This page has been fully proofread once and needs a second look.

वा ? माघेआद्ये अनारम्याधीतसाप्तदश्यस्य मित्रविन्दादिप्रकरणस्थेन वाक्येनो-
पसंहारो न स्यात्, आग्नेये सोचाभावात् । द्वितोये चतुर्धाकरणस्य पुरो
डाशमात्रे प्राप्तस्याग्नेये सङ्कोचवदनूयाजाननूवाजसाधारण्येन प्राप्तस्थाननू-
याजेषु सङ्कोचादुपसंहारः स्यादेव ।
 
एतावांस्तु विशेष:- श्राग्नेयादिवाक्येषु श्राग्नेयादयो विशेषाः स्वपदोप-
स्थापिताः प्रकृते तु पर्युदासेन तस्योपस्थितिरिति । उपसंहारन्यायस्त्ववि
शिष्ट एव ।
 
यच्च तदन्यमात्रसङ्कोचनार्थस्वात्पर्युदासस्येति । तन्न, 'नेक्षेते'त्यत्र
सत्यपि पर्युदाले
सङ्कोचाभावात् । द्वितोये चतुर्धाकरणस्य पुरो-
डाशमात्रे प्राप्तस्याग्नेये सङ्कोचवदनूयाजाननूयाजसाधारण्येन प्राप्तस्याननू-
याजेषु सङ्कोचादुपसंहारः स्यादेव।
 
एतावांस्तु विशेष:-आग्नेयादिवाक्येषु आग्नेयादयो विशेषाः स्वपदोप-
स्थापिताः प्रकृते तु पर्युदासेन तस्योपस्थितिरिति। उपसंहारन्यायस्त्ववि-
शिष्ट एव।
 
यच्च तदन्यमात्रसङ्कोचनार्थत्वात्पर्युदासस्येति। तन्न, 'नेक्षेते'त्यत्र
सत्यपि पर्युदासे सङ्कोचाभावात्
। नात्र सामान्ये प्राप्तं तदन्यमात्रे सङ्को.-
च्यते, संकल्पमात्रविधानादित्युक्तमित्यास्तां तावत् । तत्सिद्धं 'नानूयाजेष्वि'.-
त्यत्र विकल्प प्रसक्त्या पयुंप्रसक्त्या पर्युदासाश्रयणमिति
 
यत्र तु स माश्रयितुं न शक्यते तत्र तत्प्रसक्तावपि निषेध एवाश्नीरीयते,
यथा-' नातिरात्रे षोडशिनं गृह्णाती" त्यत्र । [^१] अत्र हि "अतिरात्रे षोडशिनं
 
[commentary]
 
ग्नेयमात्रपरामर्शकः ? उत सर्वोदाहरणगतान् सर्वानपि विशेषान् परामृशति ? इति संशयप-
दार्थः । श्रा। आद्य इति । तन्मात्र इति तच्छब्देनाग्नेयव्यक्तिमात्रमादाय तत्र लक्षणसमन्वय-
करणपक्ष इत्यर्थः। साप्तदश्यस्येति दर्शपूर्णमासीयसामिधेनीगतसंख्या विशेषस्य पूर्वविचा-
रितस्य परामर्शः । मित्रविन्दापदार्थोऽपि पूर्वमुक्तः । द्वितीय इति । सामान्यतः प्राप्तस्य
विशेषे सङ्कोचनरूपे द्वितीयस्मिन् पक्ष इत्यर्थः । स्यादेवेति । सामान्यप्राप्तस्य विशेषे
विशेषे
सङ्को.-
चनरूपस्योपसंहारलक्षणस्य तत्र सत्वादिति भावः
 
यद्येवं 'आग्नेयं चतुर्धा करोती'ति 'नानूयाजे ब्ष्वित्यनेन तुल्यमेव, तत्राह-
एतावानिति । एवं 'नानूयाजेष्वि'त्यत्रोपसंहारास्तितां प्रसाध्य परोक्षं पर्युदासलक्षणं
खण्डयति--यच्चेति । प्रकृतमुपसंहरति - --तत्सिद्धमिति
 
-
 
मोमांसान्यायप्रकाशः

 
ननु एतावता लक्षणापादकतया निषेधापेक्षया गुरुभूतोऽपि पर्युदासः विकल्पप्रसक्त्यैःयै-
वाश्रित इत्युक्तं भवति । यत्र तु निषेधाश्रयणे विकल्पः प्रसज्यते, पर्युदासस्तु नाश्रयितुं
शक्यते, तत्र का गतिरित्याशङ्कायामाह - यत्र त्विति --यत्र त्विति। सः पर्युदासः । तत्प्रसक्ता-
वपि विकलाप्रसक्तावपि । नातिरात्र इति । अतिरात्र संस्था के ज्योतिष्टोंटोमे षोडशिसंज्ञकं
ग्रहं गृह्णीयादित्यर्थः । अत्रेयं परिस्थितिः - --ज्योतिष्ठोटोमो नाम सोमयागः । तस्य चत-
स्रस्संस्थाः – श्र--अग्निष्ठोटोमः , उक्थ्यः, षोडशी, अतिरात्रश्चेति । संस्था नाम क्रतुप्रयोगवृ-
त्तिस्तोत्रोपरमः । स्तोत्रं नाम प्रगीतमन्त्रसाध्यगुणिनिष्ठगुणाभिधानमुद्गातृगणेन क्रियमा-
गामित्युक्तम् । एवञ्च येन स्तोत्रेण ऋतुप्रयोगस्समाप्यते तेनैव स्तोत्रेण सा संस्था व्यप-
दिश्यते । ज्योतिष्टोमे चाग्निष्टोमसंस्था केऽग्निष्टोमस्तोत्रमन्त्यम् । तदुपरि न स्तोत्रमस्ति
उक्थ्ये चामिग्निष्टोमस्तोत्रानन्तरमुक्थ्यस्तोत्रम् । तदेव च तत्रान्त्यम् । षोडशिनि चोक्थ्या.-
नन्तरं षोडशिस्तोत्रम् । तदेव च तत्रान्त्यम् । अतिरात्रे च षोडशिस्तोन्त्रानन्तरं त्रयोंयो
रात्रि पर्यायाः स्तोत्रविशेषाः, आश्विनस्तोत्रं च । रात्रिमतीत्य समाप्यत इति तस्य

 
[^१] नातिरात्रे