This page has been fully proofread once and needs a second look.

गृहाह्णाती"ति शास्त्रप्राप्तमतिरात्रे षोडशिग्रहणं प्रतिषिध्यत इति विहितप्रतिषि:
-
द्ध
त्वाद्विकल्पप्रसक्तावपि पर्युदासो[^१] नाश्रीयते, अशक्यत्वात् । यदि ह्यत्र
नञः षोडशिपदेन सम्बन्धः स्वीक्रियेत तदाऽतिरात्रे षोडशिव्यतिरिक्तं
गृह्णातीति वाक्यार्थः स्यात्, तत्र चा तिराने'तिरात्रे षोडशिनं गृह्णाती'ति प्रत्यक्ष-
विधिविरोधः । अत एवातिरात्रपदेन न नञः सम्बन्धः, 'तिरात्रे षोडशिनं
गृह्णाती'ति प्रत्यक्ष विधिविरोधात्
 
श्र

 
तश्चात्र पर्युदासस्यानुपपत्तेर्निषेध एव स्वीक्रियते, विकल्पोऽपि स्वी-
क्रियते । अनन्यगतेः । अतश्चैतत्सिद्धम् - -यत्र 'तस्य व्रत'मित्याचुद्युपक्रमः
विकल्पप्रसक्तिश्च नास्ति तत्र प्रतिषेधः, यथा न कलक्षंञ्जं भक्षयेदिति, यत्र वा
विकल्पप्रसक्तावपि पर्युदास आश्रयितुं न शक्यते तत्र प्रतिषेधः, यथा नाति-
रात्रे षोडशिनं गृह्णातीति
 
एतावांस्तु विशेषः-यत्र विकल्पापादकः प्रतिषेधः, तत्र प्रतिषिध्यमानस्य
 
[commentary]
 
व्युत्पत्तिः । याश्चान्यास्तिस्रस्संस्थाः त्यअत्यग्निष्टोमवाजपेयाप्तोर्यामरूपाः ता प्रप्यत्रैवान्त-
र्भूताः । यत्राग्निँनिष्टोमोत्तरं उक्थ्यस्तोत्राण्यकृत्वा षोडशिस्तोत्रं क्रियते साग्निष्टोमसंस्थैवात्य-
ग्निष्टोमपदवाच्या । यथावस्थितषोडश्युत्तरं यत्र वाजपेयाख्यं स्तनंतोत्रं क्रियते सा वाजपेय-
संस्था । यत्रातिरात्रे चतुर्थो रात्रि पर्यायो वर्धते साडसोऽप्तोर्यामसंस्था । तत्र चाग्निष्टशेमसंस्थाया
नित्यत्वं काम्यत्वं च संयोगपृथक्त्वन्यायात् । अन्यास्तूक्थ्यादयः केवलं काम्याः। अनात्राग्नि-
ष्टोमादिशब्दानां प्रचुर प्रयोगात् तत्तत्संस्थास्चेवेव शक्तिः, तादृशसंस्थावति ज्योतिष्टोमे निरू-
ढलक्षणां, तद्वति क्रत्वन्तरे च साम्प्रतिकी, प्ग्रहणे स्तोत्रे च गौणीति । एवञ्च प्रकृते प्रतिरा-
अतिरा-
त्र
शब्देन तत्संस्थाको ज्योतिष्टोमोऽभिधीयते । षोडशिपदेन च षोडशिग्रह इति बोध्यम्
 
पर्युदासाश्रयणाशक्यतामेव विवृणोति-त्र हीति । नातिरात्र इति वाक्य इत्यर्थः
नन्वत्र षोडशिपदेन नञस्सम्बन्धमङ्गीकृत्य नानूयाजेष्वितिवत् पर्युदासाङ्गीकरणे को
दोषः ? अत श्राह- यदीति । अत इति । उपपादितरीत्येत्यर्थः । अत्र नातिरात्र इति
वाक्ये । एवञ्च पूर्वोक्तयोः पर्युदास हेत्वोरभावे, विकल्पप्रसक्तावपि पर्युदासाश्रयणाशक्यत्वे
च, निषेध एवेति सिद्धं निगमयति-अतश्चेति । न कलञ्जमिति । कलअंञ्जं रक्तलशुनम्,
तन्न भक्षयेदित्यर्थः । यत्त्वत्र 'विषदिग्धबाणहतमृगमांसं लञ्जमित्युच्यते' इति कैश्चित्
कलञ्जपदं व्याख्यातं प्रमाणीकृतञ्च निघण्टुवाक्यमपि, तच्चिन्त्यमेव आपस्तम्बधर्मसूत्रे
"कलञ्जपलाण्डुपारीरकाः" इति सूत्रस्थकलजपदस्य कलञ्जं, रक्तलशुनं, इत्येव हर-
दत्तेन व्याख्यातस्वात् त्वात्। वीरमित्रोदये चाहिह्निकप्रकाशे श्रमदअभक्ष्यनिरूपणप्रकरणे पूर्वोक्मे
वार
-
वाप
स्तम्बसूत्रमुदाहृत्य कलअं रञ्जं रक्तलशुनं इत्येवोत्तत्वातक्तत्वात् विषदिग्धबाण हृतमृगमांसस्य
विषसंसृष्टत्वेन विषसंपृक्तान्नवत् पुरुषस्य स्वत एव तत्रानिष्टसाधनताज्ञानात् प्रवृत्तेरेवानु
दयेन निषेधवैयर्थ्यात्
 

 
यद्येवं कलञ् भक्षण निषेधषोडशिप्ग्रहण निषेधयोस्साग्म्यं तर्हि अतिरात्राधिकरण कषोड.-
शिप्ग्रहण स्याप्यनर्थ हेतुत्तुतापत्तौ कदाचिदपि तत्र पुरुषप्रवृत्तेरनुदयात् तद्विधिवैयर्थ्यापत्ति-
रियत - -एतावानिति । विकल्पापादक इति । यत्र विधिनिषेधयोरेकार्थत्वं
 
[^१] दास श्रा ।आ।