This page has been fully proofread once and needs a second look.

व्यतिरिक्तेषु येयजामहः कर्तव्यतया प्राप्तः । अनूयाजेषु तु स न कर्तव्यतया
प्राप्तो न वा प्रतिषिद्ध इति न विकल्पः । लक्षणया चानूयाजव्यतिरिक्तविषय-
समर्पणा' न्नानूयाजेष्वि' ति वाक्यस्व नाप्रामाण्वि' ति वाक्यस्व नाप्रामाण्यम् । अतश्च पर्युदासाश्रयणे
न किंश्चिद्वाबाधकम्
 
तत्सिद्धं नानूयाजेन्ष्विति वाक्ये विकल्पभयात् पर्युदासाश्रयणमिति
ननु - -पर्युदासाश्रयणे 'यजतिषु येयजामहं करोती'ति शास्त्रेण यागला.सा-
मान्ये प्राप्तस्य येयजामहस्य "नानूयाजेष्वि" त्यनेनानूयाजव्यतिरिक्ते सङ्को-
चकल्पनात् पर्युदासस्योपसंहारादमेदः स्यात् । उपसंहारे हि सामान्ये प्राप्त-
स्य विशेषे सङ्कोचो भवति । यथा "पुरोडाशं चतुर्धा करोती"ति पुरोडाश-
सामान्ये प्राप्तं चतुर्धाकरणं "श्राग्नेयं चतुर्धा करोती " श्त्याग्नेये सङ्कोच्यत
इति चेत् --
 
( पर्युदासोपसंहार यो र्भेद निरूपणम् )
 
, तन्मात्रसङ्कोचार्थत्वादुपसंहारस्य, तदन्यमात्रसहोङ्कोचार्थत्वात् पर्यु-
दासस्येति केचित्
 
[commentary]
 
त्वात् प्रवृत्तिसम्पादनार्थं सामान्यशास्त्रमेव विशेषमपेक्षते । तं च विशेषमनूयाजव्यतिरि-
क्तयागरूपं नानूयाजेष्विति समर्पयति । तावतैव च शास्त्रद्वयमपि चरितार्थम् । अनूया-
जेषु च प्रापकनिषेधकयोरुभयोरप्यभावात् विकल्पप्रसक्तिरेव नास्तीत्यर्थः । एवञ्चानूया.
जव्यतिरिक्तेषु विधिप्राप्तत्वात् येयजामहस्य नित्यं करणम्, अनूयाजेषु तु प्रापकप्रमाणा-
भावादेव नित्यमकरण मिति सिद्धम् । नचैवमपि पर्युदसनीयप्राप्तिसापेक्षत्वेन विकल्पो
दुर्वार इति वाच्यम् । तत्र प्राप्तेस्तार्किकीकीं भ्रान्तिमादायाप्युपपत्तौ शास्त्रीयप्राप्त्यनपेक्ष-
णात् । प्रतिषेधपक्षे तु शाब्दबोधसिध्यर्थं तात्विकी प्राप्तिरवश्यं वक्तव्येति बैवैषम्यम् । ननु
सामान्यवाक्येनैव येयजामहविण्ध्युपपत्ते: नास्य किश्ञ्चित् प्रयोजनमित्यप्रामाण्यापत्तिरित्यत
श्रह- -लक्षणयेति । एतदभावे हि विशेषात् सर्वेष्वपि यागेषु येयजामहः प्रवर्खेत,
सति स्वस्मिन् अनूयाजव्यतिरिक्तरूप विषय समर्पणात् अनूयाजेषु न प्रवृत्तिः । अतोऽनूया-
ग्व्यावृत्तिरेव फलमिति नाल्स्याप्रयोजनवश्त्वमिति भावः । उक्तमर्थं निगमयति-तत्सिद्ध-
मिति । यद्यपि पर्युदासाश्रयणेऽपि लक्षणारूपो दोषो जागर्ति तथाप्यष्टदोषदुष्टविकल्पा-
पेक्षया सोऽत्यन्तं लघुभूत एवेत्याश्चयः
 
ननु सामान्यविधिना प्रन्अनूयाजाननूयाजसाधारण्येन प्राप्तस्य येयजामहस्य पर्यु-
दासेनानूयाजव्यतिरिक्तार्थस्वबोधने सामान्ये प्राप्तस्य विशेषे सङ्कोचनरूपोपसंहाररूपत्वं
पर्युदासस्यापद्येतेति शङ्कते- नन्विति नन्विति। पुरोडाशमिति । स्वि। स्विष्टकृद्यागानन्तर मिडा.-
भक्षणे कृते योऽवशिष्टः पुरोडाशः तं चतुर्षाधा विभजेदित्यर्थः । कर्मकरेभ्य ऋत्विग्भ्य-
तुर्भ्यो दातुमयं विभागः । पुरोडाशसामान्य इति । दर्शपूर्णमास प्रकरणे हि आमेग्नेयः,
अग्नीषोमीयः, सोमयाजिनस्सान्नाय्याभावादैन्द्राग्नः इति पुरोडाशत्रयम् । तत्र त्रिष्वपि
पुरोडाशेषु चतुर्षाधाकरणं प्राप्तमित्यर्थः
 
2

 
( पर्युदासोपसंहारयोर्भेदनिरूपणम् ) ।
एवमाशङ्किते पर्युदासोपसंहारयोर्भेदं न्यायसुधाकृन्मतेन विवृणोति-तन्मात्रेति