This page has not been fully proofread.

१७२
 
भोमांसान्यायप्रकाशः
 
[ पर्युदास-
व्यतिरिक्तेषु येयजामहः कर्तव्यतया प्राप्तः । अयाजेषु तु स न कर्तव्यतया

प्राप्तो न वा प्रतिषिद्ध इति न विकल्पः । लक्षणया चानूयाजव्यतिरिक्तविषय-

समर्पणा' नानूयाजेण्वि' ति वाक्यस्व नाप्रामाण्यम् । अतश्च पर्युदासाश्रयणे

न किंश्चिद्वाधकम् ।
 

 
तत्सिद्धं नानूयाजेन्विति वाक्ये विकल्पभयात् पर्युदासाश्रयणमिति ।

ननु - पर्युदासाश्रयणे 'यजतिषु येयजामहं करोतीति शास्त्रेण यागला.

मान्ये प्राप्तस्य येयजामहस्य "नानूयाजेवि" त्यनेनानूयाजव्यतिरिक्ते सङ्को-

चकल्पनात् पर्युदासस्योपसंहारादमेदः स्यात् । उपसंहारे हि सामान्ये प्राप्त-

स्य विशेषे सङ्कोचो भवति । यथा "पुरोडाशं चतुर्धा करोती"ति पुरोडाश-

सामान्ये प्राप्तं चतुर्धाकरणं "श्राग्नेयं चतुर्धा करोती " श्याग्नेये सङ्कोच्यत

इति चेत् -
 

 
( पर्युदासोपसंहार यो र्भेद निरूपणम् )
 

 
भ, तन्मात्रसकोचार्थत्वादुपसंहारस्य, तदन्यमात्रसहोचार्थत्वात् पर्यु-

दासस्येति केचित् ।
 
-
 

 

 

 
[commentary]
 
त्वात् प्रवृत्तिसम्पादनार्थं सामान्यशास्त्रमेव विशेषमपेक्षते । तं च विशेषमनूयाजव्यतिरि-

फयागरूपं नानूयाजेष्विति समर्पयति । तावतैव च शास्त्रद्वयमपि चरितार्थम् । अनूया-

जेषु च प्रापकनिषेधकयोरुभयोरप्यभावात् विकल्पप्रसक्तिरेव नास्तीत्यर्थः । एवञ्चानूया.

जव्यतिरिक्तेषु विधिप्राप्तत्वात् येयजामहस्य नित्यं करणम्, अनूयाजेषु तु प्रापकप्रमाणा-

भावादेव नित्यमकरण मिति सिद्धम् । नचैवमपि पर्युदसनीयप्राप्तिसापेक्षत्वेन विकल्पो

दुर्वार इति वाच्यम् । तत्र प्राप्तेस्तार्किकी भ्रान्तिमादायाप्युपपत्तौ शास्त्रीयप्राप्त्यनपेक्ष-

णात् । प्रतिषेधपक्षे तु शाब्दबोधसिध्यर्थं तात्विकी प्राप्तिरवश्यं वक्तव्येति बैषम्यम् । ननु

सामान्यवाक्येनैव येयजामहविण्युपपत्ते: नास्य किश्चित् प्रयोजनमित्यप्रामाण्यापत्तिरित्यत

श्रह- लक्षणयेति । एतदभावे हि विशेषात् सर्वेष्वपि यागेषु येयजामहः प्रवर्खेत,

सति स्वस्मिन् अनूयाजव्यतिरिक्तरूप विषय समर्पणात् अनूयाजेषु न प्रवृत्तिः । अतोऽनूया-

जग्यावृत्तिरेव फलमिति नाल्याप्रयोजनवश्वमिति भावः । उक्तमर्थं निगमयति-तत्सिद्ध-

मिति । यद्यपि पर्युदासाश्रयणेऽपि लक्षणारूपो दोषो जागर्ति तथाप्यष्टदोषदुष्टविकल्पा-

पेक्षया सोऽत्यन्तं लघुभूत एवेत्याश्चयः ।
 

 
ननु सामान्यविधिना प्रन्याजाननूयाजसाधारण्येन प्राप्तस्य येयजामहस्य पर्यु

दासेनानूयाजव्यतिरिक्तार्थस्वबोधने सामान्ये प्राप्तस्य विशेषे सङ्कोचनरूपोपसंहाररूपत्वं

पर्युदासस्यापद्येतेति शङ्कते- नन्विति । पुरोडाशमिति । स्विकृयागानन्तर मिडा.

भक्षणे कृते योऽवशिष्टः पुरोडाशः तं चतुर्षा विभजेदित्यर्थः । कर्मकरेभ्य ऋत्विग्भ्य-

अतुर्भ्यो दातुमयं विभागः । पुरोडाशसामान्य इति । दर्शपूर्णमास प्रकरणे हि आमेयः,

अग्नीषोमीयः, सोमयाजिनस्सान्नाय्याभावादैन्द्राग्नः इति पुरोडाशत्रयम् । तत्र त्रिष्वपि

पुरोडाशेषु चतुर्षाकरणं प्राप्तमित्यर्थः ।
 

 
2
 

 
( पर्युदासोपसंहारयोर्भेदनिरूपणम् ) ।

एवमाशङ्किते पर्युदासोपसंहारयोर्भेदं न्यायसुधाकृन्मतेन विवृणोति-तन्मात्रेति ।