2023-05-11 07:29:23 by Veera Raagavan
This page has not been fully proofread.
पसंहारो न स्यात्, आग्नेये सोचाभावात् । द्वितोये चतुर्धाकरणस्य पुरो
डाशमात्रे प्राप्तस्याग्नेये सङ्कोचवदनूयाजाननूवाजसाधारण्येन प्राप्तस्थाननू-
याजेषु सङ्कोचादुपसंहारः स्यादेव ।
एतावांस्तु विशेष:- श्राग्नेयादिवाक्येषु श्राग्नेयादयो विशेषाः स्वपदोप-
स्थापिताः प्रकृते तु पर्युदासेन तस्योपस्थितिरिति । उपसंहारन्यायस्त्ववि
शिष्ट एव ।
यच्च तदन्यमात्रसङ्कोचनार्थस्वात्पर्युदासस्येति । तन्न, 'नेक्षेते'त्यत्र
सत्यपि पर्युदाले सङ्कोचाभावात् । नात्र सामान्ये प्राप्तं तदन्यमात्रे सङ्को.
च्यते, संकल्पमात्रविधानादित्युक्तमित्यास्तां तावत् । तत्सिद्धं 'नानूयाजेष्वि'.
त्यत्र विकल्प प्रसक्त्या पयुंदासाश्रयणमिति ।
यत्र तु स माश्रयितुं न शक्यते तत्र तत्प्रसक्तावपि निषेध एवाश्नीयते,
यथा-' नातिरात्रे षोडशिनं गृह्णाती" त्यत्र ।
[commentary]
ग्नेयमात्रपरामर्शकः ? उत सर्वोदाहरणगतान् सर्वानपि विशेषान् परामृशति ? इति संशयप-
दार्थः । श्राद्य इति । तन्मात्र इति तच्छब्देनाग्नेयव्यक्तिमात्रमादाय तत्र लक्षणसमन्वय
करणपक्ष इत्यर्थः। साप्तदश्यस्येतिदर्शपूर्णमासीयसामिधेनीगतसंख्या विशेषस्य पूर्वविचा
रितस्य परामर्शः । मित्रविन्दापदार्थोऽपि पूर्वमुक्तः । द्वितीय इति । सामान्यतः प्राप्तस्य
विशेषे सङ्कोचनरूपे द्वितीयस्मिन् पक्ष इत्यर्थः । स्यादेवेति । सामान्यप्राप्तस्य विशेषे
विशेषे सङ्को.
चनरूपस्योपसंहारलक्षणस्य तत्र सत्वादिति भावः ।
यद्येवं 'आग्नेयं चतुर्धा करोती'ति 'नानूयाजे ब्वित्यनेन तुल्यमेव, तत्राह-
एतावानिति । एवं 'नानूयाजेष्वि'त्यत्रोपसंहारास्तितां प्रसाध्य परोक्षं पर्युदासलक्षणं
खण्डयति – यच्चेति । प्रकृतमुपसंहरति - तत्सिद्धमिति ।
-
मोमांसान्यायप्रकाशः
6
–
ननु एतावता लक्षणापादकतया निषेधापेक्षया गुरुभूतोऽपि पर्युदासः विकल्पप्रसक्त्यैः
वाश्रित इत्युक्तं भवति । यत्र तु निषेधाश्रयणे विकल्पः प्रसज्यते, ।पर्युदासस्तु नाश्रयितुं
शक्यते, तत्र का गतिरित्याशङ्कायामाह - यत्र त्विति । सः पर्युदासः । तत्प्रसक्ता-
वपि विकलाप्रसक्तावपि । नातिरात्र इति । अतिरात्र संस्था के ज्योतिष्टोंमे षोडशिसंज्ञकं
ग्रहं गृह्णीयादित्यर्थः । अत्रेयं परिस्थितिः - ज्योतिष्ठोमो नाम सोमयागः । तस्य चत-
स्रस्संस्थाः – श्रग्निष्ठोमः, उक्थ्यः, षोडशी, अतिरात्रश्चेति । संस्था नाम क्रतुप्रयोगवृ-
त्तिस्तोत्रोपरमः । स्तोत्रं नाम प्रगीतमन्त्रसाध्यगुणिनिष्ठगुणाभिधानमुद्गातृगणेन क्रियमा-
गामित्युक्तम् । एवञ्च येन स्तोत्रेण ऋतुप्रयोगस्समाप्यते तेनैव स्तोत्रेण सा संस्था व्यप-
दिश्यते । ज्योतिष्टोमे चाग्निष्टोमसंस्था केऽग्निष्टोमस्तोत्रमन्त्यम् । तदुपरि न स्तोत्रमस्ति ।
उक्थ्ये चामिष्टोमस्तोत्रानन्तरमुक्थ्यस्तोत्रम् । तदेव च तत्रान्त्यम् । षोडशिनि चोक्थ्या.
नन्तरं षोडशिस्तोत्रम् । तदेव च तत्रान्त्यम् । अतिरात्रे च षोडशिस्तोन्त्रानन्तरं त्रयों
रात्रि पर्यायाः स्तोत्रविशेषाः, आश्विनस्तोत्रं च । रात्रिमतीत्य समाप्यत इति तस्य
[^१