषीधीष्टसंप्रश्न प्रार्थनारूपाः षडर्था लिङः इति भगवान्पाणिनिः
(२) विध्यादिषु चतुर्ष्वनुगतं प्रवर्तनात्वम्, संप्रश्नप्रार्थने च लिर्थ इति वाक्यपदीयकाराः।