2023-02-20 11:47:42 by ambuda-bot
This page has not been fully proofread.
निरूपणम् ]
सारविवेचिनी व्याख्या संवलितः
१७१
वदनाकर ( १ ) यादिव दर्शपूर्णमासयोः । स चोपकारोऽदृष्टरूप इति द्विरदृष्ट
कल्पनाप्रसङ्गः । अतश्च विकल्पो न युक्तः । । प्रतिषेधाश्रयणे च तदापत्तेर्न
तदाश्रयणम् ।
किन्तु नञः अनूयाजशब्देन सम्बन्धमाश्रित्य पर्युदास श्राश्रीयते,
नञनूयाजशब्दाभ्यामनूयाजव्यतिरिक्तलक्षणात्- अनूया जव्यतिरिक्तेषु येयजा-
महं करोतीति । अत्र च वाक्ये येयजामहः कर्तव्यतया न विधीयते, 'यजतिषु
येयजामहं करोती'त्यनेनैव विहितत्वात् । किन्तु सामान्यशास्त्रविह्नितयेय-
जामहानुवादन तस्यांनूयाजव्यतिरिक्त विषयता विधोयते यत् यजतिषु येय-
जामहं करोति तदनूयाजव्यतिरिक्तेष्विति । एवञ्च सामान्यशास्त्रस्य विशेषशा.
स्त्रा (२)पेक्षिणः 'नानूयाजे' ब्वित्यनेनानूयाजव्यतिरिक्तविषय समर्पणादनूयाज
चोपकारजनकत्वनियमादिति भावः । तदकरणादित्यनन्तरं कश्चनोपकारो भवतीति शेषः ।
तत्र दृष्टान्तमाह - अनृतेति । यथा दर्शपूर्णमासप्रकरणगतेन 'नानृतं वदेत्'
इति वाक्येन दर्शपूर्णमासापूर्वोद्देशेनानृतवदनवर्जन विधानात् तादृशवर्जनेन दर्शपूर्णमा-
सयोरुपकारस्सम्पाद्यत इत्यवगम्यते, एवमनूयाजोद्देशेन येयजामहाकरण विधानात् तेन
तत्रोपकारस्सम्पाद्यत इत्यवगम्यत इत्यर्थः । एवञ्च क्रतुवैगुण्यपरिहारद्वारा क्रत्व पूर्व जनकत्वं
क्रत्वर्थनिषेधानामित्युक्तं भवति । उक्तं हि वार्तिककृता-"प्रकरण सामर्थ्याद्धि
पुरुषगतमपूर्वसाधनत्वं लक्षयित्वा अनृतं प्रतिषिद्धम् । अतस्तदतिक्रमे दर्श-
पूर्णमासापूर्वमेव वैगुण्यान्न स्यात्" इति । अदृष्टकल्पनाप्रसङ्ग इति । अनुयाज-
करणात् तदकरणाद्वा दृष्टस्य फलस्य कस्याप्यसम्भवात् उभयत्राप्यदृष्टस्यैव कल्पनावश्यं-
भावेनादृष्टद्वयकल्पन।प्रसङ्ग इत्यर्थः । अतश्चेति । शास्त्रस्य पक्षेऽप्रामाण्यापत्त्या अदृष्टद्वय
कल्पनापच्या चेत्यर्थः । तदापत्तेः विकल्यापत्तेः । तदाश्रयणं प्रतिषेधाश्रयणम् ।
-
-
तर्हि किमत्राश्रीयते ? अ आ - किन्विति । नञोऽनूयाजसम्बन्धे कथं पर्यु-
दासः ? अत आह – नञिति । पर्युदासप्रकारमेवाह-मनूयाजेति । ननु अत्रापि येय.
जामहकर्तव्यताया एव बोधनात् को विशेषस्सा मान्यवाक्यादित्यत आह - प्रति ।
नञ्घटितवाक्य इत्यर्थः । कतर्व्यताबोधक विधिप्रत्ययश्रवणात् कुतो न कर्तव्यताबोधनम् १
श्रत श्राह - यजतिष्विति । सत्यपि विधिप्रत्ययश्रवणे विहितस्य पुनर्विधानायोगात् सो-
ऽन्यपुरतया नेय इति भावः । तर्हि किमनेन क्रियते ? तदाह – किन्विति । व्यति
रिक्तविषयतेति । एवञ्चास्य वाक्यस्य येयजामहप्रवृत्तौ विषयसमर्पणमात्रं व्यापार
इति भावः । तदेव स्पष्टयति - यदिति । कथमेतावता विकल्पपरिहार: ? तं निरूपयति-
एवञ्चेति । विशेषशास्त्रापेक्षिण इति । सामान्यविशेषशास्त्रयोरेकवाक्यतया विशेष-
शास्त्रगृहीतविषयव्यतिरिक्तविषय एव सामान्यशास्त्रप्रवृत्तेः तदर्थं तस्य विशेषशास्त्रसापे०
क्षत्वादित्यर्थः । नानूयाजेष्विति । विशेषशास्त्रेणेतिशेषः । विशेषापेक्षिण इति क्वचि.
त् पाठः । स यदा स्त्रीक्रियते तदाऽयमर्थः - सामान्यस्य विशेषेऽपर्यवसन्नस्य प्रवृत्यजनक-
>
१. दिवत् ।
२. विशेषापेक्षिणः