This page has been fully proofread once and needs a second look.

वदनाकर[^१]यादिव दर्शपूर्णमासयोः । स चोपकारोऽदृष्टरूप इति द्विरदृष्ट-
कल्पनाप्रसङ्गः । अतश्च विकल्पो न युक्तः। प्रतिषेधाश्रयणे च तदापत्तेर्न

तदाश्रयणम् ।
 
किन्तु नञः अनूयाजशब्देन सम्बन्धमाश्रित्य पर्युदास श्राश्रीयते,
नञनूयाजशब्दाभ्यामनूयाजव्यतिरिक्तलक्षणात्- अनूया जव्यतिरिक्तेषु येयजा-
महं करोतीति । अत्र च वाक्ये येयजामहः कर्तव्यतया न विधीयते, 'यजतिषु
येयजामहं करोती'त्यनेनैव विहितत्वात् । किन्तु सामान्यशास्त्रविह्नितयेय-
जामहानुवादन तस्यांयानूयाजव्यतिरिक्त विषयता विधोयते -यत् यजतिषु येय-
जामहं करोति तदनूयाजव्यतिरिक्तेष्विति । एवञ्च सामान्यशास्त्रस्य विशेषशा.-
स्त्रा [^२]पेक्षिणः 'नानूयाजे' ब्ष्वित्यनेनानूयाजव्यतिरिक्तविषय समर्पणादनूयाज-
 
[commentary]
 
चोपकारजनकत्वनियमादिति भावः । तदकरणादित्यनन्तरं कश्चनोपकारो भवतीति शेषः
 
तत्र दृष्टान्तमाह - --अनृतेति । यथा दर्शपूर्णमासप्रकरणगतेन 'नानृतं वदेत्'
इति वाक्येन दर्शपूर्णमासापूर्वोद्देशेनानृतवदनवर्जन विधानात् तादृशवर्जनेन दर्शपूर्णमा-
सयोरुपकारस्सम्पाद्यत इत्यवगम्यते, एवमनूयाजोद्देशेन येयजामहाकरण विधानात् तेन
तत्रोपकारस्सम्पाद्यत इत्यवगम्यत इत्यर्थः । एवञ्च क्रतुवैगुण्यपरिहारद्वारा क्रत्व पूर्व जनकत्वं
क्रत्वर्थनिषेधानामित्युक्तं भवति । उक्तं हि वार्तिककृता-"प्रकरण सामर्थ्याद्धि
पुरुषगतमपूर्वसाधनत्वं लक्षयित्वा अनृतं प्रतिषिद्धम् । अतस्तदतिक्रमे दर्श-
पूर्णमासापूर्वमेव वैगुण्यान्न स्यात्" इति । अदृष्टकल्पनाप्रसङ्ग इति । अनुयाज-
करणात् तदकरणाद्वा दृष्टस्य फलस्य कस्याप्यसम्भवात् उभयत्राप्यदृष्टस्यैव कल्पनावश्यं-
भावेनादृष्टद्वयकल्पनप्रसङ्ग इत्यर्थः । अतश्चेति । शास्त्रस्य पक्षेऽप्रामाण्यापत्त्या अदृष्टद्वय-
कल्पनापच्त्त्या चेत्यर्थः । तदापत्तेः विकल्यापापत्तेः । तदाश्रयणं प्रतिषेधाश्रयणम्
 
-
 
-

 
तर्हि किमत्राश्रीयते ? अ - ह--किन्विति त्विति। नञोऽनूयाजसम्बन्धे कथं पर्यु-
दासः ? अत आह--नञिति । पर्युदासप्रकारमेवाह-नूयाजेति । ननु अत्रापि येय.-
जामहकर्तव्यताया एव बोधनात् को विशेषस्सा मान्यवाक्यादित्यत आह - प्रति -अत्रेति
नञ्घटितवाक्य इत्यर्थः । कतर्व्यताबोधक विधिप्रत्ययश्रवणात् कुतो न कर्तव्यताबोधनम्
श्रत श्रा
?
अत आ
- --यजतिष्विति । सत्यपि विधिप्रत्ययश्रवणे विहितस्य पुनर्विधानायोगात् सो-
ऽन्यपुरतया नेय इति भावः । तर्हि किमनेन क्रियते ? तदाह--किन्विति त्विति। व्यति-
रिक्तविषयतेति । एवञ्चास्य वाक्यस्य येयजामहप्रवृत्तौ विषयसमर्पणमात्रं व्यापार
इति भावः । तदेव स्पष्टयति - --यदिति । कथमेतावता विकल्पपरिहार: ? तं निरूपयति-
एवञ्चेति । विशेषशास्त्रापेक्षिण इति । सामान्यविशेषशास्त्रयोरेकवाक्यतया विशेष-
शास्त्रगृहीतविषयव्यतिरिक्तविषय एव सामान्यशास्त्रप्रवृत्तेः तदर्थं तस्य विशेषशास्त्रसापे-
क्षत्वादित्यर्थः । नानूयाजेष्विति । विशेषशास्त्रेणेतिशेषः । विशेषापेक्षिण इति क्वचि.-
त् पाठः । स यदा स्त्रीवीक्रियते तदाऽयमर्थः - -सामान्यस्य विशेषेऽपर्यवसन्नस्य प्रवृत्यजनक-
>
 
[^१] दिवत् ।
 
[^२] विशेषापेक्षिणः