This page has been fully proofread once and needs a second look.

अन्ये तु- उपसंहारो नाम सामान्यतः प्राप्तस्य विशेषे सङ्कोचनरूपो
व्यापार विशेषो विधेः । पर्युदासस्तु-
पर्युदासः स विज्ञयो यत्रोत्तरपदेन नञ्
इत्यभियुक्कोक्त्यातोक्त्या प्रत्ययातिरिक्तेन धातुना नाम्ना वा नञः सम्बन्धः
अतश्चानयोस्तावत् स्वरूपतः स्पष्ट एव मेभेदः
 
एवं सत्यप्यभेद आशाङ्कघेक्येत, यदि यत्र पर्युदासस्तत्रावश्यमुपसंहारः
स्यात् । न चैतदस्ति । 'नेक्षेतोद्यन्त'मित्यादौ सत्यपि तस्मिन्नुपसंहारा-
भावात् । नहिं। नहि तत्राग्नेयचतुर्द्धाकरणमिव सामान्ये प्राप्तं किञ्चिद्विशेषे सङ्को-
च्यते । पापक्षयोद्देशेनानीक्षणसंकल्पमात्रविधानात्
 
प्रकृतोदाहरणे तु यजिलासामान्ये प्राप्तस्य येयजामहस्यानूयाजव्यतिरिक्तेषु
सङ्कोचनात् यदि विधेरुपसंहारविधित्वं संभवति, नैतावता किञ्चिद्विरुध्यते
विध्यभावे हि कथं विधिकार्यमुपसंहारः पर्युदासेन क्रियत इति भवति
विरोधः । न चात्र विधिर्नास्ति, नञोऽनूथायाजपदसम्बन्धेन विधेर्विधायकत्व-
स्याव्याघातात् । अत्र हि पर्युदासोऽनूयाजव्यतिरिक्तविषयसमर्पकः माग्नेय-
पदवत् । उपसंहारकस्तु विधिरेव
 
न च अत्र तन्मात्रसङ्कोचा भावान्नोपसंहार इति वाच्यम् । तन्मात्रसङ्कोच
इति कोऽर्थः ? आग्नेयमात्रे सङ्कोचो वा ? सामान्य प्राप्तस्य विशेषमात्रे सङ्कोचो
 
[commentary]
 
स्वस्मिन् स्वेतर स्मिस्मिंश्च प्राप्तं विषयं स्वेतरस्मात् व्यावर्त्य स्वमात्रेऽवस्थापनमुपसंहारः
तथैव प्राप्तं विषयं स्वस्मात् व्यावर्त्य स्वेतरस्मिन् व्यवस्थापनं पर्युदास इत्यर्थः । एवञ्च
प्रकृते 'नानूयाजेष्वि' त्यनेन येयजामहं स्वस्मात् व्यावर्त्य स्वेतरस्मिन् व्यवस्थापनात्
पर्युदास एव नोपसंहार इति भावः । केचिदिति । न्यायसुधाकृत इत्यर्थः
 
न्नैत्रैव पार्थसारथिमिश्रमतमाह - -अन्य विति त्विति। प्रत्ययातिरिकेक्तेनेति । विधा-
यकप्रत्ययो यो लिङादिस्त द्भिन्नेनेत्यर्थः । स च क्वचित् धातुः, यथा 'नेक्षेते' त्यादी दौ
क्वचित् नामापि, यथा प्रकृते, तेन यः सम्बन्धः अन्वयः प्रतियोगिता सम्बन्धावच्छिन्न-
स्स स इत्यर्थः । एवञ्च विधिव्यापार उपसंहारः, धात्वादिसम्बद्धनञ्व्यापारः पर्युदास इति
तयोः स्पष्ट एव भेदः इत्याह - -अतश्चेति
 
ननु सत्यपि बोधकमेभेदे फले विशेषाभावात् किमर्थं तयोर्भेद श्राश्रीयते इत्यत
- आह-एवमिति । यदि उपसंहारः पर्युदाससमनियतः स्यात् तदानीं तयोरपृथक्भावे-
नाभेद आशङ्क्येतापीत्यर्थः । तस्मिन् पर्युदासे । सङ्कल्पमात्रेति । मात्रपदेनोपसंहा-
रव्यावृत्तिः । यद्येवं तर्हि प्रकृते कथमुभयोस्सामानाधिकरण्यम् ? अत आह-प्रकृतेति
विरुध्यत इति । विधिकार्यस्योपसंहारस्य तेनैव करणात् नामसमभिव्याहृतनञ् कार्यस्य
च पर्युदासेन करणात् न फलैक्यादिरूपो विरोध इति भावः । विरोधाभाव मेवोपपादयति-
विध्यभाव इति । श्रा। आग्नेयपदवदिति । यथा चाग्नेयपदं स्वार्थरूपं विशेषं समर्पयति,
एवं 'नानूयाजेष्वि' तिपदं स्वातिरिक्तरूपं विशेषं समर्पयतीत्यर्थः
 
तन्मात्र

 
तन्मात्र
सङ्कोचनमेवोपसंहारं मन्वानश्शङ्कते-- न चेति । अत्र नानूयाजेण्वित्यत्र ष्वित्यत्र
तमिमं पक्षं विकल्प्य दूषयति - --तन्मात्रेति । तन्मात्रेत्यत्र तच्छन्ब्दः प्रकृतोदाहरणस्था-