This page has not been fully proofread.

१७६
 
मीमांसान्यायप्रकाशः
 
[ प्रतिषेध-
नानर्थहेतुत्वम्, उभयोरपि विधिप्रतिषेधयोंः क्रत्वर्थस्वात् । यत्रे तु न

विकल्पः, प्रातिश्च रागतः, प्रतिषेधश्च पुरुषार्थः, तत्र निषिध्यमानस्यानर्थ-

हेतुत्वम्, यथा-कलक्षभक्षणस्थं ।
 

 
'दीक्षितो न ददाति, न जुहोती त्यादिषु तु दानहोमादीनां शास्त्रप्राप्ता.

वपि पुरुषार्थत्वेन प्राप्तत्वात् क्रत्वर्थत्वेन च प्रतिषेधात् तुल्यार्थत्वाभावेन

विकल्पाप्रसक्तावपि न तेषामनर्थहेतुत्वम्, ज्ञगतः प्राप्त्यभावात् । रागतः

प्राप्तस्यापि क्रत्वर्थत्वेन प्रतिषेधे तदनुष्ठानात् ऋतोर्वैगुण्यम्, नानर्थोत्पत्तिः,

यथा-हवस्ज्युपगमनादिप्रतिषेधे । रागतः प्राप्तस्य पुरुषार्थत्वेन प्रतिषेधे
 
,
 
,
 

 
[commentary]
 
तत्रेत्यर्थः । अन्यथा निषेधस्य सामान्यविषयत्वे विधेश्य विशेषविषयत्वे तत्र विकल्पो न

स्यात् यथा 'न हिंस्यात् सर्वा भूतानि' 'अग्नीषोमीयं पशुमालभेते त्यत्र न

विकल्प इति भावः । विधेसामान्यविषयत्वे निषेधस्य विशेषविषयत्वे तु विशेषस्थलेsपि

निषेघसिध्यर्थे प्राप्तेरावश्यकतया विकल्पो भवत्येव, यथा "न तो पशौ करोति'' इत्यपि

हृदयम् । यत्र तु तुल्यार्थतायामपि तुल्यबलत्वं नास्ति तत्र निषेण्यस्यानिष्टजनकतास्त्येवे-

त्याह-

- यत्र स्विति । पुरुषार्थ इति । पुरुषनिष्ठप्रत्यवायपरिहारोद्देश्यक प्रवृत्तिमत्त्वं

निषेधानां पुरुषार्थत्वम् । अनर्थहेतुत्वमिति । नरकादिरूपानिष्टजनकत्वमित्यर्थः । एवं

प्रतिषेधस्वीकारेऽपि यत्र विकल्पाप्रसक्तिः तत्रापि प्रतिषेधाश्रयणम् यथोक्तं पार्थसारथि •

मिश्रै:- यदाच प्रतिषेधपक्षेऽप्यविकरूपः, तदा श्रुत्यर्थलिप्सया प्रकरणानुजिघृ

तया च प्रतिषेधत्वमेव न्याय्यमिति ।
 

 
>
 

 
एवं रागतः प्राप्तानां पुरुषार्थतया निषेधे तेषामनर्थ हेतुतामुक्खा इदानीं पुरुषार्थंतया

प्राप्तानां क्रत्वर्थतया निषेधे न तत्रानर्थहेतुतेत्याह- दीक्षित इति । सौमिकीं दीक्षां

प्राप्तो यजमानः यावद्दीक्षाविमोकं पुरुषार्थ दानानि ([^)] क्रतुमध्यपतिनानि न कुर्यात्,

एवं पुरुषार्थहो मान मिहोत्रादीन् न कुर्यादिश्यर्थः । पुरुषार्थत्वेनेति । स्वयंप्रार्थितवृत्यु-

द्देश्यतानिरूपितविधेयताकत्वं पुरुषार्थत्वम्, स्वयंप्रार्थित भिन्न नृत्युद्देश्यतानिरूपितविधेय

ताकत्वं च क्रत्वर्थंमिति तयोर्लक्षणम् । अत्र चोद्देश्यताविधेयते स्वरूपसम्बन्धरूप विषय-

ताविशेषरूपे । न तु साध्यत्वानुष्ठेयत्वरूपे । एवञ्चेदं लक्षणं विधिनिषेधस्थलयोरुभयत्रापि

सङ्गतं भवतीति बोध्यम् । तुल्यार्थत्वाभावेन एकार्थत्वाभावॆन । तेषां दानहोमादीनाम् ।

कुतो नानर्थ हेतुत्वम् ? अत - रागेति । अनिष्टजनकीभूते व्यापारे रागेण तदभा-

ववत्ताभ्रमसम्पादनद्वारा प्रवृत्तिजननेऽपि शास्त्रेण तथा कर्तुमशक्यत्वादिति भावः ।

स्वस्त्रीति । स्वरूयुपगमनं च पुरुषमात्रस्य रागतः प्राप्तम् । दर्शपूर्णमासप्रकरणे च 'न

स्त्रियमुपेयात्' इति तस्य निषेधः क्रियते । एवञ्च रागतः प्राप्तस्य तस्य क्रत्वर्थतया

निषेधात् ऋतुमध्ये तदनुष्ठाने क्रतोर्वैगुण्यं, न तु पुरुषः प्रत्यवेयादिति भावः । एवं रागतः

आप्तस्य पुरुषार्थतया निषेधे क्रतुमध्ये तादृशनिषेध्यानुष्ठानेऽपि न क्रतोस्तेन वैगुण्यम्,
 

 
[^
.] यत्वत्र महामहोपाध्यायाभ्यंकर वासुदेवशास्त्रिमहोदयैः न्यायप्रकाशव्याख्यायां प्रभाख्यायां

प्रसङ्गात् यज्ञाङ्गं दक्षिणादानं तु दीक्षासमाप्त्यनन्तरं क्रियते इत्युक्तम् । तदनवधानात् । सुत्यादिने

माध्यन्दिनसनन एव दक्षिणादानविधानात् अवभृथान्तरमेव च दीक्षासमा प्तेः ग्रन्थेषूक्तत्वाच्च ।