This page has not been fully proofread.

मोमांसान्यायप्रकाशः
 
[ पर्युदास-
स्वार्थविधानार्थमाहवनीयशास्त्रापेक्षास्ति । निषेधशास्त्रस्य तु प्रसक्त्यथ

'यजतिषु येयजामहं करोती' ति विधेरस्त्यपेक्षा ।
 

 
एवञ्च निषेधशास्त्रस्य विशेषविषयत्वेन प्राबल्यवत् विधिशास्त्रस्याप्युप

जीव्यत्वेन प्रावल्यमस्तीति न. निषेधेन विधेरत्यन्तवार्थो युक्त इति विहित

प्रतिषिद्धत्वाद्विकल्पः स्यात् । स वन युक्तः । विकल्पे हि पक्षे शास्त्रस्या-

प्रामाण्यं भवति। न ह्यनूयाजेषु येयजामहकरणे नानूयाजेष्वि' त्यस्य प्रामाण्यं

सम्भवति, व्रीह्यनुष्ठान समय इव यवशास्त्रस्य ।
 

 
A
 

 
द्विरदृष्टकल्पना च स्यात् । विधेहिं एवं ज्ञायते यदनूयाजेषु येयजामह-

करणे कश्चनोपकारो भवतीति । निषेधाच्च तदकरणादिति ज्ञायते, अनृत.
 
N 7
 
१७०
 

 
[commentary]
 
प्रवृत्तस्य चात्यन्तबाधायोगात् विकल्पो दुर्वार इति वाच्यम् । सामान्य शास्त्रस्थजुहोतेः

होमत्वसामान्य वाचित्वात् तेन च व्यक्तिलक्षणया तदवच्छिन्न व्यक्तिमात्रे आहवनीयं

विदधता शक्यसम्बन्धमालोच्य तेन च निर्ज्ञातसम्बन्धस कलव्यक्तिलक्षणापूर्वकं पदहोम-

व्यक्तिर्यावता लक्ष्यते ततः पूर्वमेव प्राकरणिकेन पदवाक्येन विजातीयपदहोमव्यक्ति

लक्षयित्वा झटिति तत्र पदविधानात् तेनैव च पदहोमस्य नैराकांक्ष्येण पदहोमे ग्राहक-

नीयशास्त्र प्रवृत्तेरेवाभावात् । अतश्बाहवनीयशास्त्रं वस्तुतः पदहोमातिरिक्तविषयमेव ।

एतद्वाक्यादर्शनजनिता भ्रान्तिः परमनेन वाक्येनापोद्यते इति वेदितव्यम् । प्रकृते तु न

तथा भवितुमर्हतीस्याह - निषेधशास्त्रस्येति । नानूयाजेध्विति शास्त्रस्यैत्यर्थः । नच

अत्रापि निषेधसिद्धयर्थं प्राप्त्या प्रमारूपयैव भाव्यमिति न नियमः । निषेधशास्त्रानालो-

चने सामान्यश्चास्त्रजनितभ्रमात्मक प्रतिमादायापि तत्सम्भवादिति-वाच्यम् । सामान्य-

शास्त्रस्य प्रथममालोचने तत्सम्भवेऽपि विशेषशास्त्रस्य प्रथमालोचने प्रथममेव विशेषद-

र्शनसत्वात् सामान्य शास्त्रेण भ्रमानुपपत्तेः । अतोऽवश्यं निषेधसिध्यर्थं प्रमारूपाया एव

प्राप्तेरावश्यकत्वेन तत्प्रापितपदार्थस्य निषेधे विकल्प एव पर्यवस्येदिति ।
 

 
F
 

 
.
 

 
ननु एवमपि कथं विकल्पः ? तुल्यबलयोरेव खलु विकल्पो दृष्टः, नात्र तदस्ति ।

निषेधशास्त्रस्य विशेषविषयत्वेन प्राबल्यात्, पत आाह - एवञ्चेति । "दुर्बलोऽपि

विधिस्तदधीनारमलाभेन प्रतिषेधेन तुल्यबलो भवति" इति न्यायेनोभयोस्तुल्य-

बलत्वमिति भावः । अस्तु विकल्पः को दोष: ? प्रत आह - विकल्प इति । शास्त्र-

स्येति । यदा यत्किञ्चित् शास्त्रमुपादातुमारभते तदानीं तत्समानविषयक शास्त्रान्तरस्य

परित्यागः कर्त्तव्यो भवति । स चोपादेयशास्त्रापेक्षया परित्याज्यशास्त्रेऽप्रामाण्यबुद्धिमन्तरा

न सम्भवति । उभयत्रापि प्रामाण्यमीहमानो हि तयोर्बलाबलमनवधारयन्न कुत्रापि प्रवर्ते-

तेति भावः । श्रोहीति । व्रीहिभिः पुरोडाशद्वारा यागानुष्ठानसमय इत्यर्थः । एतच निरू-

पितं विकल्पस्या ष्टदोषदुष्टत्वनिरूपणावसरे ।
 

 
ननु शास्त्रस्य पाक्षिको बाघो नात्यन्तदोषावहः, पक्षे प्रामाण्य सम्भवादित्यत ग्राह-

द्विरिति । तामेवोपपादयति - विधेरिति । पञ्चमीविभक्तिरियम् । उपकारो भिव

तीति । अनारभ्याधीतस्यापि येयजामहस्य यागसामान्योद्देशेन विहितत्वात् विहितस्य
 
-