This page has been fully proofread once and needs a second look.

अतश्च प्राप्तिसापेक्षत्वात् प्रतिषेधानाम नूयाजेषु येयजामहप्रतिषेधे तस्य
तत्र प्राप्तिर्वक्तव्या । सा च न तावद्धननादाविव रागतः सम्भवति । अतो 'यज-
तिषु येयजामहं करोती' ति शास्त्रात् सा वक्तव्या । शास्त्रप्राप्तस्य च प्रतिषेधे
विकल्प: स्यात्, शास्त्रेण भ्रान्ति निमित्तरागस्येव शास्त्रान्तरस्यात्यन्तबाधा.-
योगात्
 
न च पदशास्त्रेणाहवनीयशास्त्रस्येव 'नानूयाजेष्वि'ति विशेषशास्त्रेण
'यजतिषु येयजामहं करोती' ति सामान्यशास्त्रस्य बाधः स्यादिति वाच्यम्
शास्त्रयोर्हि तत्र बाध्यबाधक्रभावो यन्त्र परस्परनिरपेक्षता । न हि पदशास्त्रस्य
 
[commentary]
 
विध्योरेवा पूर्वविधित्व नियमविधित्वे सम्मते इति न निषेधस्यापूर्वविध्यादि-
वत् मेभेत्रयमात्रम्" इति ग्रन्थेनोपोद्वलयन्ति प्रकाशकारा प्रपीति ध्येयम्
 
एवं प्रतिषेधस्य प्राप्तिसापेक्षत्वे साघिधिते प्रकृतेऽप्यनूयाजाधिकरण कयेयजामहस्य नि.-
षेधार्थं तत्र तत्प्राप्तिरवश्यं वक्तव्येत्याह- प्रतश्चेति । अस्तु प्राप्तिसापेक्षत्वम्, तथापि
रागादेव सा भवतु, तथा च हननादाविव नित्यवन्निषेधस्सिष्ध्यतीत्याशङ्क्याह-सा चेति
रागत इति । क्रियायां दुःखात्मिकायां विना वचनं प्रेक्षावतां प्रवृश्त्यनुदयादिति भावः
अत्यन्तबाधायोगादिति । रागप्राप्तस्थले हि रागस्य भ्रान्तिनिमित्तकस्य सम्भवात्तत्प्रा-
पितस्य पदार्थस्य भ्रान्त्याद्यनिमित्त कशास्त्रप्रापितेन तेन युक्तो बाघः धः। शास्त्रीय-
प्राप्तिस्थले तु उभयोरपि शास्त्रीयस्त्वा विशेषात् भ्रमप्रमादाद्यसम्भवस्य चाप्युभयत्र तुल्य-
त्वात् तादृशेनैकेन तादृशस्यै वापरस्यास्यात्यन्तिको बाधो न भवितुमर्हतीति पाक्षिक एव
बाघोजी धोऽङ्गीकर्तव्यस्स्यात्, तथा च विकल्प इति
 
ननु - -शास्त्रप्राप्तस्यापि शास्त्रान्तरेणात्यन्तिको बाघोधो दृष्टः पदाहवनीयाद, तद्वदेवा.-
त्रापि कुतो न स्यात् इत्याशङ्कामनूद्य परिहरति-न चेति । पदशात्रेणेति । ज्योति-
ष्टोमप्रकरणे यागार्थं सोमलतायाः क्रयणमाम्नातम्- "अरुणया पिङ्गाक्ष्यैकहाय न्या
( गवा ) सोमं क्रीणाती" ति । तत्र यजमानगोष्ठस्था गौः क्रयस्थानं प्रत्यानीयते
नीयमाना च सा यत्र सप्तमं पदं निक्षिपति तत्र होमः कर्तव्यतया विहितः- "सप्तमे
पदे जुहोति" इति । एवं अश्वमेधे यागीयाश्वस्य पदप्रक्षेपस्थाने होमो विहितः-
"अश्वस्य पदे पदे जुहोति" इति, एतादृशानि होमविशेषोद्देशेन पदरूपाधिकरण वि
घा
वि
धा
यकानि वाक्यानि पदशास्त्राणि । "यदाहवनीये जुहोती" ति होमस्त्वावच्छिन्नो-
द्देशेनाहवनीय संज्ञकाग्निविधायकं शास्त्रमाहवनीयशास्त्रम् । तत्र विजातीयहोमस्त्वं
पदशास्त्रस्योद्देश्यतावच्छेदकम् । आहवनीयशास्त्रं तु होमस्त्वावच्छिन्नोद्देश्यकम् । एवञ्च
सामान्य विषयकस्याहवनीयशास्त्रस्य विशेष विषय केण पदशास्त्रेणात्यन्तिको बाघोधो यथा-
मीङ्गीक्रियते एवमनूया जगतयेयजामहमात्रविषयकेण 'नानूयाजेष्वि"ति शास्त्रेण यागसा.-
मान्यगतयेयजामहविषय कस्य 'यजतिषु येयजामहं करोती'ति शास्त्रस्य बाघोधो भव-
त्वित्याशङ्कार्थः । समाधत्ते - --शास्त्रयोरिति । न च सामान्ये आघाधारान्वयायोगात्
तद्वारा व्यक्तिविशेषेष्वेव प्रवर्तमानस्य सामान्यशास्त्रस्या विशेषांषात् पदहोमव्यक्तावपि प्रवृत्तः