This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनोव्याख्या संवलितः
 
१७३
 
अन्ये तु- उपसंहारो नाम सामान्यतः प्राप्तस्य विशेषे सङ्कोचनरूपो

व्यापार विशेषो विधेः । पर्युदासस्तु-

पर्युदासः स विज्ञयो यत्रोत्तरपदेन नञ् ।

इत्यभियुक्कोक्त्या प्रत्ययातिरिक्तेन धातुना नाम्ना वा नञः सम्बन्धः ।

अतश्चानयोस्तावत् स्वरूपतः स्पष्ट एव मेदः ।
 

 
एवं सत्यप्यभेद आशाङ्कघेत, यदि यत्र पर्युदासस्तत्रावश्यमुपसंहारः

स्यात् । न चैतदस्ति । 'नेक्षेतोद्यन्त'मित्यादौ सत्यपि तस्मिन्नुपसंहारा

भावात् । नहिं तत्राग्नेयचतुर्द्धाकरणमिव सामान्ये प्राप्तं किञ्चिद्विशेषे सङ्को-

च्यते । पापक्षयोद्देशेनानीक्षणसंकल्पमात्रविधानात् ।
 

 
प्रकृतोदाहरणे तु यजिलामान्ये प्राप्तस्य येयजामहस्यानूयाजव्यतिरिक्तेषु

सङ्कोचनात् यदि विधेरुपसंहारविधित्वं संभवति, नैतावता किञ्चिद्विरुध्यते ।

विध्यभावे हि कथं विधिकार्यमुपसंहारः पर्युदासेन क्रियत इति भवति

विरोधः । न चात्र विधिर्नास्ति, नञोऽनूथाजपदसम्बन्धेन विधेर्विधायकत्व-

स्याव्याघातात् । अत्र हि पर्युदासोऽनूयाजव्यतिरिक्तविषयसमर्पकः माग्नेय-

पदवत् । उपसंहारकस्तु विधिरेव ।
 

 
न च अत्र तन्मात्रसङ्कोचा भावान्नोपसंहार इति वाच्यम् । तन्मात्रसङ्कोच

इति कोऽर्थः ? आग्नेयमात्रे सङ्कोचो वा ? सामान्य प्राप्तस्य विशेषमात्रे सङ्कोचो

 
[commentary]
 
स्वस्मिन् स्वेतर स्मिश्च प्राप्तं विषयं स्वेतरस्मात् व्यावर्त्य स्वमात्रेऽवस्थापनमुपसंहारः ।

तथैव प्राप्तं विषयं स्वस्मात् व्यावर्त्य स्वेतरस्मिन् व्यवस्थापनं पर्युदास इत्यर्थः । एवञ्च

प्रकृते 'नानूयाजेष्वि' त्यनेन येयजामहं स्वस्मात् व्यावर्त्य स्वेतरस्मिन् व्यवस्थापनात्

पर्युदास एव नोपसंहार इति भावः । केचिदिति । न्यायसुधाकृत इत्यर्थः ।
 

 
अन्नैव पार्थसारथिमिश्रमतमाह - अन्य विति । प्रत्ययातिरिकेनेति । विधा-

यकप्रत्ययो यो लिङादिस्त द्भिन्नेनेत्यर्थः । स च क्वचित् धातुः, यथा 'नेक्षेते' त्यादी ।

क्वचित् नामापि, यथा प्रकृते, तेन यः सम्बन्धः अन्वयः प्रतियोगिता सम्बन्धावच्छिन्न-

इस इत्यर्थः । एवञ्च विधिव्यापार उपसंहारः, धात्वादिसम्बद्धनञव्यापारः पर्युदास इति

तयोः स्पष्ट एव भेदः इत्याह - अतश्चेति ।
 

 
ननु सत्यपि बोधकमेदे फले विशेषाभावात् किमर्थं तयोर्भेद श्राश्रीयते इत्यत

- एवमिति । यदि उपसंहारः पर्युदाससमनियतः स्यात् तदानीं तयोरपृथक्भावे-

नाभेद आशक्येतापीत्यर्थः । तस्मिन् पर्युदासे । सङ्कल्पमात्रेति । मात्रपदेनोपसंहा-

रव्यावृत्तिः । यद्येवं तर्हि प्रकृते कथमुभयोस्सामानाधिकरण्यम् ? अत आह-प्रकृतेति ।

विरुध्यत इति । विधिकार्यस्योपसंहारस्य तेनैव करणात् नामसमभिव्याहृतनञ् कार्यस्य

च पर्युदासेन करणात न फलैक्यादिरूपो विरोध इति भावः । विरोधाभाव मेवोपपादयति-

विध्यभाव इति । श्राग्नेयपदवदिति । यथा चाग्नेयपदं स्वार्थरूपं विशेषं समर्पयति,

एवं 'नानूयाजेष्वि' तिपदं स्वातिरिक्तरूपं विशेषं समर्पयतीत्यर्थः ।
 

 
तन्मात्र सङ्कोचनमेवोपसंहारं मन्वानश्शङ्कते-- न चेति । अत्र नानूयाजेण्वित्यत्र ।

तमिमं पक्षं विकल्प्य दूषयति - तन्मात्रेति । तन्मात्रेत्यत्र तच्छन्दः प्रकृतोदाहरणस्था-