This page has been fully proofread once and needs a second look.

नानर्थहेतुत्वम्, उभयोरपि विधिप्रतिषेधयोंः क्रत्वर्थस्योः क्रत्वर्थत्वात् । यत्रे। यत्र तु न
विकल्पः, प्रातिश्च रागतः, प्रतिषेधश्च पुरुषार्थः, तत्र निषिध्यमानस्यानर्थ-
हेतुत्वम्, यथा-कलक्षभक्षणस्थं
 
'दीक्षितो न ददाति, न जुहोती 'त्यादिषु तु दानहोमादीनां शास्त्रप्राप्ता.-
वपि पुरुषार्थत्वेन प्राप्तत्वात् क्रत्वर्थत्वेन च प्रतिषेधात् तुल्यार्थत्वाभावेन
विकल्पाप्रसक्तावपि न तेषामनर्थहेतुत्वम्, ज्ञरागतः प्राप्त्यभावात् । रागतः
प्राप्तस्यापि क्रत्वर्थत्वेन प्रतिषेधे तदनुष्ठानात् क्रतोर्वैगुण्यम्, नानर्थोत्पत्तिः,
यथा-हवस्ज्स्वस्त्र्युपगमनादिप्रतिषेधे । रागतः प्राप्तस्य पुरुषार्थत्वेन प्रतिषेधे
 
[commentary]
 
तत्रेत्यर्थः । अन्यथा निषेधस्य सामान्यविषयत्वे विधेश् विशेषविषयत्वे तत्र विकल्पो न
स्यात्, यथा 'न हिंस्यात् सर्वा भूतानि' 'अग्नीषोमीयं पशुमालभेते 'त्यत्र न
विकल्प इति भावः । विधेस्सामान्यविषयत्वे निषेधस्य विशेषविषयत्वे तु विशेषस्थलेsपि
निषेसिध्यर्थेथं प्राप्तेरावश्यकतया विकल्पो भवत्येव, यथा "न तोतौ पशौ करोति'' इत्यपि
हृदयम् । यत्र तु तुल्यार्थतायामपि तुल्यबलत्वं नास्ति तत्र निषेण्ध्यस्यानिष्टजनकतास्त्येवे-
त्याह-
- यत्र स्विति
यत्र त्विति। पुरुषार्थ इति । पुरुषनिष्ठप्रत्यवायपरिहारोद्देश्यक प्रवृत्तिमत्त्वं
निषेधानां पुरुषार्थत्वम् । अनर्थहेतुत्वमिति । नरकादिरूपानिष्टजनकत्वमित्यर्थः । एवं
प्रतिषेधस्वीकारेऽपि यत्र विकल्पाप्रसक्तिः तत्रापि प्रतिषेधाश्रयणम् यथोक्तं पार्थसारथि-
मिश्रै:रैः- यदा च प्रतिषेधपक्षेऽप्यविकरूल्पः, तदा श्रुत्यर्थलिप्सया प्रकरणानुजिघृ
-
क्ष
या च प्रतिषेधत्वमेव न्याय्यमिति
 
>

 
एवं रागतः प्राप्तानां पुरुषार्थतया निषेधे तेषामनर्थ हेतुतामुक्खात्वा इदानीं पुरुषार्थंतया
प्राप्तानां क्रत्वर्थतया निषेधे न तत्रानर्थहेतुतेत्याह- दीक्षित इति । सौमिकीं दीक्षां
प्राप्तो यजमानः यावद्दीक्षाविमोकं पुरुषार्थ दानानि[^१] क्रतुमध्यपतिनानि न कुर्यात्,
एवं पुरुषार्थहो मान मिग्निहोत्रादीन् न कुर्यादिश्त्यर्थः । पुरुषार्थत्वेनेति । स्वयंप्रार्थितवृत्त्यु-
द्देश्यतानिरूपितविधेयताकत्वं पुरुषार्थत्वम्, स्वयंप्रार्थित भिन्न नृवृत्युद्देश्यतानिरूपितविधेय-
ताकत्वं च क्रत्वर्थंमिति तयोर्लक्षणम् । अत्र चोद्देश्यताविधेयते स्वरूपसम्बन्धरूप विषय-
ताविशेषरूपे । न तु साध्यत्वानुष्ठेयत्वरूपे । एवञ्चेदं लक्षणं विधिनिषेधस्थलयोरुभयत्रापि
सङ्गतं भवतीति बोध्यम् । तुल्यार्थत्वाभावेन एकार्थत्वाभावॆन वेन। तेषां दानहोमादीनाम्
कुतो नानर्थ हेतुत्वम् ? अत आह- -रागेति । अनिष्टजनकीभूते व्यापारे रागेण तदभा-
ववत्ताभ्रमसम्पादनद्वारा प्रवृत्तिजननेऽपि शास्त्रेण तथा कर्तुमशक्यत्वादिति भावः
स्वस्त्रीति । स्वरू। स्वस्त्र्युपगमनं च पुरुषमात्रस्य रागतः प्राप्तम् । दर्शपूर्णमासप्रकरणे च 'न
स्त्रियमुपेयात्' इति तस्य निषेधः क्रियते । एवञ्च रागतः प्राप्तस्य तस्य क्रत्वर्थतया
निषेधात् क्रतुमध्ये तदनुष्ठाने क्रतोर्वैगुण्यं, न तु पुरुषः प्रत्यवेयादिति भावः । एवं रागतः
प्राप्तस्य पुरुषार्थतया निषेधे क्रतुमध्ये तादृशनिषेध्यानुष्ठानेऽपि न क्रतोस्तेन वैगुण्यम्,
 
[^१] यत्वत्र महामहोपाध्यायाभ्यंकर वासुदेवशास्त्रिमहोदयैः न्यायप्रकाशव्याख्यायां प्रभाख्यायां
प्रसङ्गात् यज्ञाङ्गं दक्षिणादानं तु दीक्षासमाप्त्यनन्तरं क्रियते इत्युक्तम् । तदनवधानात् । सुत्यादिने
माध्यन्दिनसनन एव दक्षिणादानविधानात् अवभृथान्तरमेव च दीक्षासमा प्तेः ग्रन्थेषूक्तत्वाच्च