This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनीव्याख्यासंवलितः
 
१७५
 
गृहातीति शास्त्रप्राप्तमतिरात्रे षोडशिग्रहणं प्रतिषिध्यत इति विहितप्रतिषि:

इत्वाद्विकल्पप्रसक्तावपि पर्युदासो ([^)] नाश्रीयते, अशक्यत्वात् । यदि ह्यत्र

नञः षोडशिपदेन सम्बन्धः स्वीक्रियेत तदाऽतिरात्रे षोडशिव्यतिरिक्तं

गृह्णातीति वाक्यार्थः स्यात्, तत्र चा तिराने षोडशिनं गृह्णाती'ति प्रत्यक्ष-

विधिविरोधः । अत एवातिरात्रपदेन न नञः सम्बन्धः, 'मतिरात्रे षोडशिनं

गृह्णातीति प्रत्यक्ष विधिविरोधात् ।
 

 
श्रतश्चात्र पर्युदासस्यानुपपत्तेनिषेध एव स्वीक्रियते, विकल्पोऽपि स्वी-

क्रियते । अनन्यगतेः । अतश्चैतत्सिद्धम् - यत्र 'तस्य व्रत'मित्याचुपक्रमः

विकल्पप्रसक्तिश्च नास्ति तत्र प्रतिषेधः, यथा न कलक्षं भक्षयेदिति, यत्र वा

विकल्पप्रसक्तावपि पर्युदास आश्रयितुं न शक्यते तत्र प्रतिषेधः, यथा नाति-

रात्रे षोडशिनं गृह्णातीति ।
 

 
एतावांस्तु विशेषः-यत्र विकल्पापादकः प्रतिषेधः, तत्र प्रतिषिध्यमानस्य

 
[commentary]
 
व्युत्पत्तिः । याश्चान्यास्तिस्रस्संस्थाः त्यनिष्टोमवाजपेयातोर्यामरूपाः ता प्रप्यत्रैवान्त-

र्भूताः । यत्राग्निँटोमोत्तरं उक्थ्यस्तोत्राण्यकृत्वा षोडशिस्तोत्रं क्रियते साग्निष्टोमसंस्थैवात्य-

ग्निष्टोमपदवाच्या । यथावस्थितषोडश्युत्तरं यत्र वाजपेयाख्यं स्तनं क्रियते सा वाजपेय-

संस्था । यत्रातिरात्रे चतुर्थो रात्रि पर्यायो वर्धते साडसोर्यामसंस्था । तत्र चाग्निष्टशेमसंस्थाया

नित्यत्वं काम्यत्वं च संयोगपृथक्त्वन्यायात् । अन्यास्तूक्थ्यादयः केवलं काम्याः। अनाग्नि-

टोमादिशब्दानां प्रचुर प्रयोगात् तत्तत्संस्थास्चेव शक्तिः, तादृशसंस्थावति ज्योतिष्टोमे निरू-

ढलक्षणां, तद्वति ऋत्वन्तरे च साम्प्रतिकी, प्रहणे स्तोत्रे च गौणीति । एवञ्च प्रकृते प्रतिरा-

शब्देन तत्संस्थाको ज्योतिष्टोमोऽभिधीयते । षोडशिपदेन च षोडशिग्रह इति बोध्यम् ।
 

 
पर्युदासाश्रयणाशक्यतामेव विवृणोति-नत्र हीति । नातिरात्र इति वाक्य इत्यर्थः ।

नन्वत्र षोडशिपदेन नञस्सम्बन्धमङ्गीकृत्य नानूयाजेष्वितिवत् पर्युदासाङ्गीकरणे को

दोषः ? अत श्राह- यदीति । अत इति । उपपादितरीत्येत्यर्थः । अत्र नातिरात्र इति

वाक्ये । एवञ्च पूर्वोक्तयोः पर्युदास हेत्वोरभावे, विकल्पप्रसक्तावपि पर्युदासाश्रयणाशक्यत्वे

च, निषेध एवेति सिद्धं निगमयति-अतश्चेति । न कलञ्जमिति । कलअं रक्तलशुनम्,

तन्न भक्षयेदित्यर्थः । यत्त्वत्र 'विषदिग्धबाणहतमृगमांसं फलञ्जमित्युच्यते' इति कैचित्

कलञ्जपदं व्याख्यातं प्रमाणीकृतञ्च निघण्टुवाक्यमपि, तच्चिन्त्यमेव आपस्तम्बधर्मसूत्रे

"कलञ्जपलाण्डुपारीरकाः" इति सूत्रस्थकलजपदस्य कलञ्ज, रक्तलशुनं, इत्येव हर-

दत्तेन व्याख्यातस्वात् । वीरमित्रोदये चाहिकप्रकाशे श्रमदयनिरूपणप्रकरणे पूर्वोक्कमे •

वारस्तम्बसूत्रमुदाहृत्य कलअं रतलशुनं इत्येवोत्तत्वात विषदिग्धबाण हृतमृगमांसस्य

विषसंसृष्टत्वेन विषसंपृक्तान्नवत् पुरुषस्य स्वत एव तत्रानिष्टसाधनताज्ञानात् प्रवृत्तेरेवानु

दयेन निषेधवैयर्थ्यात् ।
 

 

 

 
यद्येवं कलज भक्षण निषेधषोडशिप्रहण निषेधयोस्साग्यं तर्हि अतिगत्राधिकरण कषोड.

शिप्रहण स्याप्यनर्थ हेतुत्तापत्तौ कदाचिदपि तत्र पुरुषप्रवृत्तेरनुदयात् तद्विधिवैयर्थ्यापत्ति

रियत - एतावानिति । विकल्पापादक इति । यत्र विधिनिषेधयोरेकार्थत्वं
 

 
[^
.] दास श्रा ।
 
>