This page has not been fully proofread.

१७८
 
मीमांलान्यायप्रकाशः
 
[ शाब्दीभावना-
'सोऽरोदी दित्यादीनामर्थवादानां तु निषेध्यनिन्दकतयेति । ([^)] अतश्च

लक्षणया प्राशस्त्यमर्थवादबध्यते, तःच्च प्राशस्त्यज्ञानं शब्दभावनायामिति

कर्तव्यतात्वेन संबध्यते ।
 
(

 
[^
)] परमप्रकृतम्

- तत्सिवं वक्ष्यमाणार्थभावनाभाव्यिका लिङादिज्ञान-

करणिका प्राशस्त्यज्ञ (नेतिकर्तव्यताका शाब्दी भावना लिङ्त्वांशेनोच्यत इति ।

( शाब्दीभावनानिरूपणम् )
 

 
ननु - केयं शाब्दी भावना ? उच्यते - पुरुषप्रवृत्यनुकूलो व्यापारविशेषः ।

स एव ([^)] विध्यर्थ: । लिङादिश्रवणे श्रयं मां प्रवर्तयतीति नियमेन प्रतीतेः ।

 
[commentary]
 
देयमित्यर्थः । अत्र वर्हिषी'ति निषेधवाक्यम्, 'सोऽरोदी' दिव्यर्थवादवाक्यमिति विवे-

फव्यम् । सः श्रग्निः अरोदीत् रुदितवानित्यर्थः । सन्दर्भशुद्ध्यथ कथेयमत्र लिख्यते

तैत्तिरीय संहितोक्ता- पुरा कदाचित् देवासुराणां युद्धं प्रावर्तत । तत्र युद्धार्थ गच्छन्तो

देवाः स्वीयमनघं रमणीयं च वस्तुजातमग्निसमीपेऽस्थापयन् यदि कदाचिदस्मानसुराः

पराजयेयुः तदिदमक्ष्माकं लोकयात्रार्थं भविष्यतीति । दृष्ट्वा च तदतिसुन्दरममूल्यं च

वस्तुजातं लोभाकृष्टचित्तोऽग्निः तत् गृहीत्वा पलायत । ते च देवा असुरान् जित्वा प्रति-

निवृत्ताः यदा पलायितमग्निमवागच्छन् तदा तमन्विष्य तत् सर्वमपि धनं बलादाच्छि

न्दन् । तादृशधन वियोगजं दुःखमसहमानोऽग्निररुदत् । रुदतस्तस्य नेत्राभ्यामपतन्नश्रुबि•

न्दवः। त एव घनीभुता रजतत्वमा पन्नाः । निषेध्यनिन्दकत येत्यनन्तरम् अर्थवत्वमित्य-

नुषञ्जनीयम् । एतादृशे स्वार्थे कस्यापि प्रयोजनस्याभावात् निषेभ्यस्य रजतदानस्य निन्दा-

यामेव तात्पर्यमस्यार्थवादस्य वक्तव्यम् - यत् रजतदानं तदत्यन्तं निन्दितमिति । तेन च

प्रयोजनवत' सिध्यतीत्यर्थः । अतश्चेति चकारेण अप्राशस्त्यं, तश्चेति चकारेण प्रप्रा-

शस्त्यज्ञानं च परिगृहोते । एवं च प्रशंसार्थवाद: प्राशस्त्यम्, निन्दार्थवादरप्राशस्त्यं

चावबोध्येते इति फलितम् । सम्बध्यत इति । श्रन प्राशस्त्याप्राशस्त्ययोः शब्दप्रतिपा-

द्यत्वेऽपि तद्ज्ञानस्य तथ्वाभावेनाशाब्दत्वात् न शाब्दबोघेऽन्वयः । किन्तु वस्तुत एवेति-

कर्तव्यतास्वमिति नव्याः ।
 

 
प्रन्थारम्भे कृतं परमप्रकृतं शाब्दीभावनाया अंशत्रय निरूपणमुपसंदतुं तत् ज्ञापयति-

परमेति । तदेवोपसंहरति - तरिसद्धमिति ।
 

 
( शाब्दीभावनानिरूपणम् )
 

 
एवं प्रतिज्ञातं परिसमाप्य तावतैव प्रन्थमिमं समापयितुकामोऽपि भावनास्वरूप्रनिरू-

पणमवशिष्टं मन्वानः तदनिरूपणे च ग्रन्थस्य न्यूनतामाशङ्कमानः तन्निरूपणमारभमाणः

पूर्वोपस्थितां प्रधानभूतांच शाब्दीभावनां प्रथमतो निरूपयितुं शब्दभावनास्वरूपं पृच्छति-

नन्विति । एवं पृष्टे न्यायसुधाकृन्मतेन समाधत्ते - उच्यत इति । विध्यर्थः विधि-
-
 

-
 
[^
.] "अतश्च लक्षणया प्राशस्त्य मप्राशस्त्यं च स्वसन्निधिपठित विधिनिषेधापेक्षितत्वात् स्वार्थप्रतिपा.

दने प्रयोजनमलभमानैरर्थवादै बध्यते" इति कचिरपाठः । परं सन ग्रन्थकदभिमत इति भाति ।

[^
.] एतच्च क्वचित् मुद्रितपुस्तके नास्ति । [^.] विविधं लिङर्थभूतं विधिस्वरूपं शास्त्रकारैरेवं निरूपितम्–

(१) वैयाकरणेषु-विधिनिमन्त्रणामन्त्रणाषीष्टसंप्रश्न प्रार्थनारूपाः षडर्था लिङः इति भगवान्पाणिनिः ।

(२) विध्यादिषु चतुर्ष्वनुगतं प्रवर्तनात्वम्, संप्रश्नप्रार्थने च लिर्थ इति वाक्यपदीयकाराः।