This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनीव्याख्या संवलितः
 
१७७
 
निषिद्धयमानस्थानर्थहेतुत्वमिति दिक् । तत्सिवं निषेधानां पुरुषार्थानुव

न्धित्वम् ।
 

 
एवं सर्वस्यापि वेदस्य पुरुषार्थानुबन्धित्वम् ।

प्रकृतमनुखरामः । तदेवं यथा विध्यादीनामध्ययन विध्युपात्तानां नानर्थ-

क्यम्, एवमर्थवादानामपि तदुपांत्तत्वेनानर्थक्यानुपपत्तेः स्वार्थप्रतिपादने च

प्रयोजनाभावालक्षणया प्रयोजनवदर्थपर्यवसानं वक्तव्यम् ।
 

 
( अर्थवाद निरूपणम्)
 

 
ते चार्थवादा द्विविधाः-- विधिशेषा निषेधशेषाञ्च । तत्र "वायव्यं श्वेत-

मालभेते"त्यादिविधिशेषाणां "वायुवँ क्षेपिष्टा देवेते"त्यादीनामर्थवादानां

विधेयार्थस्तावक तयार्थवस्वम् । "बर्हिषि रजतं न देय"मित्यादिनिषेधशेषाणां

 
[commentary]
 
तस्य यथाचोदनं सिद्धत्वात्, पुरुषस्तु परं प्रत्यवैतीत्याह-रांगत इति । उक्त हि

वार्तिके- "यो नाम ऋतुमध्यस्थः कलञ्जादीनि भक्षयेत् ।
 

 
न क्रतोस्तस्य वैगुण्यं यथाचोदितसिद्धितः" ॥

इति, "यदा दर्शपूर्णमासस्थोऽपि तदतिक्रमं करोति तदा बाह्यातिक्रमव

दस्य स्वयं प्रत्यवायमानं स्यात् नं कर्मफलासम्बन्धः । न हि शुद्धपुरुषधर्मैः

ऋतवः प्रत्यवयन्ति" इति च । अत्र च मूले निषिध्यमानस्यानर्थहेतु स्वमित्यनन्तरं

न तु कतोवैगुण्य मिति पूरणीयम् ।
 

 
उपक्रान्तां निषेधविषयिण कथामुपसंहरति-तदिति । एवमिति । विधीना मंशशय.

विशिष्टभावना विधायकत्वेन, अर्थवादानां विधेयप्राशस्त्य समर्पकस्वेन मन्त्राणां प्रयोगसम

वेतार्थस्मारकरवेन, नामधेयानां विधेयार्थपरिच्छेदकतया निषेधानां श्रनिष्ठजनकी भूतात्

कर्मणो निवर्तकस्वेनेत्येवंप्रकारेणेत्यर्थः । पुरुषार्थानुषन्धित्वमिति । पुरुषार्थः फलं स्व-

र्गादि, अनिष्टपरिहारो वा, तत्सम्बन्धित्व मित्यर्थः ।
 

 
.
 

 
प्रकृतमिति । एतावता विधिमन्त्रनामधेयनिषेधानां प्रयोजनवदर्थपर्यवसायित्वं निरू

पितम् । अर्थवादानां तु तदवशिष्टम्, तन्निरूपणमेव प्रकृतम्, तदेव निरूपयाम इत्यर्थः ।

तदेव स्पष्टयति - तदेवमिति । विध्यादीनां विधिमन्त्रनामधेयनिषेधानाम् । तदु

पात्तत्वेन अध्ययन विध्युपात्तत्वेन । मास्त्वानर्थक्यम्, तावता लक्षणायां किं प्रमाणम् ?

स्वार्थप्रतिपादनेनैव तेषां कृतार्थस्वात, यत आह - स्वार्येति । स्वशक्यार्थप्रतिपादन

इत्यर्थः । प्रयोजनाभावादिति । ततः प्रवृत्तिनिवृत्योरनुयादिति भावः ।
 

 
(अर्थवाद निरूपणम् )
 

 
·
 

 
अर्थवादान् विभजते - ते चेति । के विधिशेषाः ? के वा निषेधशेषाः ? तानुपपाद-

यति-तत्रेति । वायव्यमिति । अत्रालभतिघातुर्लक्षण या यागपरः, द्वितीया च तृतीयार्थे ।

वायुदेवताकेन श्वेतगुणकपशुद्रव्येण यागेन भूतिमैश्वर्ये भावयेदिति वाक्यार्थः । वायुर्वा

इति । वैशब्दः प्रसिद्धौ, वायुः क्षेपिष्ठा क्षिप्रगामिनी देवता खलु। यजमानः स्वेन हविषा

वायुसमीपं गच्छति चेत् वायुमाराघयति चेदिति यावत् । स वायुः एनं यजमानं भूति

प्रापयत्येवेत्यर्थः । अर्थवत्वमिति । प्रयोजनवत्वमित्यर्थः । निषेषशेषार्थवादमुदाहरति-

बर्हिषोति । बर्हिश्शब्देन तद्विशिष्टो यागो लक्ष्यते । बर्हिषि यागे रजतं दक्षिणात्वेन न
२३ मो० न्या०